पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् || ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ॥ २१ ॥ उर्वशी त्वगमत्तत्र मित्रो वैं यत्र देवता || तां तु मित्रः सुसंक्रम्य उर्वशीमिदमब्रवीत् ॥ २२ ॥ मया निमन्त्रिता पूर्व कमावमवसर्जिता || पतिमन्यं वृतवती तस्साच्वं दुष्टचारिणी ॥ २३ ॥ अनेन दुष्कृतेन त्वं मत्क्रोधकलुपीकृता || मनुष्यलोकमास्थाय कंचित्कालं निवत्स्यसि ॥ २४ ॥ बुधस्य पुत्रो राजर्पिः काशीराजः पुरूरवाः || तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ॥ २५ ॥ ततः सा शापदोपेण पुरूरवसमभ्यगात् || प्रतियाता पुरूरवं बुधस्यात्मजमौरसम् ॥ २६ ॥ तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः ॥ नहुपो यंत्र पुत्रस्तु बभूवेन्द्रसमद्युतिः ॥ २७ ॥ वज्रमुत्सृज्य वृत्राय भ्रान्तेथ त्रिदशेश्वरे || शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ॥ २८ ॥ सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा ॥ बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौं च ॥ २९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पट्पञ्चाशः सर्गः ॥ ५६ ।। सप्तपञ्चाशः सर्गः ॥ ५७ ॥ कुंभस्थमित्रावरुणतेजोभ्यां वसिष्ठोत्पत्तिः ॥ १ ॥ सुरैर्निमिराजस्य तत्प्रार्थनयासर्वप्राणिने त्रेपु निवास कल्पनपूर्वकं केवल- तहमथनान्मिथिलराजोत्पादनम् ॥ २ ॥ तां श्रुत्वा दिव्यसंकाशां कथामद्भुतदर्शनाम् || लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ॥ १ ॥ निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ || पुनर्देहेन संयोग जग्मतुर्देवसंमतौ ॥ २ ॥ तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः ॥ तां कथां कथयामास वसिष्ठस्य महात्मनः ॥ ३ ॥ यंस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः ॥ तस्मिंस्तेजोमयौ विप्रौ संभूतावृषिसत्तमौ ॥ ४ ॥ शेषः ।। २० – २१ ।। कस्मात्वमवसर्जिता विसृष्ट- मुकुटाख्याने उत्तरकाण्डव्याख्याने पट्रपञ्चाशः वती । मामिति शेषः । कस्मात्त्वमसि वर्जितेति च सर्गः ॥ ५६ ॥ पाठ: । सुसंक्रम्य सम्यक्परिष्वज्य | तस्याः स्वस्मि- ननुरागाभावमालोक्येत्यर्थः । तां तु मित्रः सुसंक्रु- ध्येति च पाठः ॥ २२–२३ ॥ मानुषं लोकमास्थान येत्यनेन देवरूपेणैवेति शेपः ॥ २४ – २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- दिव्यसंकाशां दिव्यरूपां ॥ १ ॥ निक्षिप्तदेहौ । प्रकृष्टदेहसिद्धिप्रश्नो न दत्तोत्तर इति पुनः प्रश्नः कृत पुनर्देहेनेति । कुम्भे वरुणतेजोविसर्जनमुक्तं तावता इति मन्तव्यं ॥ २ ॥ तां कथां वसिष्ठस्य देहोत्पत्ति- विषयिणीं कथां ॥ ३ ॥ तेजोमयौ निरविधिकते- ॥ २० ॥ ति० रेतः तद्भावसंभोगक्षुभितं ॥२१॥ ति० अवसर्जिता विसृष्टवती | मामितिशेषः । शि० किमर्थंचान्यंपतिंवृतव ती । एतेन पत्यन्तरविपयककामनांविनाऽन्यत्र गमननसंभवतीति निश्चयः सूचितः ॥ २३ ॥ ति० अनेनदुष्कृतेन । एकंपतिमङ्गी- कृत्यतत्समयेद्वितीय वरणंसाधारणस्त्रीणामपिमहद्दुष्कृत मित्यनेनबोधितं । मनुष्यलोकमास्थाय । अनेनदेवरूपेणैवेतिशेषः ॥ २४ ॥ शि० शापक्षयात् शापक्षयंप्राप्य ॥ २९ ॥ इतिषट्पञ्चाशः सर्गः ॥ ५६ ॥ ति० निक्षिप्तदेहौ विसृष्टदेहौ ॥ २ ॥ ति० महात्मनोः मित्रावरुणयोः | तेजःपूर्णः । अत्रैवमाख्यायिका – प्रथममुर्वशीं मित्रोदृष्ट्वा तामामन्त्रितवान् । तथाचत्वन्निवासमागच्छामीत्युक्तः । तदावरुणलो कस्थ एवमित्रस्त दर्शनाद्धट स्खलितं निजं तेज: कुंभे-, [ पा० ] १ क. ग. भावेनान्यंवृतवती. २ घ–ञ. किमर्थंदुष्टचारिणि. ३ ङ. झ. ट. प्रतिष्ठाने. ४ झ ञ ट यस्य. ५ क-घ. च. छ. ज. ततः कुंभोनरश्रेष्ठ ङ. झ ञ ट यस्सकुंभो.