पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ॥ ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्रातुमृपींस्त्वमर्हसि ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षष्टितमः सर्गः ॥ ६० ॥ १७८ एकषष्टितमः सर्गः ॥ ६१ ॥ च्यवनेन रामंप्रति स्वकार्यनिवेदनोपक्रमः ॥ १ ॥ मधुनामकेनासुरवरेण तपस्तो पितान्महादेवाच्छूलदानपूर्वकं यावच्छू- लधारणं सपुत्रस्यस्वस्यावध्यत्ववरसंपादनम् ॥ २ ॥ लवणनाम्नोनिजतनयस्य दौश्शील्यनिर्विण्णेनमधुना लवणेशूलार्पण पूर्वकं वरुणालयप्रवेशः ॥ ३ ॥ झुललाभदप्तेनलवणेन रावणेनेवत्रैलोक्यपीडनारंभः ॥ ४ ॥ एवंच्यवनेन रामंप्रतिलवणासुरदौ- इशील्यनिवेदनपूर्वकं तस्माल्लोकरक्षणप्रार्थना ॥ ५ ॥ एवं ब्रुवद्भिऋषिभिः काकुत्स्थो वाक्यमब्रवीत् || किं कार्य ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥ तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ॥ भयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥ पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः || लोलापुत्रोऽभवज्येष्ठो मधुर्नाम महाऽसुरः ॥ ३ ॥ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः || सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ ४ ॥ स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः || बहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ ५ ॥ रुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः || बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतोवरः ॥ ६ ॥ शूलं शूलाद्विनिष्कृष्य महावीर्य महाप्रभम् || ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७ ॥ त्वयाऽयमतुलो धर्मो मप्रसादकरः कृतः ॥ प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ८ ॥ यावत्सुरैव विमैव न विरुध्येर्महासुर || तावच्छ्रलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ९ ॥ यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ॥ तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० ॥ एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ॥ प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ११ ॥ भगवन्मम वंशस्य शूलमेतदनुत्तमम् || भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ १२ ॥ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ॥ प्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ १३ ॥ मा भूत्ते विफला वाणी भैरप्रसादकृता शुभा ॥ भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ १४ ॥ यावत्करस्थः शूलोयं भविष्यति सुतस्य ते ॥ अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १५ ॥ यादिति शेषः ।। १७-१८ ॥ इति श्रीगोविन्दराज विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षष्टितमः सर्गः ॥ ६० ॥ लोलायाः पुत्रो लोलापुत्रः ॥ ३-६॥ शूलाच्छूलं विनिष्कृष्येति । स्वशूलाच्छक्तिमाकृष्य सृत्यर्थ: ।। ७-८ ॥ नाशं अदर्शनं ।। ९-१३ ॥ मत्प्र- सादकता मत्प्रसादजसंतोषजनितेत्यर्थः ॥ १४ – स० कारणं अस्मदागमनकारणं | शक्यमशक्यमित्यनवेक्ष्य अपरीक्ष्य ॥ १८ ॥ इतिषष्टितमः सर्गः ॥ ६० ॥ ति० एवंब्रुवद्भिः भयत्राणमितिशेषः । ऋषिभिः प्रेरितइतिशेषः । किंकार्य किंजन्यभयत्राणंकार्यमित्यर्थः । स० ऋषिभिः बोधितोरामः ॥ १ ॥ देशस्यच चादस्माकंभयानांयन्मूलंतच्छृणु ॥ २ ॥ स० शूलात् स्वायुधात् । शूलं तदंशं | निष्कृष्य उत्कृत्य ॥ ७ ॥ ति० यतस्त्वयामप्रसादकरोधर्मः कृतः अतआयुधंददामि ॥ ८ ॥ शि० शूलस्थितेरवधिमाह-यावदिति ॥ ९ ॥ ति० भविष्यति प्राप्स्यति ॥ १३ ॥ [ पा० ] १ क. ग. च. छ. ज. अ. कुरुष्वकर्ता. २ ज. ब्रुवाणेष्वृषिका. ३ क च ब्रूतभवतांभयं नाशयितास्म्यहं. ४ क. घ. ज. मत्प्रसादात्कृतः शुभः झ ञ ट . मत्प्रसादकरः शुभः च छ मत्प्रसादकृतः शुभः ५ क-घ, ज. मत्प्रसादात्कृता.