पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः || शृणुष्व मम वै राम विज्ञाप्यं नरपुङ्गव ॥ ११ ॥ ममालयं पूर्वकृतं बाहुवीर्येण राघव || उल्लूको हरते राजंस्तत्र त्वं त्रातुमर्हसि ॥ १२ ॥ एवमुक्ते तु गृध्रेण उलूको वाक्यमत्रवीत् ॥ १३ ॥ सोमाच्छतक्रतो: सूर्याद्धनदाद्वा यमात्तथा ॥ जायते वै नृपो राम किंचिद्भवति मानुपः ॥ त्वं तु सर्वमयो देवो नारायण इवापरः ॥ १४ ॥ या च ते सौम्यता राजन्सम्यक्प्रणिहिता विभो || समं चरसि चान्विष्य तेन सोमांशको भवान् ॥ १५॥ क्रोधे दण्डे प्रजानाथ दाने पापभयापहः || दाता हर्तासि गोप्तासि तेनेन्द्र इव नो भवान् ॥ १६ ॥ अधृष्यः सर्वभूतेषु तेजसा चानलोपमः || अभीक्ष्णं तपसे लोकांस्तेन भास्करसन्निभः ॥ १७ ॥ साक्षाद्वित्तेशतुल्योसि अथवा धनदाधिकः || वित्तेशस्यैव पद्मा श्रीर्नित्यं ते राजसत्तम ॥ १८ ॥ धनदस्य तु कोपेन धनदस्तेन नो भवान् || समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ १९ ॥ शत्रौ मित्रे च ते दृष्टिः समतां याति राघव ॥ धर्मेण शासनं नित्यं व्यवहारे विधिक्रमात् ॥ २० ॥ यस्य कृष्यसि वै राम तस्य मृत्युर्विधावति ॥ गीयसे तेन वै राम यम इत्यतिविक्रमः ॥ २१ ॥ यश्चैष मानुषो भावो भवतो नृपसत्तम || आनृशंस्यपरो राजा सत्वेषु क्षमयाऽन्वितः ॥ २२ ॥ दुर्बलस्य त्वनाथस्य राजा भवति वै बलम् || अचक्षुषोत्तमं चक्षुरगतेः स गतिर्भवान् ॥ २३ ॥ अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक || ममालयप्रविष्टस्तु गृधो मां बाधते नृप ॥ त्वं हि देव मनुष्येषु शास्ता वै नरपुङ्गवः॥ २४ ॥ एतच्छ्रुत्वा तु वै रामः सचिवानाइयत्स्वयम् || २५ || वृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः ॥ अशोको धर्मपालश्च सँचिवः सुमहाबलः ॥ २६ ॥ एते रामस्य सचिवा राज्ञो दशरथस्य च ॥ नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः ॥

  • प्रीतिमन्तः कुलीनाथ नये मन्त्रे च कोविदाः ॥ २७ ॥

तानाहूय स धर्मात्मा पुष्पकादवतीर्य च || गृध्रोलूकविवादं तं पृच्छति स्म रघूत्तमः ॥ २८ ॥ कति वर्षाणि वै गृध्र तवेदं निलयं कृतम् ॥ एतन्मे कारणं ब्रूहि यदि जानासि तत्त्वतः ॥ २९ ॥ वै गतौ ॥ १० ॥ प्रकृतमनुसरति | विज्ञाप्यंभृणुष्वेति ॥ ११ ॥ पूर्वकृतं | हरते हरति ॥ १२ ॥ सर्वमयः सर्वप्रधानः ॥ १४ ॥ या ते सौम्यता शान्तता सम्यक्प्रणिहिता स्थिता । तयासमंचरसीतिसोमांशकः ॥ १५ ॥ क्रोधे रोषकरणे | दण्डे शिक्षायां । पापभयापहः पापभयोभयनाशकः । तेनकारणेन ॥ १६ ॥ तपसे तपसि ॥ १७ ॥ वित्तेशतुल्यः कुवेरसदृशः ॥ स्त्रोत्प्रेक्षितं स्वयमेवप्रतिक्षिपति—अथवेति । कुतआधिक्यमित्यत आह - वित्तेशस्येति । पद्मा रमा । यथानित्यावियुक्तात्वया तथा श्रीः संपदपि । ते त्वया । त्वदधौनावा | वित्तेशस्येति | धनदस्यकोपेन । ' अर्कैचेन्मधुविन्देत किमर्थपर्वतंत्रजेत् ' इत्युक्तेः भूमावे- वभवान्धनदइतिदूरस्थेकुवेरेरोषेणनोस्माभिःकृतइतिभावः । धनदस्योपरिकोपेनेतिवा ॥ १८-१९ ॥ समतां तत्रतत्रतत्त्वेन तत्त्वेन नत्वेकरूपेण । नियंधर्मेणशासनं तन्मार्गप्रवर्तनं । व्यवहारेविधिकमात् तत्तदाश्रमवर्णाद्युपदिष्टविध्यनुसारात् ॥ २० ॥ यस्य यं | कृष्यसि कर्षयसि तस्यतं मृत्युर्विधावति । तेन कारणेनयमइतिगीयसे । तत्कार्यकारित्वादितिभावः ॥ २१ ॥ सत्वेषु प्राणिषु । आनृशंस्यपरइतिभवतोऽयं मानुषोभावः । नतुकर्मायत्तः । करुणापारवश्येनराजतयाधरणाववतरणमितिभावः ॥ २२ ॥ दुर्बलस्य राजाबलं । अचक्षुषः चक्षुरहितस्य चक्षुः तत्स्थानीयः | सन्धिरार्षः । अत्तममितिवा पदं । अदित्याश्चर्यार्थ कमव्ययं । अर्यावहमित्यर्थः । अगतेः गतिहीनस्य | गतिर्गतिदः ॥ २३ ॥ जगन्नाथत्वादस्माकंतिरश्चामपित्वंनाथः । ममालयं भुज- बलार्जितं देवमनुष्येषुशास्ता | हेदेवेतिवा ॥ २४ ॥ तन्नामेवते परंपरागताइयप्याह- घृष्टिरित्यादिना ॥ २६ ॥ पुष्पकाद्वि- मानादवतीर्य पृच्छतिस्म मन्त्रिसंनिधौ ॥ २८ ॥ इदंनिलयं कृतं । लिङ्गव्ययआर्षोवा तस्मात्तन्त्रत्वाद्वा । इदंनिलयं अयंनिल- [पा० ] १ रुष्यसीति क. पाठेदृश्यते. २ क. रामजातिषु. ३ ङ, च. छ. झ. ज. सुमन्त्रश्चमहा ४ ङ. च, छ. झ, ञ, हीमन्तश्चकुलीनाश्च.