पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ एवमुक्तस्तु सौमित्रिर्निर्जगाम नृपालयात् || अपश्यद्वारदेशे वै श्वानं तावदवस्थितम् ॥ १४ ॥ तमेव वीक्षमाणं वै विक्रोशन्तं मुहुर्मुहुः ॥ दृष्ट्वाऽथ लक्ष्मणस्तं वै पप्रच्छाथ स वीर्यवान् ॥ १५ ॥ किं ते कार्य महाभाग ब्रूहि विन्धमानसः || लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ||१६|| सर्वभूतशरण्याय रामायाष्टिकर्मणे || भयेष्वभयदात्रे च तस्मै वक्तुं समुत्सहे ॥ १७ ॥ एतच्छ्रुत्वा तु वचनं सारमेयस्य लक्ष्मणः || राघवाय तदाख्यातुं प्रविवेशालयं शुभम् ॥ १८ ॥ निवेद्य रामस्य पुनर्निर्जगाम नृपालयात् ॥ वक्तव्यं यदि ते किंचित्तत्त्वं ब्रूहि नृपाय वै ॥ लक्ष्मणस्य वचः श्रुत्वा सारमेयोऽभ्यभाषत ॥ १९ ॥ देवागारे नृपागारे द्विजवेश्मसु वै तथा | वह्निः शतक्रतुश्चैव सूर्यो वायुश्च तिष्ठति ॥ २० ॥ नात्र योग्यास्तु सौमित्रे योनीनामधमा वयम् ॥ प्रवेष्टुं नात्र शक्ष्यामो धर्मो विग्रहवान्नृपः ॥ २१ ॥ यवादी रणपटुः सर्वभूतहिते रतः ॥ षाड्गुण्यस्य पदं वेत्ति नीतिकर्ता स राघवः ॥ २२ ॥ सर्वज्ञः सर्वदर्शी च रामो रमयतांवरः ॥ २३ ॥ स सोमः स च मृत्युश्च स यमो धनदस्तथा ॥ वह्निः शतऋतुश्चैव सूर्यो वै वरुणस्तथा ॥ २४ ॥ तस्य त्वं ब्रूहि सौमित्रे प्रजापालः स राघवः ॥ अनाज्ञप्तस्तु सौमित्रे प्रवेष्टुं नेच्छयाम्यहम् ॥ २५ ॥ आनृशंस्यान्महाभागः प्रविवेश महाद्युतिः ॥ नृपालयं प्रविश्याथ लक्ष्मणो वाक्यमब्रवीत् ।। २६ ।। श्रूयतां मम विज्ञाप्यं कौसल्यानन्दवर्धन || यन्मयोक्तं महावाहो तव शासनजं विभो । वा वै ते तिष्ठते द्वारि कार्यार्थी समुपागतः ॥ २७ ॥ लक्ष्मणस्य वचः श्रुत्वा रामो वचनमब्रवीत् || संप्रवेशय वै क्षिप्रं कार्यार्थी योत्र तिष्ठति ॥ २८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अधिकपाठे प्रथमः सर्गः ॥ १ ॥ प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥ श्रीरामेण कार्यनिवेदनंचोदितेनझुना तंप्रत्यनपराधेपि निजमूर्धनि सर्वार्थसिद्धनामक भिक्षुकृत दण्डप्रहार निवेदनम् ॥ १॥ रामेण निजदूतानीतंयतिंप्रति सारमेयशिरस्ताडन हेतुप्रश्नः ॥ २ ॥ भिक्षुणा तंप्रति क्षुधातुरतयाक्रुद्वेनस्वेन रथ्यास्थितेदूरा- नपसारिणिसारमेये दण्डप्रहरणाङ्गीकरणपूर्वकं स्वस्यसमुचितशिक्षाप्रार्थना ॥ ३ ॥ वसिष्ठादिभिःसह शिक्षाविचारपरेसति रामे तंप्रतिशुना तस्यकालञ्जरपुरेदेवालये कुलपतित्वेऽभिषेचन रूपशिक्षाविधानोक्तिः ॥ ४ ॥ रामेण भिक्षोः कुलपतित्वेऽ भिषेचनपूर्वकं गजस्कंधारोपणेनकालञ्जरप्रापणम् ॥ ५ ॥ शिक्षार्हेभिक्षौ वरदान विस्मितामात्यादीन्प्रति शुना रामचोदनया स्वस्य सारमेयत्व प्राप्तेर्जन्मान्तरीय स्वीय कुलपतित्व हेतुकत्वोक्तिः ॥ ६ ॥ श्रुत्वा रामस्य वचनं लक्ष्मणस्त्वरितस्तदा ॥ श्वानमाहूय मतिमात्राघवाय न्यवेदयत् ॥ १ ॥ दृष्ट्वा समागतं श्वानं रामो वचनमब्रवीत् || विवक्षितार्थं मे ब्रूहि सारमेय न ते भयम् ॥ २ ॥ श्वानं अपश्यत् ॥ १४ ॥ वीक्षमाणं स्वविचारकर्तारं ॥ १५ ॥ विस्रब्धमानसः विश्वस्तमनाः ॥ १६ ॥ भयेषु तत्साधनेषु आयातेषु अभयदात्रे ॥ १७ ॥ तत्वं यथार्थं | तत् त्वं ब्रूहीतिवा ॥ १९ ॥ देवागारे देवालये ॥ २० ॥ अत्रप्रवेष्टु॑नयोग्याः । तत्रहेतुः योनीनामधमाः नीचा: । धर्मएव विग्रहवान् शरीरभृत् ॥ २१ ॥ सर्वज्ञः सामान्यतः । सर्वदर्शी विशेषज्ञः ॥ २३ ॥ इच्छयामि इच्छामि ॥ २५ ॥ आनृशंस्यात् दीनानुकंपित्वात् ॥ २६ ॥ तवशासनजं बहिः केपिकार्यिणः सन्ति किं विचारयेत्ये- तदनन्तरजं ॥ मयोक्तं कोपिकार्यार्थीवर्ततेचेदायात्विति ॥ २७ ॥ योवाकोवा अवश्यंक्षिप्रमन्तःप्रवेशय ॥ २८ ॥ इति सत्यधर्मतीर्थी प्रक्षिप्तसर्गव्याख्याने प्रथमः सर्गः ॥ १ ॥ आहूय आकारयित्वा । आगतंन्यवेदयत् ॥ १ ॥ तेभयंन न विद्यते । नते यस्मिन्कस्मिंश्चित् नते नम्रेजने तद्विषये अभय [[ पा०] १ ङ. च. छ. झ ञ सर्वसलहितेरतः २ ङ. रुद्रोवै,