पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ । प्र० २ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७१ अथापश्यत तत्रस्थं रामं श्वा भिन्नमस्तकः ॥ [ ततो दृष्ट्वा स राजानं सारमेयोऽब्रवीद्वचः ॥ ३ ॥ राजैव कर्ता भूतानां राजा चैव विनाशकः ॥ ] राजा सुप्तेषु जागर्ति राजा पालयति प्रजाः ॥४॥ राजा कर्ता च गोप्ता च सर्वस्य जगतः पिता || राजा कालो युगं चैव राजा सर्वमिदं जगत् ॥५॥ नीत्या सुनीतया राजा धर्म रक्षति रक्षिता ॥ यदा न पालयेद्राजा क्षिप्रं नश्यन्ति वै प्रजाः ॥ ६॥ धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ॥ यमाद्धारयते सर्वं त्रैलोक्यं सचराचरम् ॥ ७ ॥ धारणाद्धि द्विषां चैत्र धर्मेणारज्जयन्प्रजाः ॥ तस्माद्धारणमित्युक्तं स धर्म इति निश्चयः ॥ ८ ॥ एप राजन्परो धर्मः फलवान्प्रेत्य राघव || न हि धर्माद्भवेत्किचिद्दुष्प्रापमिति मे मतिः ॥ ९ ॥ दानं दया सतां पूजा व्यवहारेषु चार्जवम् ॥ एप राम परो धर्मो रक्षणात्प्रेत्य चेह च ॥ १० ॥ त्वं प्रमाणं प्रमाणानामसि राघव सुव्रत || विदितश्चैव ते धर्म: सद्भिराचरितस्तु वै ॥ ११ ॥ धर्माणां त्वं परं धाम गुणानां सागरोपमः ॥ अज्ञानाच्च मया राजन्नुक्तस्त्वं राजसत्तम || प्रसादयामि शिरसा न त्वं क्रोमिहार्हसि ॥ १२ ॥ शुनकस्य वचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ किं ते कार्य करोम्यद्य ब्रूहि विस्रव्ध माचिरम् ||१३|| रामस्य वचनं श्रुत्वा सारमेयोऽब्रवीदिदम् || धर्मेण राष्ट्रं विन्देत धर्मेणैवानुपालयेत् ॥ १४ ॥ धर्माच्छरण्यतां याति राजा सर्वभयापहः || इदं विज्ञाय यत्कृत्यं श्रूयतां मम राघव ॥ १५ ॥ भिक्षुः सर्वार्थसिद्धश्च ब्राह्मणावसथे वसन् || तेन दत्तः प्रहारो मे निष्कारणमनागसः ॥ १६ ॥ एतच्छ्रुत्वा तु रामेण द्वास्थः संप्रेषितस्तदा || आनीतश्च द्विजस्तेन सर्वसिद्धार्थ कोविदः ॥ १७ ॥ अथ द्विजवरस्तत्र रामं दृष्ट्वा महाद्युतिः ॥ किं ते कार्य मया राम तहि त्वं ममानघ ॥ १८ ॥ एवमुक्तस्तु विप्रेण रामो-वचनमब्रवीत् ॥ त्वया दत्तः प्रहारोऽयं सारमेयस्य वै द्विज ॥ किं तवापकृतं विप्र दण्डेनाभिहतो यतः ॥ १९ ॥ क्रोधः प्राणहरः शत्रुः क्रोधो मित्रमुखो रिपुः ॥ क्रोधो ह्यसिर्महातीक्ष्णः सर्वे क्रोधोपकर्षति ॥२०॥ तपते यजते चैव यच प्रयच्छति ॥ क्रोधेन वै संहरति तस्मात्क्रोधं विसर्जयेत् ॥ २१ ॥ इन्द्रियाणां प्रदुष्टानां हयानामिव धावताम् ॥ कुर्वीत वृत्या सारथ्यं संहृत्येन्द्रियगोचरम् ॥ २२ ॥ मनसा कर्मणा वाचा चक्षुपा च समाचरेत् || श्रेयो लोकस्य चरतो न द्वेष्टि न च लिप्यते ॥२३॥ मितिवा ॥ २ ॥ तत्रस्थं सुम्सुपेतिसमासः ॥ ३ ॥ सुप्तेषुजनेपुराजा जागर्ति । सर्पत्सर्पादितोयथाव्यथानस्यात्तथा जागर्ति | प्रजाःपालयति पोषयति ॥ ४ ॥ सुनीतया सम्यक्प्रजांप्रतिनीतया तत्संमाननादिविषयतयाप्रापितया नीत्या राजनीत्या | रक्षिता धर्मरक्षति सवराजा ॥ ६ ॥ धारणाद्धर्मइयाहुः श्रुतिस्मृतयः । किंकर्मकंतदित्यत आह - धर्मेणविवृताः प्रजाइति ॥ ७ ॥ धर्मात्किचिद्दुष्प्रापनेतिमेमतिः ॥ ९ ॥ किंलक्षणःसइत्यत आह – दानमिति | आर्जवं अकौटिल्यं ॥ १० ॥ प्रमाणानां प्रमाणं साक्षिरूपः । ते त्वया ॥ ११ ॥ धर्माणां त्वंपरंधाम मुख्याश्रयः । गुणानांसागरोपमः तैः समुद्रसमः ॥ धर्मोऽवश्यराज- सुवर्तितव्यः । सचैतादृश इत्यज्ञंप्रतीव सुज्ञप्रतिवचनंचाज्ञानात् ॥ एतदागोगमयितव्यमितित्वांशिरसाप्रसादयामि । इह मह्यं ॥ १२ ॥ विस्रब्ध विश्वस्तहेश्वन् ॥ १३ ॥ क्षमापनानन्तरमपिपुनर्धर्मेणेत्या दिवचनं जातिचापलात्खाभिप्रेतप्रभवनौत्सुक्याति- शयवशाद्वा पुनर्वचनं ॥ १४ ॥ ब्राह्मणावसथे ब्राह्मणगेहे वसन् सर्वार्थसिद्धः नाम्ना | भिक्षुः संन्यासी | यस्तेन अनागसः कदापिकमपिनापराध्यतः । पूर्वनकृतमागोस्तुकृतमिदानी मित्यत आह - निष्कारणमिति ॥ १६ ॥ नाम्नासर्वसिद्धार्थश्चासौको- विदश्च ॥ १७ ॥ प्रहारइतिसामान्यतउक्तं विशदयति — दण्डेनेति ॥ १९ ॥ मित्रमुखः मित्रवदृश्यमानः ॥ २० ॥ तपते तपति | हरति हारयति ॥ २१ ॥ दुष्टानामत एवधावतांहयानामिवेन्द्रियाणां | सारथ्यंकुर्वीत | कथमिन्द्रियगोचरं विषयंसंहृत्य प्रत्याहार कुर्वीतेत्यर्थः ॥ २२ ॥ मनसाकर्मणावाचाचक्षुपाचलोकस्यश्रेयः समाचरेत् । एवंचरतः चरन्तंकोपिनद्वेष्टि | स्वयंचपापादिनान [ पा० ] १ ङ. च. छ. झ. ज. पाठेषुअयं श्लोकः प्रदृश्यते.