पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एष वै कैटमस्यार्थे मधुनश्च महाशरः || सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ॥ २७ ॥ एक एव प्रजानाति विष्णुस्तेजोमयं शरम् || एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ॥ २८ ॥ इतो गच्छत पश्यध्वं वध्यमानं महात्मना ॥ रामानुजेन वीरेण लवणं राक्षसोत्तमम् ॥ २९ ॥ तस्य ते देवदेवस्य निशम्य वचनं सुराः || आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ॥ ३० ॥ तं शरं दिव्य संकाशं शत्रुघ्नकरधारितम् || ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ॥ ३१ ॥ आकाशमादृतं दृष्ट्वा देवैर्हि रघुनन्दनः || सिंहनादं भृशं कृत्वा ददर्श लवणं पुनः ॥ ३२ ॥ आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना || लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ॥ ३३ ॥ आ कर्णात्स विकृष्याथ तद्नुर्धन्विनां वरः ॥ तं' मुमोच महावाणं लवणस्य महोरसि ॥ ३४ ॥ उरस्तस्य विदार्याशु प्रिविवेश रसातलम् ॥ ३५ ॥ गत्वा रसातलं दिव्यः शरो विबुधपूजितः ॥ पुनरेवागमत्तणमिक्ष्वाकुकुलनन्दनम्। शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः || पपात सहसा भूमौ वज्राहत इवाचलः || ३७ ॥ तच्च शूलं महत्तेन हते लवणराक्षसे || पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ॥ ३८ ॥ एकेषुपातेन भृशं निपात्य लोकत्र्यस्यापि रघुप्रवीरः ॥ विनिर्वभावुत्तमचापवाणस्तमः प्रणुद्येव सहस्ररश्मिः ॥ ३९ ॥ ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्याप्सरसश्च सर्वाः || दिष्ट्या जयो दाशरथेरैवातस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ ४० ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९ ॥ अचलेन्द्राः तेषां दारणं ॥ १९ – २६ ॥ तेन भगव- तेत्यर्थः ॥ २७ ॥ महात्मनस्तस्य विष्णोरेषा शरमयी तनुरेव पूर्वा प्राचीनमूर्तिः । एषा एवेत्यसंधिरार्ष: ॥ २८ ॥ वध्यमानं लवणमिति संबन्धः ॥ २९- ४० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एको- नसप्ततितमः सर्गः ॥ ६९ ॥ एषशरः । आर्षःसन्धिरितिनागोजिभव्याख्यानंत्खास्मा की नग मनिकायाम निर्वाहाश्रयणीया षत्वं विनाक्लिष्टायांसंभवन्त्यामुपेक्षणीयं ॥ २६ ॥ शि० कैटभस्यमधुनश्चार्ये निवृत्त्यर्थं | एषशरः महात्मना विष्णुनासृष्टः । दैत्ययोः मधुकैटभयोः वधार्थे येनशरःसृष्टः सएष एव विष्णुः तेजोमयंशरंप्रजानाति । मशकार्थेधूमइत्यादाविवार्थशब्दोनिवृत्तिपरः ॥ २७ ॥ ति० तमेवंतेजोमयंशरएको विष्णु- रेवप्रजानाति तदपरमूर्तिवात् ॥ स० यदिरामोऽजाना नस्तर्ह्यहितं शत्रुहत्यैशत्रुघ्नायेतरासुसाधारणंबाणकथंदत्तवानित्यत आह - एषाएवेति । असन्धिराषः । तस्यमहात्मनोविष्णोःपूर्वी या तनुःसैषा रामतनुः । अतोज्ञानंदानंरामीयंसंभवतीतिभावः । एतादृशासदृशशरधारणसामर्थ्य दुर्बलस्यशत्रुघ्नस्यकथमायातमित्यतोवाह - एषेति । पूर्वा विष्णोस्तनु रेषाएतच्छत्रुघ्नान्तर्गता । आज्ञ- यातदावेशेन चैतद्धारण मितिमन्तव्यं । 'संकर्षणाद्यै स्त्रिभिरेवरूपैरा विष्टआसीत्रिषुतेषुविष्णुः' इत्याचार्योक्तेः । पूर्वातनुर्यथातथा एषाबाणमयीतनुः । तत्संनिधानात्तनुत्ववचन मितिवा ॥ २८ ॥ इतः एतत्स्थानात् । मत्कृततन्मूलोपदेशतः स्वस्थ मनस्कत्वादि- तिवा | पश्यध्वं पश्यत ॥ २९ ॥ स० धारितमित्यनेन तद्धारणस्वातन्त्र्यंराम स्यैवेतिसूचयति ॥ ३१ ॥ स० देवैः कौतुका- वलोकन मिलि तैर्विश्व कर्त्राश्वस्तैः ॥ ३२ ॥ शि० सोवायुवेगः | सशत्रुघ्नः ॥ ३४ ॥ स० विबुधपूजितः देवपूजितः | हेतुरयं पुनरागमने ॥ ३६ ॥ स० लवणराक्षसे तन्नामकराक्षसे । तदवधिकत्वस्यैवशिवोक्तेरितिभावः ॥ ३८ ॥ स० एकेषुपातेन भयं भयदं | भयंच ॥ ३९ ॥ स० दाशरथेः तेन । सर्पइवविद्यमानःलवणः । लोकोपद्रवकरत्वात् । प्रशान्तः भृतः ॥ ४० ॥ इत्येकोनसप्ततितमः सर्गः ॥ ६९ ॥ [ पा० ] १ झ ठ. समुमोच. २ झ ठ. भयं. ३ घट. त्रयस्यास्य ४ घ० रवाप्तोलोकाश्च सर्वेप्रवदन्तितुष्टा. क. रघाप्तस्त्यक्त्वाभयंसर्वमिदंप्रशान्तं.