पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः || शूलस्य च बलं घोरमप्रमेयं नरर्षभ || विनाशश्चैव मान्धातुर्यत्तेनाभूच पार्थिव ॥ २५ ॥ त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे ॥ शूलं विना निर्गतमामिपार्थे ध्रुवो जयस्ते भविता नरेन्द्र ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तपष्टितमः सर्गः ॥ ६७ ॥ १९१ अष्टषष्टितमः सर्गः ॥ ६८ ॥ लवणासुरे आहारसंपादनाय नगराढहिर्गतेसति शत्रुघ्नेन धनुष्पाणिनासता नगरद्वार्यवस्थानम् ॥ १ ॥ आहारादानेन पुनरागतंलवणंप्रति युद्धायाह्वानम् ॥ २ ॥ लवणेनायुधानयनावधि विलंबयाचने शत्रुनेन तदनङ्गीकारः ॥ ३ ॥ कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ॥ व्यतीता रजनी शीघ्रं शत्रुघ्रस्य महात्मनः ॥ १ ॥ ततः प्रभाते विमले तस्मिन्काले स राक्षसः || निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः ॥ २ ॥ एतस्मिन्नन्तरे वीरैः शत्रुघ्नो यमुनां नदीम् || तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ३ ॥ ततोर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः || आगच्छद्रहुसाहस्रं प्राणिनां भारमुद्रहन् ॥ ४ ॥ ततो ददर्श शत्रुघ्नं स्थितं द्वारि वृतायुधम् || तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ५ ॥ ईदृशानां सहस्राणि सायुधानां नराधम || भक्षितानि मया रोपातकालमाकाङ्क्षसे नु किम् ॥ ६॥ आहारश्चाप्यसंपूर्णो भमायं पुरुषाधम || स्वयं प्रविष्टोऽद्य मुखं कथैमासाद्य दुर्मते ॥ ७ ॥ तस्यैवं भापमाणस्य हसतश्च मुहुर्मुहुः || शत्रुघ्नो वीर्यसंपन्नो रोपादश्रूण्यवसृजत् ॥ ८॥ तस्य रोपाभिभूतस्य शत्रुघ्नस्य महात्मनः ॥ तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ९ ॥ उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम् || योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ १० ॥ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः || शत्रुघ्नो नित्यशत्रुनो वधाकाङ्क्षी तवागतः ॥ ११ ॥ प्रभात इत्यादि । २३ - २६ ॥ इति श्रीगोविन्दरा- जविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ।। भक्ष्याहारप्रचोदितः भक्ष्यस्याहारः आहरणं तेन प्रचोदितः ॥ २–४ ॥ अनेन आयुधेन ॥ ५-७॥ रोपादिति । दुःखानन्दाभ्यामिव रोपादप्यनु जायते ॥ ८ ॥ गात्रैः विनिष्पतन्निति | गात्रेभ्योविनिष्पत तद्विनातदागमनंकथमित्यतःकथयति – आमिषार्थइति ॥ २६ ॥ स० मांधातुर्यत्नेन स्वप्रयत्नेनेन्द्रयत्नेनवा ॥ २५ ॥ स० इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ स० अतिष्ठत अतिष्ठत् ॥३॥ स० कालेन मृत्युना ॥ ६ ॥ शि० ममानीतोयमाहारः असंपूर्ण: परिपूर्णतृप्तिकारकोन | अ स्वयमासाद्यप्राप्यमममुखंप्रविष्टस्त्वं कथं निवर्तसइतिशेषः ॥ ७ ॥ स० तेजोमयाः तेजोमय्यः | मरीच्योमरीचयः कराः । 'भानु करोमरीचिःस्त्रीपुंसयोः’ इत्यमरः ॥ स्त्रीपुंसाधिकारेत्रुटिम सिमरीचयइतिलिङ्गानुशासनं ॥ सर्वगात्रैः सर्वाङ्गैः । विनिष्पतन् विन्यप तनम् ॥ ९ ॥ स० द्वन्द्वयुद्धं योद्धुंकर्तुं | अद्वन्द्वयुद्धंनिशाचरमित्यन्वयः । त्वयासहयोद्धुमिच्छामीत्युवाच ॥ १० ॥ स० शत्रुघ्नः योगेनापि ॥ ११ ॥ [ पा० ] १ झ र्यलेना २ क. क्रूरकर्मासराक्षसः घ. कृतकर्मासराक्षसः ३ ङ च छ. झ. ज. ट. वीरउत्तीर्ययमुनां. ४ च. छ. झ ञ ट कालेनानुगतोयसि ५ क. च. छ. कथंयास्यसिदुर्मते.