पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १९३ ऋषयोप्यद्य पापात्मन्मया त्वां निहतं रणे ॥ पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ॥ ५ ॥ त्वयि मद्वाणनिर्दग्धे पतितेऽद्य निशाचर || पुरे जनपदे चापि क्षेममेव भविष्यति ॥ ६ ॥ अद्य माहुनिष्क्रान्तः शरो वज्रनिभाननः ॥ प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ॥ ७ ॥ एवमुक्तो महावृक्षं लवणः क्रोधमूच्छितः || शत्रुघ्नोरसि चिक्षेप स च तं शतधाऽच्छिनत् ॥ ८ ॥ तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु || पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्वली ॥ ९ ॥ शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् || त्रिभिचतुर्भिकैकं चिच्छेद नतपर्वभिः ॥ १० ॥ ततो बाणमयं वर्ष व्यसृजद्राक्षसोरसि ॥ शत्रुघ्नो वीर्यसंपन्नो विव्यथे न स राक्षसः ॥ ११ ॥ ततः ग्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् || शिरस्यभ्यहनच्छ्ररं खस्ताङ्गः स मुमोह वै ॥ १२ ॥ तस्मिनिपतिते वीरे हाहाकारो महानभूत् ॥ ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ॥ १३ ॥ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् || रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ॥ १४ ॥ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् ॥ ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ||१५|| मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्यौ धृतायुधः || शत्रुघ्नो वै पुरद्वारि ऋषिभिः संप्रपूजितः ॥ १६ ॥ ततो दिव्यममोघं तं जग्राह शरमुत्तमम् || ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ॥ १७ ॥ वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् ॥ नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ॥ १८ ॥ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् || दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ॥ १९ ॥ तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते || दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ॥ २० ॥ सदेवासुरगन्धर्वै मुनिभिः साप्सरोगणम् || जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ॥ २१ ॥ उवाच देवदेवेशं वरदं प्रपितामहम् || कच्चिल्लोकक्षयो देव संप्राप्तो वा युगक्षयः ॥ २२ ॥ नेशं दृष्टपूर्वं च न श्रुतं प्रपितामह || देवानां भयसंमोहो लोकानां संक्षयं प्रति ॥ २३ ॥ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥ भयकारणमाचष्ट लोकानामभयङ्करः ॥ उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः || २४ || वधाय लवणस्याजौ शरः शत्रुघ्नधारितः || तेजसा तस्य संमूढाः सर्वे स सुरसत्तमाः ॥ २५ ॥ ऍप पूर्वस्य देवस्य लोककर्तुः सनातनः || शरस्तेजोमयो वत्स येन वै भयमागतम् ॥ २६ ॥ ९ ॥ एकैकमिति । वृक्षमिति शेषः ॥ १० - १३ ॥ | | १४ – १८ ॥ असृक्चन्दनदिग्धाङ्गं असृभूपैञ्च- लब्धान्तरमपि शूलग्रहणं प्रति लब्धावकाशमपीत्यर्थः | न्दनैः लिप्तदेहं । पतत्रिणं बाणं । दानवेन्द्ररूपाः ॥ ४ ॥ स० क्षेमं अस्त्रीत्युक्तेः ॥ ६ ॥ ति० वज्रनिभाननः वज्रायुधसमाप्रभागः | अंशुः किरणः ॥ ७ ॥ स० सच शत्रु- नोपि ॥ ८ ॥ स० विफलं कार्यानाधायकं ॥ ९ ॥ स० राक्षसोनविव्यथे व्यथांनाप ॥ १३ ॥ स० खस्ताङ्गः गलिताङ्ग- सन्धिः ॥ १२ ॥ स० वीरे शत्रुघ्ने ॥ १३ ॥ ति० पूरयन्तंदिशोदश स्वतेजसेतिशेषः ॥ १७ ॥ स० मेरुमन्दरसंनिभं गौरवेण ॥ १८ ॥ स० परित्रासं भीतिं ॥ २० ॥ स० मुनिभिः असहेत्युक्तावपि 'वृद्धोयूने' तिवल्लभ्यतेसहेति । जगत् । पितामहं विधातारं | उपस्थितं ॥ २१ ॥ स० प्रपितामहं ऊचुः देवादयः । लोकानांसंक्षयं नाशं उद्दिश्य देवानामपिभयसंमो- होभीतिहेतुकः संमोहोजातः । शि० प्रपितामहं ब्रह्माणं ऊचुः आगतामुनिप्रभृतयइतिशेषः । तदाकारमाह | लोकानांसंक्षयं प्रति लोकाविनयन्तीतिसंभावनयादेवानांभय संमोहोरतीतिशेषः ॥ २२ ॥ स० अभयङ्करः खशन्तः ॥ २४ ॥ ति० शत्रुघ्न- धारितः तेनवृतइत्यर्थः ॥ २५ ॥ स० तस्यशरस्यतेजसासवेंसुरसत्तमामूढाः । इयमहत्त्वं त्वंवदकुतःशरस्येव्यतआह - एषइति । अपूर्वस्य न विद्यतेपूर्वोयस्यसोपूर्वः अनादिः । तस्यदेवस्यपूर्वस्येतियावत् | सनातनः । एषोपूर्वस्येति पूर्वस्यलोक कर्तुः देवस्य [ पा० ] १ क-घ. ट. वृक्षमुत्पाठ्य. २ कट. ऊचुश्वदेवदेवेशं. ३ क—घ. जट. देवानामभयंकरः. ४ झ. ट. एषपूर्वस्येति. वा. रा. २६५