पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ । प्र० ३ ] एतच्छ्रुत्वा तु वै गृध्रो भापते राघवं स तम् ॥ ३० ॥ इयं वसुमती राम मनुष्यैः परितो यदा || उत्थितैरावृता सर्वा तदाप्रभृति मे गृहम् ॥ ३१ ॥ उकयात्रवीद्रामं पादपैरुपशोभिता || यदेयं पृथिवी राजंस्तदाप्रभृति मे गृहम् ॥ ३२ ॥ एतच्छ्रुत्वा तु रामो वै सभासद उवाच ह || ३३ || न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम् || नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥ ३४ ॥ ये तु सभ्याः सदा ज्ञात्वा तूष्णीं ध्यायन्त आसते ॥ यथाप्राप्तं न ब्रुवते ते सर्वेऽनृतवादिनः ॥३५॥ जानन्न वाऽब्रवीत्प्रश्नान्कामात्क्रोधाद्भयात्तथा ॥ सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ॥ ३६ ॥ तेषां संवत्सरे पूर्ण पाश एकः प्रमुच्यते ॥ तस्मात्सत्येन वक्तव्यं जानता सत्यमञ्जस् ॥ ३७॥ एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा || उलूकः शोभते राजन तु गृध्रो महामते ॥ ३८ ॥ त्वं प्रमाणं महाराज राजा हि परमा गतिः ॥ राजमूला: प्रजाः सर्वा राजा धर्म: सनातनः ॥३९॥ शास्ता नृणां नृपो येषां ते न गच्छन्ति दुर्गतिम् ॥ वैवस्वतेन मुक्तास्तु भवन्ति पुरुषोत्तमाः ॥४०॥ सचिवानां वचः श्रुत्वा रामो वचनमत्रवीत् ॥ श्रूयतामभिधास्यामि पुराणे यदुदाहृतम् ॥ ४१ ॥ द्यौं: सचन्द्रार्कनक्षत्रा सपर्वतमहावना || सलिलार्णवसंपूर्ण त्रैलोक्यं सचराचरम् ॥ एक एव तदा ह्यासीद्युक्तो मेरुरिवापरः ॥ ४२ ॥ पुरा भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत् ॥ तां निगृह्य महातेजाः प्रविश्य सलिलार्णवम् ॥ सुष्वाप देवो भूतात्मा बहून्वर्षगणानपि ॥ ४३ ॥ विष्णौ सुप्ते तदा ब्रह्मा विवेश जठरं ततः ॥ ४४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७५ रुद्ध स्रोतं तु तं ज्ञात्वा महायोगी समाविशत् || नाभ्यां विष्णोः समुत्पन्ने पद्मे हेमविभूषिते ॥४५॥ स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः ॥ सिसृक्षुः पृथिवीं वायुं पर्वतान्समही रुहान् ॥४६॥ तदन्तरे प्रजाः सर्वाः समनुष्यसरीसृपाः ॥ जरायुजोण्डजा: सर्वा: ससर्ज स महातपाः ॥ ४७ ॥ ततः श्रोत्रमलोत्पन्नः कैटभो मधुना सह || दानवौ तौ महावीय घोररूपौ दुरासदौ ॥ ४८ ॥ दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टौ बभूवतुः ॥ वेगेन महता तत्र स्वयंभुवमधावताम् ॥ ४९ ॥ दृष्ट्वा स्वयंभुवा मुक्तो रावो वै विकृतस्तदा || तेन शब्देन संग्राप्तौ दानवौ हरिणा सह ॥ ५० ॥ अथ चक्रप्रहारेण सुदितौ मधुकैटभौ || मेदसा प्लाविता सर्वा पृथिवी च समन्ततः ॥ ५१ ॥ योयस्मिंस्तत्स्थलंकृत मितिवा ॥ २९ ॥ सगृधः ॥ ३० ॥ परितउत्थितैः सर्वैतवसुमती । तदाप्रभृति तदारभ्य । मेगृहमिय ब्रवीत् ॥ ३१ ॥ तदाप्रभृत्येतद्दिनपर्यन्तंमेगृहमित्युल्लूकोऽब्रवीत् ॥ ३२ ॥ येधर्मेनवदन्ति नतेवृद्धाभवन्ति । वयोप्रयोजक- मितिभावः | सत्यंभूतहितं प्रोक्त मितिसत्यंयत्रनास्ति सधर्मोनभवति । धर्मः कर्तव्य इति न निलीनोविप्रोबोधनीयः । छलेनानुविद्धं सव्याजं नसत्यं ॥ ३४ ॥ ज्ञात्वापिध्यायन्तस्तूष्णीमासते | यथाप्राप्तंव्यक्तंवक्तव्यत्वेन प्राप्तकालमपिनब्रुवते ते अवादिनोप्यनृत- वादिनः मिथ्याकथकफलभाजः ॥ ३५ ॥ प्रश्नानुत्तरयितुंजानन्नपिकामाद्रव्यलोभात् । क्रोधादेकस्मिन् । भयात् द्वितीयः किंतनुयादितिभीतेः । वारुणान् तत्संबन्धिनःपाशान् । सहस्रं तत्संख्यान् । आत्मनि स्वस्मिन् | स्वयंमुञ्चति स्वयमेवात्मानंपाश- बद्धंकरोति ॥ ३६॥ संवत्सरे एकस्मिन् पूर्णे तेषांसहस्रसंख्या कपाशानांमध्ये एकः पाशःप्रमुच्यते ॥ ३७ ॥ उलूकःशोभते यथार्थ भाषित्वान्न विच्छविरितिभावः ॥ ३८ ॥ निष्कर्षस्य दुष्करत्वा ज्झटितिकथमुक्तमित्यन्ततोगत्वा त्वमेव निर्णायकइत्याहुरित्याह- त्वमिति । सनातनोधर्मोराजा तत्प्रवर्तक इत्यर्थः ॥ ३९ ॥ दुर्गतिं ते नगच्छन्ति । वैवस्वतेनमुक्ताः यमत्यताः ॥ ४० ॥ लक्ष्म्या सहभूः भूदेवी | अर्णवशब्दोरूढः ॥ ४३ ॥ रुद्धस्रोतं निरुद्धमार्ग ॥४५॥ निर्गम्य निस्सृत्य ॥ ४६ ॥ श्रोत्रमलोत्पन्नः मलेनत - कालसृष्टेन ॥ ४८ ॥ प्रजापति विधिं ॥ ४९ ॥ रावोध्वनिः मुक्तःकृतः । भीतिमतेव | सह मिलिला ॥ ५० ॥ मेदसा तद्देह-