पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीमद्वारमीकिरामायणम् । [ उत्तरकाण्डम् ७ निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः ॥ न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ॥ ३ ॥ एवमुक्तस्तु तेनायं श्रीमान्क्षत्रियपुङ्गवः ॥ उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् || रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् ॥ ४ ॥ न सर्वत्र क्षमा वीर पुरुरूपेषु प्रदृश्यते ॥ ५ ॥ सौमित्रे दुस्सहो रोपो यथा क्षान्तो ययातिना || संन्चानुगं पुरस्कृत्य तं निबोध समाहितः ॥ ६ ॥ नहुपस्य सुतो राजा ययातिः पौरवर्धनः ॥ तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ॥ ७ ॥ एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता || शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ॥ ८ ॥ अन्यौ तूशनसः पत्नी ययातेः पुरुषर्षभ ॥ न तु सा दयिता राज्ञो देवयानी सुमध्यमा ॥ ९ ॥ तयोः पुत्रौ तु संभूतौ रूपवन्तौ समाहितौ ॥ शर्मिष्ठाऽजनयत्पूरु देवयानी यदुं तदा ॥ १० ॥ पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च ॥ ततो दुःखसमाविष्टो यदुर्भातरमब्रवीत् ॥ ११ ॥ भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः ॥ सहसे हृद्भुतं दुःखमवमानं च दुस्सहम् ॥ १२ ॥ आवां च सहितौ देवि प्रविशाव हुताशनम् ॥ राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ॥ १३ ॥ यदिवा सहनीयं ते मामनुज्ञातुमर्हसि ॥ क्षम त्वं न क्षमिष्येऽहं मरिष्यामि न संशयः ॥ १४ ॥ पुत्रस्य भाषितं श्रुत्वा परमार्तस्य रोदतः || देवयानी तु संक्रुद्धा समार पितरं तदा ॥ १५ ॥ इङ्गितं तदभिज्ञाय दुहितुर्भार्गवस्तदा || आगतस्त्वरितं तत्र देवयानी तु यत्र सा ॥ १६ ॥ दृष्ट्वा चाप्रकृतिस्थां तामप्रहृष्टामचेतनाम् ॥ पिता दुहितरं वाक्यं किमेतदिति चात्रवीत् ॥ १७ ॥ पृच्छन्तमसकृत्तं वै भार्गवं दीप्ततेजसम् || देवयानी तु संक्रुद्धा पितरं वाक्यमब्रवीत् ॥ १८ ॥ अहमनं विषं तीक्ष्णमपो वा मुनिसत्तम ॥ भक्षयिष्ये प्रवेक्ष्यामि न तु शक्ष्यामि जीवितुम् ॥१९॥ महात्मनि वसिष्ठे विषये कथं धार्मिक : निमिः अमर्षे मार्गमिति शेषः । तं प्रकारं निबोध ॥ ६-७॥ चकारेति पृष्टवन्तं लक्ष्मणं प्रति ययातिक्षमाकथनं पुरस्कृता पूजिता । दैतेयी दितेः पौत्री ॥ ८ ॥ उश- " आम्रान्पृष्टः कोविदारानाचष्टे " इति न्यायं कथं नसः शुक्रस्य ॥ ९ -१५ ॥ इङ्गितं सखेदरोपभावं नानुसरेत् । मैवं महान् दोषः । चिन्तायाः अकर्त- ॥ १६ ॥ अप्रकृतिस्थां अस्वस्थां । अप्रहृष्टां हर्षरहितां । व्याभिप्रायात् । गुणवतो गुणकीर्तनस्य ॥ ३५ ॥ अचेतनां क्षुभितचित्तां ॥ १७-१८ ॥ अग्निं प्रवे- यथा येन प्रकारेण । सत्त्वानुगं सत्त्वगुणानुमतं । क्ष्यामि विषं भक्षयिष्य इति संबन्धः ॥ १९ ॥ दद्भुतमाश्चर्ये अत्याश्चर्यमित्यर्थः ॥ २ ॥ ति० नक्षमंकृतवान् अनुचितमेवकृतवानित्यर्थः ॥ स० विशेषतो दीक्षित इत्यनेनतस्य क्षमाभावेऽनर्थश्रवणंसूचयति । वसिष्ठस्य तद्विषये ॥ शि० दीक्षितोनिमिः वसिष्ठस्यक्षमंक्षमायथाभवतितथानकृतवान् । एतेन निमिनाक्षन्तव्यमितिसूचितं ॥ ३ ॥ शि० रामः सर्वाभिरामदाता । अतएवरमयतांश्रेष्ठः रामः लक्ष्मणमुवाच ॥ ४ ॥ ति० पौरान्वर्धयतीतिपौरवर्धनः ॥ ७ ॥ स० सातुदेवयानीराज्ञोनदयिता । तस्याः शर्मिष्ठासङ्गस्यानभिमतत्वेनतत्करणानन्तरं तदुक्तदुर्वचनश्रवणेनराज्ञोवैमनस्यादितिभावः ॥ ९ ॥ स० तयोः शर्मिष्ठादेवयान्योः । पुत्रौ पूरुयद्वाख्यौ | तुर्वखादीनांत्रयाणां मुख्यवंश कर्तृत्वाभावादनुक्तिः ॥ १० ॥ स० ततः राज्ञः पूरौप्रीत्यतिशयदर्शनानन्तरं । मातरं देवयानीं ॥ ११ ॥ स० देवस्य द्योतनादिगुणस्य । सहसे किमर्थमितिशेषः ॥ १२ ॥ ति० मामनुज्ञातुमर्हसि । अग्निप्रवेशार्थमितिशेषः ॥ १४ ॥ स० पितरं शुक्रं । तदाश्रमंगत्वाऽन्यत्रगतंसस्मार। यथोक्तमादिपर्वणि —'त्वरितंसकाशं काव्यस्य प्रस्थितांव्यथितस्तदा । अनुत्रव्राजसंभ्रान्तः पृष्ठतःसान्त्वयन्नृपः । अचिरादेवसंप्राप्ता काव्यस्योशनसोन्तिकम्' इत्यादि ॥ १५ ॥ स० इङ्गितं मनोगतं | यत्र स्वाश्रमे । तत्र आगतः स्वतपस्स्थलात् ॥ १६ ॥ स० अचेतनां स्मृतिहीनां । एतत् दुःखचिह्नं । किं किंनिमित्तं ॥ १७ ॥ [पा० ] १ झ. ठ. क्षमं. २ घ. च. छ. सवंगुणं. ग. ज. सखात्मकं. ३ ख. ज. सुतातूशनसश्चैकापत्नीयन्नाहुषस्यवै. घ. न. ट. सुतातूशनसःपत्नी. ग. च. छ. अन्यातूशनसः पुत्रीययातेः.