पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना || भरतेन च शत्रुनो जगामाशु पुरं ततः ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ॥ १९९ त्रिसप्ततितमः सर्गः ॥ ७३ ॥ कदाचन केनचिज्जनपदवासिनावृद्धद्विजेन मृतपुत्रादानेन राजद्वारमेत्य निजबालपुत्रमृतेः राजदोषमूलकत्वाक्रोशनपूर्वकं दुःखाच्चैरोदनम् ॥ १ ॥ प्रस्थाप्य तु स शत्रुभं भ्रातृभ्यां सह राघवः ॥ प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ॥ १ ॥ ततः कतिपयाहस्सु वृद्धो जानपदो द्विजः ॥ मृतं बालमुपादाय राजद्वारमुपागमत् ॥ २ ॥ रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः ॥ असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ॥ ३ ॥ किंनु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् ॥ यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ॥ ४ ॥ अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् || अकाले कालमापनं मम दुःखाय पुत्रक ॥ ५ ॥ अल्पैरोभिर्निधनं गमिष्यामि न संशयः ॥ अहं च जननी चैव तव शोकेन पुत्रक ॥ ६ ॥ न मराम्यनृतं युक्तं न च हिंसां स्मराम्यहम् ॥ सर्वेषां प्राणिनां पापं कृतं नैव मराम्यहम् ॥ ७॥ केनाद्य दुष्कृतेनायं बाल एव ममात्मजः || अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ॥ ८ ॥ नेशं दृष्टपूर्व मे श्रुतं वा घोरदर्शनम् || मृत्युरप्राप्तकालानां रामस्य विषये यथा ॥ ९ ॥ रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः ॥ यथा हि विषयस्थानां बालानां मृत्युरागतः ॥ १० ॥ यविचारः ॥ १३–२१ ॥ इति श्रीगोविन्दराजवि- स्नेहसमन्विता बहुविधा वाचः रुदन् विलपन् । रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर - रुदन् बहुविधं विप्र इति च पाठः ॥ ३–४ ॥ काण्डव्याख्याने द्विसप्ततितमः सर्गः ॥ ७२ ॥ कालमापनं कालवशं गतं ॥ ५–६ ॥ न स्मरामि । अथ मृतबालकब्राह्मणस्य राजद्वारि विलापः | अकृतत्वादेवेति भावः ॥ ७–८ | विषये देशे। —प्रस्थाप्येत्यादि ॥ १–२ ॥ असकृत् पुत्र पुत्रेति | यथा सर्वानुभवादितः पूर्व नेदृशं दृष्टपूर्व ॥ ९ ॥ अद्य ति० भ्रातृभ्यां लक्ष्मणभरताभ्यां । स० ससुखी प्रशस्तसुखवात्रामः । सुखस्यप्राशस्त्यंचस्वरूपता ॥ १ ॥ ति० कतिपया- हस्सु गतेष्वितिशेषः ॥ २ ॥ ति० स्नेहेन पुत्रस्नेहेनतन्मरणदुःखेनचसमन्वितः ॥ स० स्नेहदुःखसमन्वितः स्नेहः पुत्रेममता- विशेषः । तन्निमित्तंयद्दुःखंतेनसमन्वितः ॥ शि० रुदन् उच्चारयन् ॥ ३ ॥ स० कुमारान्तरदर्शनेनै त हुःख विस्मरणयोग्यतापि ममनास्तीत्याह – एकमिति ॥ ४ ॥ ति० किंचहेपुत्रक अप्राप्तयौवनंममदुःखाय | अकालेकालमापन्नंपश्यामीत्यनुषङ्गः । पञ्चव- र्षसहस्रकं वर्षशब्दोत्रदिनपरः । 'सहस्रसंवत्सरंसत्रमुपासीत' इतिवत् । तेनषोडशवर्षमित्यर्थंइत्येके | तेनकिंचियूनचतुर्दशवर्ष- मित्यर्थंइत्यन्ये ॥ ५ ॥ स० अहंगमिष्यामि | जननीमातागमिष्यति । गमिष्यामीतिदुःखसमयत्वात्पुत्रव्यत्यासात्पुरुषव्यत्यासोवा ॥ ६ ॥ स० तवपातकित्वात्पोतघातोजातइत्यतआह-नेति । सर्वेषांप्राणिनांविषये अनृतं हिंसां च पापं । एतदितरजन्मान्तरे पापमुपार्जितवता मेतर्हिगर्हितकृतौसंस्कारवशान्मतिरुदेयादेव नोदिता | अतोदेहान्तरेपिनाघटिष्ट दुरिष्टमितिज्ञायते । अतइदमनु - चितमितिभावः ॥ ७ ॥ स० पितृकार्याणि ममश्राद्धादीनि ॥ ८ ॥ शि० अप्राप्तकालानामीदृशंमृत्युः दृष्टपून | श्रुतमपिन | सामान्येनपुंसकं ॥ ९॥ ति० तस्माद्राजदोषादेवेदंबालमरणमित्याह — रामस्येति । स ० रामस्यबहुज्ञस्यकथंदुष्कृतमित्यत- आह—चित्किमिति । चित् ज्ञानं | किं किंफला | सत्यप्यप्रयोजिकेतिभावः । दशानामपत्यानांस्थानेस्थितएकोमृतइति दुःखंविपुल- मितियोतयितुंबालाना मितिबहुवचनं ॥ १० ॥ [ पा० ] १ क. ग. च. छ. झ ञ ट दूरंपझ्यामनुगतो. ख. घ. दूरं तास्यामनुगतो. २ झ ठ. समन्वितः, ३ क. - च. ञ. पञ्चवर्षसमन्वितं. ४ ङ. झ. ज. विषयेह्ययं.