पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ न तत्कुर्यादसिस्तीक्ष्णः सर्वो वा व्याहतस्तथा ॥ अरिर्वा नित्यसंक्रुद्धो यथाऽऽत्मा दुरनुष्ठितः ॥२४॥ विनीतविनयस्यापि प्रकृतिर्न विधीयते || प्रकृतिं गृहमानस्य निश्चये प्रकृतिर्ध्रुवम् || २५ || एवमुक्तः स विप्रो वै रामेणालिष्टकर्मणा || द्विजः सर्वार्थसिद्धस्तु अब्रवीद्रामसन्निधौ ॥ २६ ॥ मया दत्तः प्रहारोऽयं क्रोधेनाविष्टचेतसा || भिक्षार्थमटमानेन काले विगतमैक्षके ॥ २७ ॥ रथयास्थितः स्वयं वा वै गच्छ गच्छेति भापितः ॥ अथ स्वैरण गच्छंस्तु रथ्यान्ते विषमं स्थितः २८ क्रोधेन क्षुधयाऽऽविष्टस्तदा दत्तोस्य राघव || प्रहारो राजराजेन्द्र शाघि मामपराधिनम् ॥ त्वया शस्तस्य राजेन्द्र नास्ति मे नरकाद्भयम् ॥ २९ ॥ अथ रामेण संपृष्टाः सर्व एव सभासदः || किं कार्यमस्य वै ब्रूत दण्डो वै कोनु पात्यताम् ॥ सम्यक्प्रणिहिते दण्डे प्रजा भवति रक्षिता ॥ ३० ॥ भृग्वाङ्गिरसकुत्साद्या वसिष्ठव सकाश्यपः ॥ धर्मपालकमुख्याश्च सचिवा नैगमास्तथा ॥ एते चान्ये च बहवः पण्डितास्तत्र संगताः ॥ ३१ ॥ अवध्यो ब्राह्मणो दण्डैरिति शास्त्रविदो विदुः ॥ ध्रुवते राघवं सर्वे राजधर्मेषु निष्ठिताः ॥ ३२ ॥ अथ ते मुनयः सर्वे राममेवाब्रुवंस्तदा ॥ ३३ ॥ राजा शास्ता हि सर्वस्य त्वं विशेषेण राघव || त्रैलोक्यस्य भवाञ्छास्ता देवो विष्णु: सनातनः ३४ एवमुक्ते तु तैः सर्वैः श्वा वै वचनमब्रवीत् ॥ ३५ ॥ यदि तुष्टोसि मे राम यदि देयो वरो मम ॥ प्रतिज्ञातं त्वया वीर किं करोमीति विश्रुतम् ॥ ३६॥ प्रयच्छ ब्राह्मणस्यास्य कौलपत्यं धराधर || कौलंचरे महाराज कौलपत्यं प्रदीयताम् ॥ ३७ ॥ एतच्छ्रुत्वा तु रामेण कौलपत्येऽभिषेचितः ॥ प्रययौ ब्राह्मणो हृष्टो गजस्कन्धेन सोर्चितः ॥ ३८ ॥ अथ ते रामसचिवाः सयमाना वचोऽब्रुवन् || वरोऽयं दत्त एतस्य नायं शापो महायुते ॥ ३९ ॥ एवमुक्तस्तु सचिवै रामो वचनमब्रवीत् || न यूयं नीतितत्त्वज्ञाः वा वै जानाति कारणम् ॥ ४० ॥ अथ पृष्टस्तु रामेण सारमेयोऽब्रवीदिदम् || अहं कुलपतिस्तत्र आसं शिष्टानभोजनः ॥ ४१ ॥ लिप्यते । यद्वा चरतोलोकस्यजङ्गमस्यश्रेयः समाचरेत् । एवंवर्तमानःकमपिनद्वेष्टि नलिप्यतेच ॥ २३ ॥ दुरनुष्ठितः दुरनुष्ठानवान् | आत्मा मनःयथाऽनिष्टंकुर्यात् तथासर्पादयोनेत्यर्थः ॥२४॥ विनीतविनयस्य गतविनयस्यापिपुंसःप्रकृतिः नविधीयते विधातुमशक्या स्वभावस्यानपायादितिभावः । प्रकृतिस्वभावं | गूहमानस्य आच्छादयतः । निश्चये निर्णयकालेध्रुवंप्रकृतिरेवस्पष्टाभवति । वेषधारिव दौपाधि कसर्वविलोपेपिनापैतिप्रकृति रितिभावः ॥ २५ ॥ अयंप्रहारोमयादत्तः । अयमित्यनेन शिरस्स्फोटच्योतत्क्षतजले- नप्रात्यक्षिकत्वमभिप्रैति । अटमानेन अटता | विगतभैक्षके भिक्षाणांसंबोभैक्षं । अचित्तेतिठगवादेन' भिक्षादिभ्योऽण् इत्यनेनाण् ॥ तदेव भैक्षक विगतं भैक्षकंयस्यसतस्मिन् ॥ २७ ॥ गच्छगच्छेतिमयाभाषितः । खैरेण स्खेच्छानुसत्या । गच्छन् रथ्यान्तेवीथीप्रान्तभागे। विषमः वक्रतयामन्मार्गप्रतिबन्धकतयास्थितः ॥ २८ ॥ क्रोधेन भिक्षानुपलब्धिजेन । एवमपराधि- नंमांशाधि | ब्राह्मणशिक्षाकथंमयाकर्तुयोग्येतिनमतिःकार्या | तयैवमेहितमित्यभिहितीकरोति – त्वयेति । अनेनममेयंहननमतिर्न प्रकृतिः कोपपराधीनतयैवतवशासनेनान्यथयितुंशक्येति सूचितंभवति । नरकाद्भयनास्ति । अत्रैवशिक्षायाजातत्वादितिभावः ॥ २९ ॥ दण्डत्वंनिश्चित्यतत्प्रकारंपृच्छति — कोन्विति ॥ ३० ॥ अङ्गिरश्शब्दपर्यायोङ्गिरसशब्दः ॥ ३१ ॥ शास्त्र विदइतिबहु- वचनेनाने क विवेकिसंमतिमाह | सर्वे राजधर्मज्ञाः ब्रुवते अब्रुवन् ॥ ३२ ॥ राममेव अव्यवधानेन ॥ ३३ ॥ सर्वस्य स्वराज्य- गतस्य । विशेषेणेत्युक्तंविवरितुमाह - त्रैलोक्यस्येत्यादिना ॥ तत्रनिमित्तमाह — देवोविष्णुरिति ॥ ३४ ॥ यदितुष्टोसि यदिवरो मममह्यंदेयः हेवीर त्वयाप्रतिज्ञातं किंकरोमीति । नैकान्ते जातेयंप्रतिज्ञेत्याह । विश्रुतं प्रसिद्धं ॥ ३६॥ अस्यब्राह्मणस्यकौलपत्यं देवागाराधिपत्यं । प्रयच्छ प्रदेहि । कालञ्जरे देशविशेषे ॥ ३७ ॥ गजस्कन्धेनप्रययौ ॥ ३८ ॥ पृष्टः किमर्थमत्यर्थमेतत्कुल- पतित्वमर्थितंत्वयात्वंवदेत्युक्तः | सारमेयोऽब्रवीत् । तत्र कालजरे ॥ ४१ ॥ [ पा० ] १ झ विषमः २ ङ. च. छ. झ. ज. नराधिप ३ च. छ. झ ञ कालजरे.