पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ । प्र० १ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् ॥ अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ॥ २३ ॥ इत्यार्प श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपष्टितमः सर्गः ॥ ५९ ॥ ॥ अथाधिकपाठसर्गप्रारम्भः ॥ प्रक्षिप्तेषु प्रथमः सर्गः ॥ १ ॥ वसिष्ठादिभिर्म त्रिश्रेष्ठश्च सह प्रभातेसभांप्रविष्टेनरामेण लक्ष्मणप्रति कार्यार्थिलमाह्वानचोदना ॥ १ ॥ लक्ष्मणेन द्वारदेश- वर्तिनः कार्यार्थिनः रामानुमत्याऽन्तःप्रवेशनम् ॥ २ ॥ ३॥ ततः प्रभाते विमले कृत्वा पौर्वाधिक क्रियाम् || धर्मासनगतो राजा रामो राजीवलोचनः ॥ १ ॥ राजधर्मानवेक्षन्वै ब्राह्मणेनगमैः सह || पुरोधसा वसिष्ठेन ऋषिणा कश्यपेन च ॥ २ ॥ मन्त्रिभिर्व्यवहारज्ञैस्तथाऽन्यैर्धर्मपारगैः || नीतिज्ञैरथ सभ्यैव राजभिः सा समावृता सभा यथा महेन्द्रस्य यमस्य वरुणस्य च || शुशुभे राजसिंहस्य रामस्याक्लिष्टकर्मणः ॥ ४ ॥ अथ रामोऽब्रवीत्तत्र लक्ष्मणं शुभलक्षणम् || निर्गच्छ त्वं महाबाहो सुमित्रानन्दवर्धन ॥ कार्यार्थिनश्च सौमित्रे व्याहतु त्वमुपक्रम ॥ ५ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मण: शुभलक्षणः || द्वारदेशमुपागम्य कार्यिणचाइयत्स्वयम् ॥ ६॥ न कश्चिदब्रवीत्तत्र मम कार्यमिहाद्य वै ॥ नाधयो व्याधयश्चैव रामे राज्यं प्रशासति ॥ ७ ॥ पक्कसस्या वसुमती सर्वौषधिसमन्विता || न चालो म्रियते तत्र न युवा नच मध्यमः ॥ ८ ॥ धर्मेण शासितं सर्वं न च वाधा विधीयते || दृश्यते न च कार्यार्थी रामे राज्यं प्रशासति ॥ ९ ॥ लक्ष्मणः प्राञ्जलिर्भूत्वा रामायैवं न्यवेदयत् ।। १० ।। अथ रामः प्रसन्नात्मा सौमित्रिमिदमब्रवीत् ॥ भूय एव तु गच्छ त्वं कार्यिणः प्रविचारय ॥ ११ ॥ सम्यक्प्रणीतया नीत्या नाधर्मो विद्यते क्वचित् ॥ तस्माद्राजभयात्सर्वे रक्षन्तीव परस्परम् ॥ १२ ॥ बाणा इव मया मुक्ता इह रक्षन्ति मे प्रजाः । तथापि त्वं महाबाहो प्रजा रक्षख तत्परः ॥ १३ ॥ कारः कृत्यमेषामस्तीति कारिणः । कार्यापेक्षिण | चिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- इत्यर्थः ॥ २२ – २३ ॥ इति श्रीगोविन्दराजविर - काण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ ति० विमुक्तं युक्तं ॥ २३ ॥ इत्येकोनषष्टितमः सर्गः ॥ ५९ ॥ । स० यद्यपितीर्थकतकाद्यस्पृष्टमितिनागोजिभट्टेन प्रक्षिप्तमितित्यक्तं गृध्रोकायाख्यानं । तथापिवीथीपाथसांत्रिपथगानिविष्टानां यथासेव्यतातथैतस्यापीतिवा बहु कोशेषुदर्शनेनैतत्प्रक्षेपविषये नागोजि भट्टस्यभ्रम संभवेन वाल्मीकिवाक्यत्वाद्वाव्याख्यास्यते धर्मासनं यत्रोपविश्यानयो नयोग्यःकर्तुं तादृशन्यायासनंगतोरामः । 'धर्मः पुण्येचन्यायेच' इति विश्वः ॥ १ ॥ अवेक्षन् अवेक्षमाणः । नैगमैः वेदज्ञैः निकटवर्तिपुटभेदनस्थैरितिवा ॥ २ ॥ राजभिः अवान्तरैः ॥ ३ ॥ उपक्रम प्रारभव ॥ ५ ॥ कार्यिण: कार्यार्थिनः ॥ ६ ॥ इहाद्य ममकार्यमस्तीति न कश्चिदब्रवीत् । सर्वस्यापिसिद्धार्थत्वादितिभावः ॥ ७ ॥ मध्यमः नम्रियते ॥ ८ ॥ एवं कार्यार्थी नेतिन्यवेदयत् ॥ १० ॥ परस्परंरक्षन्ति यथानभवेदधर्मस्तथा अन्ततोगत्वाराजकोपोभवेदि- तिभयात् ॥ १२ ॥ मयामुक्ताबाणायथालोकानवन्ति ॥ १३ ॥ वा. रा. २६२