पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पूरोर्वचनमाज्ञाय नाहुषः परया मुदा || प्रहर्षमतुलं लेभे जरां संक्रामयच्च ताम् ॥ ८ ॥ ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः ॥ बहुवर्षसहस्राणि पालयामास मेदिनीम् ॥ ९ ॥ अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् || आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ॥ १० ॥ न्यासभूता मया पुत्र त्वयि संक्रामिता जरा ॥ तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ११ प्रीतश्चासि महावाहो शासनस्य प्रतिग्रहात् || त्वां चाहमभिपेक्ष्यामि प्रीतियुक्तो नराधिपम् ||१२|| एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः || देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ॥ १३ ॥ राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः ॥ प्रतिहंसि ममाज्ञां यत्प्रजार्थे विफलो भव ॥ १४ ॥ पितरं गुरुभूतं मां यस्मात्रमवमन्यसे || राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ॥ १५ ॥ न तु सोमैकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः || वंशोषि भवतस्तुल्यो दुर्विनीतो भविष्यति ॥ १६ ॥ तमेवमुक्त्वा राजर्षि: पूरुं राज्यविवर्धनम् || अभिषेकेण संपूज्य आश्रमं प्रविवेश ह ॥ १७ ॥ ततः कालेन महता दिष्टान्तमुपजग्मिवान् || त्रिदिवं संगतो राजा ययातिर्नहुपात्मजः ॥ १८ ॥ पूरुञ्चकार तद्राज्यं धर्मेण महता वृतः ॥ प्रतिष्ठाने पुरवरे काशीराज्ये महायशाः ॥ १९ ॥ यदुस्तु जनयामास यातुधानान्सहस्रशः ॥ पुरे क्रौञ्चव दुर्गे राजवंशवहिष्कृतः ॥ २० ॥ एप तूशनसा मुक्तः शापोत्सर्गो ययातिना ॥ धारितः क्षत्रधर्मेण यं निमिश्र न चक्षमे ॥ २१ ॥ एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् || अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ॥ २२ ॥ १६८ Nid ७|| पूरोरिति || जरां संक्रामयदिति | योगबलादिति | णरूपः तस्मिन्विफल उक्तप्रयोजनरहित इत्यर्थः शेषः ।। ८–१० ।। न्यासभूतेति ॥ हे पुत्र | त्वयि ॥१४-१५ ॥ नत्विति त्वयेति शेषः ॥ १६- मया संक्रामिता जरा तस्मान्मया जातः ॥ ११ - २०॥ ययातिवृत्तान्तप्रतिपादनस्य प्रकृतोपयोगमाह- १३ ॥ राक्षस इति ॥ प्रजार्थे विफलो भवेति । एष तूशनसेति ॥ यमृषिशापं निमिर्न चक्षमे तादृशः प्रजया पुत्रेण पितुः सकाशात्प्राप्यार्थ: राज्यादिलक्ष- शापो ययातिना धारित इत्यर्थः ॥ २१॥ एतदिति ॥ तिमन्तव्यं ॥ तदादिकक्ष्यीका रेगृह्णन्त्वितिपाठोवा ॥ ५ ॥ स० परयामुदा मुखविकाससूचितया | तस्य पूरोः धन्योस्मी- त्यादिवचनंआज्ञाय ज्ञात्वा । प्रहर्षे संतोषं | लेभे । परयामुदा प्रहषैरोमाश्चितं लेभइतिवा । तां तापसशापोपयातां । संक्रामयत् समक्रामयत् । वरबलादितिशेषः | योगबलादितिशेषइति वदन्नागोजिभट्टोभारताय नभिज्ञइतिज्ञायते । 'पुत्रोज्येष्ठःकनिष्ठोवायो ददातिभयाद्वयः । संक्रामयिष्यसिजरांयथेष्ट॑नहुषात्मज | मामनुध्यायभावेननचपापमवाप्स्यसि । वयोदास्यतितेपुत्रोयःसराजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बहुपुत्रस्तथैवच' इत्यादिपर्वोक्तेः । पूरौजरांसंयोजयामास ॥ ८ ॥ स० दीर्घस्यकालस्य अथ अनन्तरं । जरांन्यासं तदभिन्नन्यासं त्वयिमयान्यस्तांजरांनिर्यातयस्त्र प्रत्यर्पय | शि० दीर्घस्यकालस्य अपगमेइति शेषः ॥ १०॥ स० व्यथांमाकृथाः पिताऽधुनाअतृप्तेन्द्रियोमद्दाक्षिण्याद्दातुमायातइतिव्यथां ॥ ११ ॥ ति० प्रजार्थे प्रजानामाधि- पत्यलक्षणेप्रयोजने | विफलोभव राज्याधिपत्यरहितोभवेत्यर्थः ॥ १४ ॥ ति० दुर्मतेस्तवसंता नेइतिशेषः । योप्यराक्षसस्तव संतानः । सोपिक्षत्रियमात्रमेव नतुसोमवंशराजपदाभिषिक्तः । भवत्तुल्यदुर्विनीतत्वादितिभावः ॥ स० सोमकुलोत्पन्नेवंशेत- परंपरायांतवदुर्मतेर्वेशोनस्थास्यति । सूर्यवंशप्रविशति । नसूर्यवंशप्रवेशन मेवानिष्टमित्यतभचष्टे - दुर्विनीतइति । यथोक्तंहरि. वंशे—'यायातमपिवंशस्तेस मेष्यतिचयादवम् । अत्रवंशेऽनुवंशस्ते सोमस्य भविताकिल । एवमिक्ष्वाकुवंशाद्धियदुवंशोविनिस्सृतः । चतुर्थायदुपुत्रैश्च चतुर्भिर्भियतेपुनः । सयदुर्भाधवे राज्यं विसृज्ययदुपुंगवे । त्रिविष्टपंगतोराजादेहंत्यक्त्वामहीतले । बभूवमाधव- सुतःसत्वतोनामवीर्यवान्' इत्यादिविकद्रुकसंवादे । दुर्मतेस्तुसंतान इतिशेषः । योप्यराक्षसस्तवसंतानःसोपिक्षत्रिय मात्रमेव नतुसोमवंशराजपदाभिषिक्तः । भवतुल्यदुर्विनीतत्वादितिभावइति नागोजि भट्टोनेदमवलोकतइत्युपेक्षणीयवागित्यवगन्तव्यम् ॥ १६ ॥ ति० आश्रमं वानप्रस्थाश्रमं ॥ १७ ॥ ति० एतत्तेसर्वेप्रजाकार्यानवलोकनेशापः केषांचित्तदक्षमा केषांचित्क्षमेत्या- दिकंसर्वमाख्यातं । अतःकारःकृत्यं तद्येषामस्तितेकारिणः । तेषांकार्यापेक्षिणांसर्वेषांदर्शनं अनुवर्तामहे अङ्गीकुर्मः । यथानृगे दोषोजातस्तथादोषोममनस्यात् नभवेत् इत्येतदर्थमित्यर्थः ॥ २२ ॥ [ पा० ] १ क-ट. क्षत्ररूपो. २ क. ख. घ. च. ज. ज. सोमकुलोद्भूवे.