पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ । प्र० ३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । देवद्विजातिपूजायां दासीदासेषु राघव || संविभागी शुभरतिर्देवद्रव्यस्य रक्षिता ॥ ४२ ॥ विनीतः शीलसंपन्न: सर्वसत्त्वहिते रतः ॥ सोहं प्राप्त इमां घोरामवस्थामधमां गतिम् ॥ ४३ ॥ एवं क्रोधान्वितो विप्रस्त्यक्तधर्माऽहिते रतः ॥ क्रुद्धो नृशंसः परुष अविद्वांचाप्यधार्मिकः ॥ ४४ ॥ कुलानि पातयत्येव सप्त सप्त च राघव || तस्मात्सर्वास्ववस्थासु कौलपत्यं न कारयेत् ॥ ४५ ॥ यमिच्छेन्नरकं नेतुं सपुत्रपशुबान्धवम् || देवेष्वधिष्ठितं कुर्याद्गोषु च ब्राह्मणेषु च ॥ ४६ ॥ ब्रह्मस्वं देवताद्रव्यं स्त्रीणां वालधनं च यत् ॥ दत्तं हरति यो भूय इष्टैः सह विनश्यति ॥ ४७ ॥ ब्राह्मणद्रव्यमादत्ते देवानां चैव राघव || सद्यः पतति घोरे वै नरके वीचिसंज्ञिते ॥ ४८ ॥ मनसाऽपि हि देवस्वं ब्रह्मस्वं च हरेत्तु यः || निरयान्निरयं चैव पतत्येव नराधमः ॥ ४९ ॥ तच्छ्रुत्वा वचनं रामो विस्मयोत्फुल्ललोचनः ॥ श्वाऽप्यगच्छन्महातेजा यत एवागतस्ततः ॥ ५० ॥ मनस्वी पूर्वजात्या स जातिमात्रोपदूषितः || वाराणस्यां महाभागः प्रायं चोपविवेश ह || ५१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे द्वितीयः सर्गः ॥ २ ॥ प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥ १७३ गृध्रोलापानम् ॥ १ ॥ तु अथ तस्मिन्वनोद्देशे रम्धे पादपशोभिते ॥ नदीकीर्णे गिरिवरे कोकिलानेककूजिते ॥ १ ॥ सिंहव्याघ्र समाकीर्णे नानाद्विजगणावृते || गृध्रोलकौ प्रवसतो बहुवर्षगणानपि ॥ २ ॥ अथोलूकस्य भवनं गृधः पापविनिश्चयः || ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत् ॥ ३ ॥ राजा सर्वस्य लोकस्य रामो राजीवलोचनः ॥ तं प्रपद्यावहे शीघ्रं यस्यैतद्भवनं भवेत् ॥ ४ ॥ इति कृत्वा मतिं तौ तु निश्चयार्थी सुनिश्चिताम् || गृध्रोलको प्रपद्येतां को पाविष्टौ ह्यमर्पितौ ॥ ५ ॥ रामं प्रपद्य तौ शीघ्रं कलिव्याकुलचेतसौ | तौ परस्परविद्वेपात्स्पृशतश्चरणौ तदा ॥ ६ ॥ अथ दृष्ट्वा नरेन्द्रं तं गृध्रो वचनमब्रवीत् || सुराणामसुराणां च प्रधानस्त्वं मतो मम ॥ ७॥ बृहस्पतेश्च शुक्राच्च विशिष्टोसि महाद्युते ॥ परावरज्ञो भूतानां कान्त्या चन्द्र इवापरः ॥ ८ ॥ दुर्निरीक्ष्यो यथा सूर्यो हिमांश्चैव गौरवे || सागरवासि गाम्भीर्ये लोकपालो यमो ह्यसि ॥ ९ ॥ क्षान्त्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः || गुरुस्त्वं सर्वसंपन्नः कीर्तियुक्तच राघव ॥ १० ॥ संविभागी विभज्यदायी ॥ ४२ ॥ इमामवस्थां अधमांगतिं प्राप्तः ॥ ४३ ॥ सप्तसप्तचकुलानिपातयति ॥ ४५ ॥ सपुत्रपशुबा- न्धवंयं नरकं नेतुमिच्छेत् तंदेवेष्वधिष्ठितंकुर्यात् । गोषुब्राह्मणेपुचाधिष्ठितंकुर्यात् ॥ ४६ ॥ स्त्रीणांद्रव्यमिति । देवताद्रव्यमित्यत आकृष्टमन्वेति | शब्दानुशासनमित्य स्मादेक देशोत्कीर्तनेनकेतेशव्दाइतियथा ॥ दत्तं देवनिवेदनार्थं ॥ ४७ ॥ वीचिसंज्ञके वीचिरितिसंज्ञायस्यतस्मिन् ॥ ४८ ॥ निरयात् नरकात् निरयं नरकान्तरं ॥ ४९ ॥ जातिमात्रोपदूषितः जातिमात्रेणैवोपदू- षितः नतुदोषैः । कुतइत्यत आह - मनस्वीति । वाराणस्यांमहाभागःश्वा प्रायमुपविवेश ॥ ५१ ॥ इतिप्रक्षिप्त सर्गव्याख्याने सत्यधर्म तीर्थीये द्वितीयः सर्गः ॥ २ ॥ कोकिलानेके अनेककोकिला: तैः कूजिते ॥ १ ॥ प्रवसतः वसतः ॥ २ ॥ तेन उलूकेन ॥ ३ ॥ अमर्षितौ परस्परासहिष्णू ॥ ५ ॥ कलिः कलहः ॥ ६ ॥ मतः संमतः ॥ ७ ॥ विशिष्टः श्रेष्ठः ॥ ८ ॥ गांभीर्येसागरः तत्समः ॥ ९ ॥ शीघ्रले लरित- [ पा० ] १ झ. ठ. वीचिसंज्ञके. २ झ. ज. सागरश्चैव.