पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ रामेणलक्ष्मणप्रति महदपराधस्यानर्थ हेतुत्वेउदाहरणतया कथान्तरोदाहरणारंभः || १ || निमिनानाइक्ष्वाकुवंश्येनराशा स्वयाजनाय स्वप्रार्थितेन वसिष्ठेन इन्द्रेणस्वस्य पूर्ववरणोत्क्त्यापश्चाद्याजनोक्तौ विलंबासहनेन गौतमवरणेनयागनिर्वर्तनम् ॥ २ ॥ पश्चादागतेनवसिष्टेन निद्रा परवशतयास्त्रानभियायिनंनिर्मितिविदेहत्वशापदानम् ॥ ३ ॥ निमिनावसिष्ठप्रति स्वतःशाप- दानस्यानौचित्योक्त्या तस्यापिविदेहत्वशापदानम् ॥ ४ ॥ १६० [ उत्तरकाण्डम् ७ एप ते नृगशापस्य विस्तरोभिहितो मया ॥ यद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥ एवमुक्तस्तु रामेण सौमित्रिः पुनरत्रवीत् || तृप्तिराचर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥ लक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ॥ कथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥ आसीद्वाजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ॥ पुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥ स राजा वीर्यसंपन्नः पुरं देवपुरोपमम् || निवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥ पुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् || निवेशं यत्र राजर्पिर्निमिचक्रे महायशाः ॥ ६॥ तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ॥ यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७॥ ततः पितरमामत्र्य इक्ष्वाकुं हि मनोः सुतम् || वसिष्ठं वरयामास पूर्व ब्रह्मर्पिसत्तमम् ॥ ८ ॥ अनन्तरं स राजर्पिर्निमिरिक्ष्वाकुनन्दनः || अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९॥ तमुवाच वसिष्ठस्तु निर्मि राजर्पिसत्तमम् ॥ वृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥ अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ॥ वसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥ निमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ॥ अयजद्धिमत्पार्थे स्वपुरस्य समीपतः ॥ पञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥ इन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः || सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥ तदन्तरमथापश्यगौतमेनाभिपूरितम् || कोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥ स राज्ञो दर्शनाकाङ्क्षी मुहूर्त समुपाविशत् || तस्मिन्नहनि राजर्षिनिंद्रयाऽपहृतो भृशम् ॥ १५ ॥ ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ॥ अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥ यस्मा वमन्यं वृतवान्मामवज्ञाय पार्थिव || चेतनेन विनाभूतो देहस्तव भविष्यति ॥ १७ ॥ ततः प्रबुद्धो राजर्पिः श्रुत्वा शापमुदाहृतम् || ब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूच्छितः ॥ १८ ॥ इह राजापराधविषये ॥ १ ॥ तृप्तिः कथानां संघ | तदन्तरमिति च पाठः । तदनन्तरं त्वां याजयिष्य इति न्धिनीत्यर्थः ॥ २-४ ॥ गौतमस्येति गौतमाश्रमस्ये- शेषः ॥ १० ॥ गौतमः प्रत्यपूरयत् । वसिष्ठकर्तव्यं त्यर्थः ॥ ५ ॥ वैजयन्तं इन्द्रप्रसादं | सादृश्यात्तव्यप- हौत्रमिति शेषः ॥ ११ ॥ तान् अत्र्यादीन् || १२- देशः ।। ६-९ ।। प्रतिपालय प्रतीक्षस्व । प्रतीक्ष त्वं | १४ ॥ सइति । असमाप्तसत्र इतिशेषः ।। १५- ति० कथानां श्रवणइतिशेषः ॥ २ ॥ ति० इक्ष्वाकूणां इक्ष्वाकुपुत्राणां । द्वादशमः द्वादशसंख्यापूरणः । संख्यादेरपिम- डार्षः ॥ ४ ॥ ति० पितुरिक्षवाकोः । दीर्घसत्रं बहुकालसाध्योबहुयजमानकःसत्राख्योयागः ॥ ७ ॥ स० पूर्व पुरोहितत्वात् ॥ ८ ॥ ति० अन्तरंप्रतिपालय इन्द्रयागसमाप्तिपर्यन्तावकाशंप्रतिपालय प्रतीक्षख । इन्द्रयाजयित्वात्वांयाजयिष्यइतिभावः । देवानामपियज्ञाधिकारःप्रारूपतः ॥ १० ॥ ति० अनन्तरं वसिष्ठगमनानन्तरं ॥ ११ ॥ शि० तस्मिन्नहनिराजर्षिः निद्रया- पहृतोऽभवदितिशेषः ॥ १५ ॥ शि० ततोराजपैरदर्शनेन हेतुना वसिष्टस्यमन्युःप्रादुरासीत् । अतएवव्याहर्तुशाप मितिशेषः । उपचक्रमे ॥ १६ ॥ ति० मामवज्ञायेत्यस्य स्खपिषिचेतिशेषः । चेतनेन विनाकृतोमृतइत्यर्थः । एष्यति भविष्यति ॥ १७ ॥ [ पा० ] १ च. निविष्टस्तत्रराज्यंतु निमिः २ ख. ङ. च. छ. झ ञ ट देहस्ते पार्थिवैष्यति.