पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ P सर्गः ७० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सप्ततितमः सर्गः ॥ ७० ॥ शत्रुघ्नेन लवणासुरेहते देवैः शत्रुघ्नप्रशंसनपूर्वकं तस्मैवरदानेन स्वावासगमनम् ॥ १ ॥ मधुपुर्यांप्रजापालनंकृतवताश- जुन द्वादशेवर्षे श्रीरामदिदृक्षया अयोध्यागमन निर्धारणम् ॥ २ ॥ १९५ हते तु लवणे देवा: सेन्द्र: साग्निपुरोगमाः ॥ ऊचुः सुमधुरां वाणीं शत्रुमं शत्रुतापनम् ॥ १ ॥ दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः || हतः पुरुषशार्दूल वरं वरय सुव्रत ॥ २ ॥ वरदास्तु महावाहो सर्व एव समागताः ॥ विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ३ ॥ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः ॥ प्रत्युवाच महाबाहुः शत्रुनः प्रयतात्मवान् ॥४॥ इयं मधुपुरी रम्या मधुरा देवनिर्मिता || निवेशं प्राप्नुयाच्छीघ्रमेष मेऽस्तु वरः परः ॥ ५ ॥ तं देवाः प्रीतमनसो बाढमित्येव राघवम् || भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ६ ॥ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ॥ शत्रुघ्नोपि महातेजास्तां सेनां समुपानयत् ॥ ७ ॥ सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुशासनम् || निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ॥ ८ ॥ सा पुरा दिव्यसंकाशा वर्षे द्वादशमे शुभे ॥ निविष्टा शूरसेनानां विषयश्चाकुतोभयः ॥ ९ ॥ क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः ॥ अरोगवीरपुरुषा शत्रुघ्नभुजपालिता ॥ १० ॥ अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता || शोभिता गृहमुख्यैश्च चत्वरापणवीथिकैः ॥ चातुर्वर्ण्यसमायुक्ता नानावाणिज्यशोभिता ॥ ११ ॥ यच तेन पुरा शुभ्रं लवणेन कृतं महत् ॥ तच्छोभयति शत्रुघ्नो नानावर्णोपशोभितम् ॥ १२ ॥ आरामैश्च विहारैश्च शोभमानां समन्ततः ॥ शोभितां शोभनीयैश्च तथाऽन्यैर्देवमानुषैः ॥ १३ ॥ तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् || नानादेशागतैश्चापि वणिग्भिरूपशोभिताम् ॥१४॥ तां समृद्धां समृद्धार्थ: शत्रुघ्नो भरतानुजः || निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् ॥ १५ ॥ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् || रामपादौ निरीक्षेऽहं वर्षे द्वादश आगते ॥ १६ ॥ ततः स ताममरपुरोपमां पुरीं निवेश्य वै विविधजनाभिसंवृताम् || नराधिपो रघुपतिपाददर्शने दधे मतिं रघुकुलवंशवर्धनः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ मधुरा मनोहरा । निवेशं राजधानीत्वं ||५|| शूरा | राज्ञां विषयो देशञ्चाकुतोभयो जातः ॥ ९–१० ॥ सेना यस्यां सा शूरसेना ॥ ६-७ ॥ श्रावणेन श्राव- अर्धचन्द्रप्रतीकाशा अर्धचन्द्राकारसंस्थाना ॥ ११ ॥ णमासालम्बनेन । निवेशनं स्थापनं । समारभत् समा- यत्पुरा तेन लवणेन कृतं तदेव शुभ्रं सुधाधवलं कृत्वा रभते स्म ||८|| द्वादशमे द्वादश इत्यर्थः । पुरा पूर्व । शोभयति स्म ॥१२ - १५॥ रामपादाविति । द्वादश- प्रथमे द्वादशे वर्षे सा पुरी निविष्टा । शूरसेनानां वर्षातिक्रमे भ्रातृदर्शनस्य दुष्टत्वादिति भावः ॥१६- स० सेन्द्राः इन्द्रसहिताः | साग्निपुरोगमा: अग्निश्वासौपुरोगमञ्च तेनसहिताः । पुनरभिपुरस्करणंबाणस्थलवणमारकस्यतेजो- मयत्वाद्युक्तमितिमन्तव्यं । तेजोमयंशरमितिपूर्वमुक्तेः ॥ १ ॥ स० वरय अस्मत्तः ॥ २ ॥ ति० तुभ्यं तव ॥ ३ ॥ ति० मधुरा मनोहरा । निवेशं सपौरजानपदमहाबलसेनानि वेशभूत महाराजधानी लंप्राप्नुयात् ॥ ५ ॥ स० तां यमुनातीरेस्थापितां ॥ ७ ॥ स० अर्धचन्द्रप्रतीकाशा किञ्चित्कुञ्चितसंस्थानवती । चत्वरापणवीथिकैः गृहमुख्यैः । चत्वरापणैः सहिताश्चतावीथिकाश्च । ताः सन्त्येष्वित्यर्शआद्यच् । चातुर्वर्ण्यतिस्वार्थेष्यङ् | वणिजएववाणिजाः | तत्समूहोवा ॥११॥ स०पण्यैः व्यवहारावस्तुभिः | अवधपण्य -' इतिस्मरणाद्यत् ॥ १४ ॥ स० निवेश्य स्थितस्यतस्य ॥ १६ ॥ स० रघुकुलाभ्यांरघुतद्धार्याभ्यांजातोयोवंशः [पा० १ ख. ग. सहेन्द्राःसाप्सरोगणाः २ ख. चत्वरैश्चसमन्ततः "