पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ तस्य शब्दं सुमधुरं तन्त्रीलयसमन्वितम् || श्रुत्वा रात्रिर्जगामाशु शत्रुघ्नस्य महात्मनः ॥ २ ॥ तस्यां निशायां व्युष्टायां कृत्वा पौर्वाहिकक्रमम् ॥ उवाच प्राञ्जलिर्वाक्यं शत्रुघ्नो मुनिपुङ्गवम् ॥३॥ भगवन्द्रष्टुमिच्छामि राघवं रघुनन्दनम् || त्वयानुज्ञातुमिच्छामि सहभिः संशितव्रतैः ॥ ४ ॥ इत्येवंवादिनं तं तु शत्रुघ्नं शत्रुतापनम् || वाल्मीकि संपरिष्वज्य विससर्ज च राघवम् ॥ ५॥ सोभिवाद्य मुनिश्रेष्ठं रथमारुह्य सुप्रभम् || अयोध्या मगमचूर्ण राघवोत्सुकदर्शनः ॥ ६ ॥ स प्रविष्टः पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः ॥ प्रविवेश महाबाहुर्यत्र रामो महाधुतिः ॥ ७ ॥ स राम मन्त्रिमध्यस्थं पूर्णचन्द्रनिभाननम् || पश्यन्नमरमध्यस्थं सहस्रनयनं यथा ॥ ८ ॥ अभिवाद्य महात्मानं ज्वलन्तमिव तेजसा | उवाच प्राञ्जलिर्वाक्यं रामं सत्यपराक्रमम् ॥ ९ ॥ यथाज्ञतं महाराज सर्वे तत्कृतवानहम् || हतः स लवणः पापः पुरी चास्य निवेशिता ॥ १० ॥ द्वादशैते गता वर्षास्त्वां विना रघुनन्दन || नोत्सहेयमहं वस्तुं त्वया विरहितो नृप ॥ ११ ॥ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम || मातृहीनो यथा वत्सो न चिरं प्रवसाम्यहम् ॥ १२ ॥ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत् ॥ मा विषादं कृथाः शूर नैतत्क्षत्रियचेष्टितम् ॥ १३ ॥ नावसीदन्ति राजानो विप्रवासेषु राघव || प्रजा नः परिपाल्या हि क्षत्रधर्मेण राघव ॥ १४ ॥ काले काले तु मां वीर ह्ययोध्यामवलोकितुम् || आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव ॥ १५ ॥ ममापि त्वं सुदयितः प्राणैरपि न संशयः ॥ अवश्यं करणीयं च राज्यस्य परिपालनम् ॥ १६ ॥ तस्मात्वं वत्स काकुत्स्थ सप्तरात्रमिहावस || ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ॥ १७ ॥ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् || शत्रुघ्नो दीनया वाचा बाढमित्येव चात्रवीत् ॥ १८ ॥ सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया || उष्य तत्र महेष्वासो गमनायोपचक्रमे ॥ १९ ॥ आमच्य तु महात्मानं रामं सत्यपराक्रमम् || भरतं लक्ष्मणं चैव महारथमुपारुहत् ॥ २० ॥ त्वयानुज्ञातमिति तवानुज्ञामित्यर्थः । एभिरिति । मुनिभिरिति शेषः ॥ ४–१२ || क्षत्रियचेष्टितं क्षत्रि कः सिद्धान्तार्थ इतिचिन्ताविशिष्टं । शयानंतंशत्रुघ्नं निद्रानाभ्यागमत् ॥ १ ॥ ति० तस्य रामगीतस्य || स० श्रुखाचिन्तयतः रात्रिराशुजगाम ॥ २ ॥ ति० पौर्वाहिकक्रमं शौचस्नानार्ध्य सन्ध्यावन्दनब्रह्मयज्ञानुष्ठानरूपंपूर्वाहसंबन्ध्याचारक्रमं || स० पौर्वाहिककर्म क्रमोपेतंपौर्वाहिकंशौचादि ॥ ३ ॥ स० त्वया तव | अनुज्ञातं अनुज्ञां । एभिःसह त्वयाऽनुज्ञातं आज्ञप्तंभां अहमिच्छामीतिवा ॥ ४ ॥ स० राघवोत्सुकदर्शनः राघवस्यदर्शनोत्सुकः शत्रुघ्नस्य रामपदतामरससंदर्शनपारवश्यंयोतयितुमु- त्सुकदर्शन इतिव्यत्यस्याभ्यधान्मुनिः । यद्वा दृश्यतेऽनेनेतिदर्शनंचक्षुः । रामे तद्विषये उत्सुकं दर्शनं यस्यसवा ॥ ६ ॥ स० यत्र महायुतीरामस्तत्सदोविवेश ॥ ७ ॥ स० सहस्रनयनंयथातथापश्यन्सशत्रुघ्नोभिवायोवाच ॥ ८ ॥ ९ ॥ ति० अस्यपुरीनिवे- शिता सर्वप्रजानिवेशनेनप्रतिष्ठापिता ॥ स० अस्यपुरी पूर्व दुरात्मावासतोनसदुपयोगिन्यासीत् । इदानींनिवेशिता प्रतिष्ठापिता नानाजनसहिताकृता ॥ १० ॥ स० त्वांविनास्थितस्य ममद्वादशैतानि वर्षाणिजातानि ॥ ११ ॥ स० सः त्वं ॥ १२ ॥ स० क्षत्रियचेष्टितं क्षत्रियजात्युचितव्यापारः ॥ १३ ॥ स० विप्रवासेषु बहुतिथप्रवासेषु || हि यतःप्रजाः परिपाल्याइति हिप्रसिद्धिः ततोनक्षत्रियाअवसीदन्ति । राघवनावसीदन्ति राघवप्रजाः परिपाल्याइयनुशास्यव्यापारद्वयानुरूप्येणराघवेतिद्विरभिधानं ॥१४॥ स० वृश्चिकभयात्पलायमानस्याशी विषमु खेनिपातनी त्याद्वादशसंवत्सरी विरहंसोढुमनीशानस्य पुनःप्रवासंकुरु कुरुप्रजारक्षणमित्यु- पदेशोनशोभतइत्यतस्तंस्वाभिमततदभिमतानुच्छित्त्यासमाधत्ते-कालेकाले त्विति । तवपुरं मधुरां ॥ १५ ॥ स० सप्तरात्रं संख्यापूर्वकत्वादच् । द्वितीयाचकालाध्वनोरत्यन्तसंयोगइत्यत्यन्तसंयोगे ॥ १७ ॥ ति० यथाज्ञया यथावत्कृतयाज्ञया । स० उष्य वासंकृत्वा ॥१९॥ स० ग्रामेरामेस्वामिनिसतिविनाप्रयोजनमिवाज्ञांचवाहनारोहोऽनुचितः स्नेहविशेषेणगन्तव्यं चेतिपद्भ्यांभ. रतेनलक्ष्मणेनचानुगतः आशु पुरींजगाम ॥ २१ ॥ इतिद्विसप्ततितमः सर्गः ॥ ७२ ॥ [ पा० ] १ क. -ट, वसकाकुत्स्थसप्तरात्रंमयासह.