पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् || शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि ॥ ॥ १२ ॥ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव || प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोसि दुर्मते ॥ १३ ॥ मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ॥ हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ १४ ॥ तच सर्वे मया क्षान्तं रावणस्य कुलक्षयम् || अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ १५ ॥ निहताश्च हि में सर्वे परिभूतास्तुणं यथा ॥ भूताश्चैव भविष्याथ यूयं च पुरुषाधमाः ॥ १६ ॥ तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ॥ तिष्ठ त्वं च मुहूर्त तु यावदायुधमानये ॥ ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ १७ ॥ तमुवाचाथ शत्रुघ्नः क मे जीवन्गमिष्यसि || शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ १८ ॥ यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ॥ स हतो मन्दबुद्धित्वाद्यथा का पुरुषस्तथा ॥ १९ ॥ तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि || यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥ एकोनसप्ततितमः सर्गः ॥ ६९ ॥ शत्रुघ्न युद्धे लवणासुरवधः ॥ १ ॥ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः || क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चात्रवीत् ॥ १ ॥ पाणौ पाणि विनिष्पिष्य दन्तान्कटकटाप्य च ॥ लवणो रघुशार्दूलमायामास चासकृत् ॥ २ ॥ तमाहयन्तं सौमित्रिलवणं घोरदर्शनम् || शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ॥ ३ ॥ न शत्रुघ्नस्तथा जातो यथाऽन्ये निर्जितास्त्वया || तदद्य वाणाभिहतो व्रज त्वं यमसादनम् ॥ ४ ॥ न्नित्यर्थः ॥ ९~११ ॥ मे मत्तो जीवन्न गमिष्यसि | युधमिति । आयुधं गृहीत्वा सज्जयिष्ये तावत्तिष्ठेत्य- ।। १२–१३ ।। मम मातृष्वसुरिति ॥ अयमर्थः पूर्व- र्थः ॥ १७ ॥ तं आयुधं जिघृक्षुमित्यर्थः ॥ १८ ॥ मुक्तः ॥ १४ ॥ मयावज्ञां पुरतः कृत्वा यूयं विशेषतः प्रसरं अवकाशं | शूलग्रहणार्थमित्यर्थः ॥ १९ - २०॥ क्षान्ता इति संबन्धः । मया पूर्व विशेषत इति पाठा- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे न्तरं ।। १५ ।। भूताश्च भविष्याश्च वर्तमानाश्च पुरुषाः मणिमुक्कुटाख्याने उत्तरकाण्डव्याख्याने अष्टषष्टि- सर्वेपि मे मया निहताः । केचित्परे तृणं यथा भवति तमः सर्गः ॥ ६८ ॥ तथा परिभूताश्च । अलक्षीकृताञ्च ॥ १६ ॥ यादृशं तुभ्यमीप्सितं तादृशं युद्धं दास्यामि | सज्जये यावदा- अथ लवणवधः तच्छ्रुत्वेत्यादि ॥ ति० मममातृष्वसुभ्रता कुंभीनसीसंबन्धतः शूर्पणखाऽस्यमातृष्वसा । तद्भ्रातारावणः ॥ १४ ॥ स० कुलक्षयं कुलस्यक्षयो येनतत् । सर्वेकर्मक्षान्तं । सापिक्षमा नाक्षमत्वेनेत्याह-अवज्ञांपुरतइति । कियानयंरामइतिपुरतोऽवज्ञांकृत्वाअलक्षीकृत्य । विशेषतइत्यनेनयुष्मन्मूलपुरुष मांधातृघात कस्ययुष्मद्वधः सुकरएव । ततोऽलक्षीकरणीय मितिसूचयति । क्षान्ताइत्यनुकर्षः ॥ १५ ॥ स० आनये आनयिष्यामि ॥ १७ ॥ इत्यष्टषष्टितमः सर्गः ॥ ६८ ॥ स० आहारयत् स्वीकृतवान् ॥ १ ॥ ति० कटकटाप्य कटकटाशब्दवतः कृत्वा ॥ २ ॥ स० भूताभविष्याश्चमंयानिहता इतितेनोक्तस्योत्तरंवक्ति-नशत्रुघ्नइति । यदात्वयातेनिहताः तदा न जातः शत्रुघ्नः । अनेन तद्विलक्षणलक्षणवत्तांखस्यसूचयति [ पा० ] १ झ ठ. सर्वभूतानां. २ च. छ. झ ञ ट तेसर्वे. ३ क. गट. स्वयमेवागतःशत्रुर्नमोक्तव्यः. ४ ङ, च. छ. झ. न. ट. दिशेत. ५ क. घट. तंब्रुवाणंतथावाक्यंलवणं. 1