पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः ॥ नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ॥ ५ ॥ तद्धि तेजस्तु मित्रस्य उर्वश्या: पूर्वमाहितम् || तस्मिन्त्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ॥ ६ ॥ कस्य चित्त्वथ कालस्य मित्रावरुणसंभवः || वसिष्ठस्तेजसा युक्तो जज्ञे चेक्ष्वाकुदैवतम् ॥ ७ ॥ तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् || वव्रे पुरोहितं सौम्य वंशस्यास्य भवाय नः ॥ ८ ॥ एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः ॥ कथितो निर्गमः सौम्य निमेः शृणु यथाभवत् ॥ ९॥ दृष्ट्वा विदेहं राजानसृषयः सर्व एव ते ॥ तं ततो योजयामासुर्यागदीक्षां मनीषिणः ॥ १० ॥ तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः || गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ॥ ११ ॥ ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमत्रवीत् || आनयिष्यामि ते चेतस्तुष्टोसि तव पार्थिव ॥ १२ ॥ सुप्रीताश्च सुराः सर्वे निमेवेतस्तथाऽब्रुवन् || वरं वरय राजपें क ते चेतो निरूप्यताम् ॥ १३ ॥ जस्कौ ॥ ४ ॥ तत्र कुम्भे । पूर्व वरुणतेजोनिधाना | उर्वश्या: पूर्वमुर्वश्या निमित्ततः मित्रेण तस्मिन्कुम्भे त्पूर्वं । मित्रं प्रति नाहं तव सुत इत्युक्त्वा तस्मात्कु - वरुणवीर्यविसर्जनात्पूर्वमेवाहितं । तस्मिन्नेवकुम्भे म्भादपाक्रमत् उदतिष्ठत ॥ ५ ॥ निषेधस्य का वा वारुणमपि तेज उर्वशीनिमित्तकं समभवत् । तस्मा प्रसक्तिरित्यत्राह–तद्धि तेज इति ॥ उर्वश्या निमित्त- | नैकस्य तव सुत इत्युक्तं अगस्त्येन । अतएव मैत्रा- भूतायाः । मित्रतेजस्तस्मिन्कुम्भे पूर्व उपरि आहितं वरुणिरित्यगस्त्यनाम कुम्भाजन्यत्वात्कुम्भसंभवइत्या- अर्पितं तस्मात्प्रतिषेधः कृत इतिभावः । यद्वा पूर्ववर- हुः ॥ ६ ॥ कस्य चिदिति । अगस्त्योत्पत्तेः बहुका- णकाले उर्वश्या आहितं तेज: सखीसन्निधानात् लानन्तरमित्यर्थः । मित्रावरुणयोस्तेज आविशेति असंभोगात्कुम्भे तत्र निक्षिप्तमिति भावः । अस्मिंस्तु पूर्व ब्रह्मनियोगः ॥ ७-८ ।। अपूर्वदेहस्य नूतनदे- पक्षे मित्रपदं मित्रावरुणपरं । सर्वथा न मित्रावरुण- हस्य | निर्गम: उत्पत्तिः ॥ ९-१० ॥ रक्षन्ति तेजोजोगस्त्यः किंतु कुम्भमात्रसंभवः । अतएव स्मेति तैलकटाहादाविति शेषः ॥ ११ ॥ भृगुः तत्र कुम्भसंभवः कलशीभव इत्यादिव्यवहारः । अयोनि | तस्मिन् | यज्ञसमाप्तिकाल इत्यर्थः । इदं वक्ष्यमाणं | जश्चायं कुम्भस्य मैत्रावरुणत्वात् मैत्रावरुणिरित्यपि हे पार्थिव देहाभिमानिप्रत्यगात्मन् । तव तुष्टोस्मि व्यवहारः । क्वचित् वसिष्ठस्तु मैत्रावरुण तेजोज एवे- | अतस्ते चेत: जीवमानयिष्यामि देह इत्यत्रवीत् ॥ १२॥ त्याह–यस्मात्तेजस्तु मित्रस्योर्वश्यां पूर्वमाहितं तत्तेजो तदा सुप्रीताः सर्वे सुराञ्च निमेश्चेत आनयिष्याम यत्र वारुणमिति। अन्ये त्वाद्दुः | नाहं सुतस्तवेत्यादि । इत्यब्रुवन् | अथ हे राजर्फे, वरं वरय ते चेतस्त्वाकृष्ट्वा पुत्रो न भवामीत्यर्थः । उत्तरस्य प्रसक्ति दर्शयति-त- क्व निरूप्यतां व स्थाप्यतामिति चाब्रुवन्निति संबन्धः । द्धीति | अगस्त्यस्य उत्पत्तिवीजभूतं मित्रस्य तत्तेजः क्व ते चेतो निरूप्यतामिति च पाठः ॥ १३ ॥ उत्सृज्यस्खंनिवासंजगाम । पश्चाद्वरुणोपितांदृष्ट्वास्खलितंतेज: कुंभेव्यसृजत् । ततो मित्र निवासंगता मित्रेणशप्ताचेति ॥ ४ ॥ ति० नाहंसुतस्तवेति । यद्यपिमित्रेणापिकुंभेरेतउत्सृष्टं । तथापि तवैकस्यपुत्रोनभवामीत्युक्त्वाऽपाक्रमत् ॥५॥ ति० अगस्त्योत्पत्तिहे- तुभूतं मित्रस्य तेजः उर्वश्याः पूर्वं उर्वशी निमित्त वरुण वीर्य विसर्गात्पूर्व आहितं । तस्मिन्कुंभे तस्मिन्नेवकुंभे वारुणंतेजः समभवत् संगतमभवत् । यत्रकुंभे तत्तेजः मित्रस्यतेजआसीत् । अतस्ते जोन्तरसंगतादुत्पत्ते नै कस्यतव सुतइत्युक्तमगस्त्येन । अतएव मैत्रा- वरुणिरित्यगस्त्यनाम ॥ शि० अगस्त्यस्यप्रथमोत्पत्तौनिमित्तमाह - तदिति । यत्रवारुणंतेजः समभवत् प्राप्नोत् । तस्मिन्कुंभे उर्वश्यास्संनिधौमित्रस्यतेजः पूर्वमाहितं | अतोगस्त्यः पूर्वमभवदितितात्पर्ये ॥ ६ ॥ ति० तदनन्तरंकस्यचित्कालस्य मित्रावरुण- संभवः | अन्नोपपत्तिरुक्ता | वसिष्ठोजज्ञेतेजसायुक्तः मित्रावरुणयोर्दिव्यतेजसायुक्तः । स० इक्ष्वाकुदैवतं तत्कुलपुरोहितः ॥ ७ ॥ ति० अपूर्वदेहस्य नूतनदेहवतोवसिष्ठस्य | निर्गमः उत्पत्तिप्रकारः कथितः । यथाऽभवद्वृत्तान्तइतिशेषः । स० निमेर्देह- निर्गमोयथाऽभवत्तंप्रकारंशृणु ॥ ९ ॥ स० तेयाजकाः यज्ञदीक्षांकृत्वातंयाजयामासुः || शि० यज्ञदीक्षां गृहीत्वेति शेपः ॥ १० ॥ स० तंव्यतंरक्षन्तिस्म । यथादेहः पूतिगन्धिर्नभवेत्तथा ररक्षुः ॥ ११ ॥ स० सामर्थ्यस्यसत्त्वात्तवपार्थिवेतिसंवो- धयामास । चेतः चेतनां ॥ १२ ॥ स० चेतः तदभिमानी ॥ १३ ॥ [ पा० ] १ झ-ठ. यज्ञदीक्षां.