पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । एकसप्ततितमः सर्गः ॥ ७१ ॥ श्रीराम दिक्षयाऽयोध्यांमतिअस्थितवताशत्रुघ्नेन मार्गवशाद्वाल्मीक्याश्रममेत्य तदभिवादनम् ॥ १ ॥ वाल्मीकिना संप्रति लवणमारणप्रशंसन पूर्वकं तन्मूर्धाघ्राणनेन सपरिवारस्यतस्यातिथ्यकरणम् ॥ २ ॥ भुक्त्वा सुखोपविष्टेनस परिवारेण शत्रुघ्नेनाश्रमान्तरे कुशलवकृताद्भुततर श्रीरामायणगानश्रवणम् ॥ ३ ॥ तच्छ्रवण विस्मितपरिजनैस्तत्तत्व जिज्ञासया वाल्मी- किंमति तत्प्रश्चंप्रार्थितेनशत्रुघ्नेन तान्प्रति तस्यानौचित्यकथनेन वाल्मीक्यनुज्ञया स्वावासगमनम् ॥ ४ ॥ १९६ [ उत्तरकाण्डम् ७ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम् || अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः ॥ १ ॥ ततो मन्त्रिपुरोगांच बलमुख्यान्निवर्त्य च ॥ जगाम हयमुख्यैश्च स्थानां च शतेन सः ॥ २ ॥ स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः || वाल्मीक्याश्रममागत्य वासं चक्रे महायशाः ॥ ३ ॥ सोभिवाद्य ततः पादौ वाल्मीके: पुरुषर्षभः ॥ पाद्यमर्ध्य तथाऽऽतिथ्यं जग्राह मुनिहस्ततः ॥ ४ ॥ बहुरूपा: सुमधुरा: कथास्तत्र सहस्रशः || कथयामास स मुनि: शत्रुघ्नाय महात्मने ॥ ५ ॥ उवाच च मुनिर्वाक्यं लवणस्य वधाश्रितम् || सुदुष्करं कृतं कर्म लवर्ण निघ्नता त्वया ॥ ६ ॥ बहवः पार्थिवाः सौम्य हताः सबलवाहनाः ॥ लवणेन महाबाहो युध्यमाना महाबलाः ॥ ७ ॥ स त्वया निहतः पापो लीलया पुरुषर्षभ ॥ जगतश्च भयं तत्र प्रशान्तं तव तेजसा |॥ ८ ॥ रावणस्य वधो घोरो यत्नेन महता कृतः ॥ इदं तु सुमहत्कर्म त्वया कृतमयत्नतः ॥ ९॥ प्रीतिवासिम्परा जाता देवानां लवणे हते ॥ भूतानां चैव सर्वेषां जगतश्च प्रियं कृतम् ॥ १० ॥ तच्च युद्धं मया दृष्टं यथावत्पुरुषर्षभ || सभायां वासवस्याथ उपविष्टेन राघव ॥ ११ ॥ ममापि परमा प्रीतिर्हदि शत्रुघ्न वर्तते || उपाघ्रास्यामि ते मूर्ध्नि स्नेहस्यैषा परा गतिः ॥ १२ ॥ इत्युक्त्वा मूर्ध्नि शत्रुघ्नमुपाघ्राय महामुनिः || आतिथ्यमकरोत्तस्य ये च तस्य पदानुगाः ॥ १३ ॥ स भुक्तवान्नरश्रेष्ठो गीतमाधुर्यमुत्तमम् || शुश्राव रामचरितं तस्मिन्काले यथाक्रमम् ॥ १४ ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्त- तितमः सर्गः ॥ ७० ॥ लवणस्य वधाश्रितं वृत्तान्तमितिशेषः ॥६-१०॥ सभायामिति । युद्धं द्रष्टुमागतायामिति शेषः ॥११॥ परा गतिः परमप्रयोजनं ॥ १२ - १३ ॥ गीतमाधु- संततिः तंवर्धयतीतिसतथा ॥ रघोः कुलंगोत्रंतस्ययोवंशस्तद्गोत्रापत्यं । तद्वर्धनः रघुदेहजोवंशोरघुवंशः । 'कुलंगृहेगृहिण्यांच' इतिसंसारावर्तः । 'सजातीयगणेगोत्रेदेहे' इतिविश्वः ॥ १७ ॥ इतिसप्ततितमः सर्गः ॥ ७० ॥ ति० अल्पभृत्याः बलानिचअनुगा अनुयायिनोयस्यसः ॥ स० अल्पभृत्यबलानुगः मध्येमार्गेसस्यादिनाशभयाद्विनाज्ञांसव- सेनानयनस्यानौचित्याद्वाल्पेत्युक्तिः ॥ १ ॥ ति० बलमुख्यान् बलप्रधानान् ॥ स० मन्त्रिपुरोगांच अमात्यादीन् । बलमुख्यान् सेनानायकान् । निवर्त्य ग्रामंप्रतिपरावर्तयित्वा | यमुख्येनस्थानांशतेनेत्यन्वयः । शि० हृयामुख्यायस्मिंस्तेनरथानांशतेन ॥२॥ ति० गणितान्वासान् पूर्वमेवैतावद्भिर्वा सर्वाल्मीक्याश्रमंयास्यामीतिसंख्यातान् । वाल्मीकेरयंवाल्मीकः | सचासावाश्रमस्तं ॥ शि० सः शत्रुघ्नः । गणितान् ज्ञातान् । सप्तवासान् निवासस्थानानिगत्वा वाल्मीकाश्रममागत्य आष्टौ अकारेणएकेनयुक्ता अष्टौ नवदिनानीत्यर्थः । वासंचके । अकारच्छेदस्तु वक्ष्यमाणरामायणश्रवणविध्यनुरोधेन ॥ ३ ॥ ति० लवणस्यवधाश्रितं कथालापमितिशेषः । नकृतंतवपूर्व कैरितिपाठे तवपूर्वकैः मान्धात्रादिभिर्यत्रकृतंतत्त्वया कृतमित्यर्थः । स० सुदुष्करं रामकृपांविना ॥ ६ ॥ ति० तत्र तन्निमित्तं ॥ ८ ॥ ति० : सुमहत्कर्म रावणवधादपिमहतदुष्करं । इदकर्मलवणवधकर्म त्वयाऽयत्नतोलील- यैवकृतं । शि० महता रामेण अयत्नेन ईषयत्नतः । रावणस्यवधःकृतः । त्वयापीदंलवणहननं सुमहत्कर्म अयत्नतःकृतं ॥ ९ ॥ ति० वासवसभायामुपविष्टेनापिमया तयुद्धंयथावदृष्टं | दिव्यचक्षुषेतिशेषः । दृष्टमित्यस्य श्रुतमित्यर्थोवा ॥ शि० वासवसभा- यामुपविष्टेनमया तयुद्धंयथावदृष्टं । एतेन इन्द्रोपियुद्धदर्शनार्थमागतइतिसूचितं ॥ ११ ॥ ति० मूर्याघ्राणं परागतिः परंकार्येने हस्य ॥ १२ ॥ स० तस्यतेषांच १३ ॥ ति० गीतस्यमाधुर्येयत्रतादृशं रामचरितंतस्मिन्काले पूर्वकालेयथारामेणकृतंतादृश- [पा० ] १ घ. गतेद्वादश मे २ क. - घ. ज. युध्यमानादुरात्मना.