पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ॥ भवनं सोसुरश्रेष्ठ कारयामास सुप्रभम् ॥ १६ ॥ तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ॥ विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ||१७|| तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः || बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ||१८|| तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ॥ मधुः स शोकमापेदे न चैनं किंचिदत्रवीत् ॥ १९ ॥ स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ॥ शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० ॥ स प्रभावेन शुलस दौरात्म्येनात्मनस्तथा ॥ संतापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ २१ ॥ एवं प्रभावो लवणः शूलं चैव तथाविधम् ॥ श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ||२२|| बहवः पार्थिवा राम भयातऋषिभिः पुरा || अभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ॥ ते वयं रावणं श्रुत्वा हतं बलवाहनंम् || त्रातारं विद्महे तात नान्यं भुवि नराधिपम् ॥ तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ २४ ॥ इति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् || विनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ २५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपष्टितमः सर्गः ॥ ६१ ॥ १७९ द्विषष्टितमः सर्गः ॥ ६२ ॥ च्यवनादिभिलवणासुरदुर्वृत्तनिवेदितेनरामेण लवणमारणेनियोज्यविचारणे तंप्रति भरतेन निजनियोजनप्रार्थना ॥ १ ॥ शत्रुघ्न हेतृक्तिपूर्वकं स्वनियोजनयाचने रामेण तदङ्गीकारेणलवणमारण निर्धारणेन शत्रुघ्नंप्रति लवणराज्येऽभिषेकस्वीकार- चोदना ॥ २ ॥ तथोक्ते तानृपीन्रामः प्रत्युवाच कृताञ्जलिः || किमाहार: किमाचारो लवणः क च वर्तते ॥ १ ॥ राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते ॥ ततो निवेदयामासुलवणो ववृधे यथा ॥ २ ॥ आहार: सर्वसत्त्वानि विशेषेण च तापसाः ॥ आचारो रौद्रता नित्यं वासो मधुवने तथा ॥ ३ ॥ हत्वा बहुसहस्राणि सिंहव्याघ्रमृगद्विपान् || मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् ॥ ४॥ ततोन्तराणि सवानि खादते स महाबलः ॥ संहारे समनुप्राप्ते व्यादितास्य इवान्तकः ॥ ५ ॥ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन् || घातयिष्यामि तद्रक्षो ह्यपगच्छतु वो भयम् ॥ ६ ॥ १६ || कुम्भीनसी माल्यवत्पुत्र्या: अनलाया: सुता | विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्त- रावणस्वसा पूर्व मधुना हृतेति विभीषणेन रावणं | रकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥ प्रत्युक्ता | हिः प्रसिद्धौ ॥ १७–१९ ॥ वरं न्यवे- दयत् यावच्छ्रलं तव हस्ते तावदवध्यत्वं तवेत्येवंरूपं अथ शत्रुघ्नस्य लवणासुरवधार्थ प्रेषणं - तथेत्यादि वरवृत्तान्तं || २०-२५ ॥ इति श्रीगोविन्दराज- ॥ १ ॥ यथा ववृधे याहगाहारादिना वर्धते स्म तथा ति० वंप्रमाणं यथोचितकरणइतिशेषः । स० श्रुत्वाकर्तु प्रमाणं समर्थः ॥ २२ ॥ स० हेराम भयजं भयाज्जायतइतितत्तथा । ‘ पञ्चम्यामजातौ ' इतिडः । नागोजिभट्टस्तु भयजं भयजनक मितिव्याकुर्वन्कारणपदवैयर्थ्यसोढा प्रवृत्तइति मन्तव्यं ॥ २५ ॥ इत्येव मःसर्गः ॥ ६१ ॥ ति० तथोक्तइति । परित्राणमिच्छामइत्युक्ते ॥ १॥ ति० ततोन्तराणि अन्यान्यपीत्यर्थः ॥ ५ ॥ [ पा० ] १ क-घ. ज. दुःखसमन्वितः २ क. ज. दौरात्म्यादात्मनः,