पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तः सुरैः सर्वैर्निमेश्वेतस्तदाब्रवीत् || नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ॥ १४ ॥ बाढमित्येव विबुधा निमेश्चेतस्तदाऽब्रुवन् || नेत्रेषु सर्वभूतानां वायुभूतवरिष्यसि ॥ १५ ॥ त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते || वायुभूतेन चरता विश्रमार्थ मुहुर्मुहुः ॥ १६ ॥ एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् || ऋपयोऽपि महात्मानो निमेर्देहं समाहरन् ॥ १७ ॥ अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा || मत्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ॥ १८ ॥ अरण्यां मध्यमानायां प्रादुर्भूतो महातपाः ॥ मथनान्मिथिरित्याहुर्जननाज्जनको भवत् || यस्माद्विदेहात्संभूतो वैदेहस्तु ततः स्मृतः ॥ १९ ॥ एवं विदेहराजश्व जनकः पूर्वकोऽभवत् || मिथिर्नाम महातेजास्तेनायं मैथिलोऽभवत् ॥ २० ॥ [ इति सर्वमशेषतो मया कथितं संभवकारणं तु सौम्य ॥ नृपपुङ्गवशापजं द्विजस्य द्विजशापाच यदद्भुतं नृपस्य ॥ २१ ॥ ] इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सतपञ्चाशः सर्गः ॥ ५७ ॥ १३५ अष्टपञ्चाशः सर्गः ॥ ५८ ॥ निमिराजस्यवसिष्ठेऽक्षमया शापदानकथनप्रसङ्गाद्ययातिक्षमाप्रशंसनाय तत्कथाकथनारंभः ॥ १ ॥ ययातिनाम्नोराज्ञः कनिष्टभार्यायांशर्मिष्ठायांविशेषानुरागेण रुष्टयाज्येष्ठया स्वपितरंशुक्रंमति सक्रोधंययातिनिग्रहप्रार्थने शुक्रेणपुत्रीप्रीत्यै ययातिप्रतिवृद्धभावसंभवशापदानम् ॥ २ ॥ एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा || प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ॥ १ ॥ महदद्भुतमार्य विदेहस्य पुरातनम् || निवृत्तं राजशार्दूल वसिष्ठस्य निमे: सह ॥ २ ॥ निमेश्चेतः चेतोभिमानी प्रत्यगात्मा तदाऽब्रवीत् || देहो विदेहः तस्मात्संभूतो वैदेहः जनकः ॥ १९ – २१॥ किमिति, सर्वभूतानां नेत्रेषु | वैभवात् वसेयं नत्वेक- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे स्मिन्नित्यर्थः ॥ १४॥ वायुभूतः नागाद्युपत्रायुभूत मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तपञ्चाशः इत्यर्थः || १५ || त्वत्कृते त्वदवस्थाननिमित्तं निमि- सर्गः ॥ ५७ ॥ व्यन्ति निमेषधर्म प्राप्स्यन्ति । विश्रामार्थमिति । उन्मीलनखेदापनोदनार्थमित्यर्थः ॥ १६ ॥ देहं केव- लमित्यर्थः ॥ १७ ॥ मन्त्रहो मैः पुत्रीयमन्त्रहोमैः । पुण्यश्रवणत्वेन महदद्भुतं | आश्चर्यादण्याश्चर्यमि- तादृशमन्त्रपूर्वकहोमैरित्यर्थः || १८ || विदेहाद्विगतो त्यर्थः । निमेः सहेति । प्रसङ्ग इति शेषः ॥ २ ॥ ति० वायुभूतः वायुसदृशलघुभूतलिङ्गदेहाश्रितइत्यर्थः ॥ १५ ॥ ति० चक्षूंषि सर्वभूतानामितिशेषः । वायुभूतेनचरतात्वया करणेन विश्रामार्थत्वत्संबन्धे नजायमानस्यखेदस्यापनोदनार्थमित्यर्थः ॥ १६ ॥ स० समाहरन् आनीतवन्तः ॥ १७ ॥ ति० तत्र यज्ञभूमौ । अरणिनिक्षिप्य निमे हमेवारणिकृत्वा ॥ १८ ॥ ति० विदेहात् विगतचेतोदेहात् । अयंजनकवंशः ॥ स० मथना- मिथिलः । निरुक्त्यन्तरमेतत् । जननाजनकः | विदेहात् विगतप्राणाद्देहात्संभूतइति विदेहः । एवंनामत्रयं लब्धवान्पुत्र इति भावः ॥ १९ ॥ २० ॥ इतिसप्तपञ्चाशः सर्गः ॥ ५७ ॥ 11 ति० अथलक्ष्मणस्यब्राह्मणंप्रतिशापायुक्तत्वशङ्कायांतादृशक्षमाशीलाअपिसन्तीत्याहप्रसंगाद्रामः- एवंब्रुवतीति स० वसिष्ठस्ययन्निवृत्तं तन्महदद्भुतं | विदेहस्यचयन्नितरांवृत्तंतदप्याश्चर्ये । अथवा विदेहस्यमुनेञ्चपरस्परंपुरातनं निवृत्तं तन्मह. [ पा० ] १ ग. ज. निमेर्देहंतपोधनाः ख. घ. च. निमेर्देहेतपोधनाः २ अयंश्लोकः ङ च छ. झ ञ ट पाठेषु दृश्यते. ३ ग. ववति ४ ख. च. छ. झ ञ ट मुनेश्वह.