पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५९ कुमारोयं वसुर्नाम स देवोऽद्याभिषिच्यताम् || श्वभ्रं च यत्सुखस्पर्श क्रियतां शिल्पिभिर्मम ॥ यत्राहं संक्षयिष्यामि शापं ब्राह्मणनिस्सृतम् ॥ ८ ॥ वर्षघ्नमेकं श्वभ्रं तु हिमनमपरं तथा || ग्रीष्मनं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ॥ ९॥ फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः ॥ विरोप्यन्तां बहुविधा छायावन्तश्च गुल्मिनः ॥१०॥ क्रियतां रमणीयं च श्वभ्राणां सर्वतो दिशम् || सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ॥ ११ ॥ पुष्पाणि च सुगन्धीनि क्रियन्तां तेषु नित्यशः || परिवार्य यथा मे स्युरध्यर्धे योजनं तथा ॥ १२॥ एवं कृत्वा विधानं स संदिदेश वसुं तदा ॥ धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ॥ १३ ॥ प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः || नरश्रेष्ठ सरोपाभ्यामपराधेऽपि तादृशे ॥ १४ ॥ मा कृथास्तनुसंतापं मत्कृतेऽपि नरर्पभ || कृतान्तः कुशलः पुत्र येनामि व्यसनीकृतः ॥ १५ ॥ प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति || लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ पूर्वे जात्यन्तरे वत्स मा विपादं कुरुष्व ह ॥ १६ ॥ एवमुक्त्वा नृपस्तत्र सुतं राजा महायशाः ॥ श्वभ्रं जगाम सुकृतं वासाय पुरुषर्षभ ॥ १७ ॥ एवं प्रविश्यैव नृपस्तदानीं श्वभ्रं महारत्नविभूषितं तत् || संपादयामास तदा महात्मा शापं द्विजाभ्यां हि रुपा विमुक्तम् ॥ १८ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ त्रिभुवनं ब्रह्मलोकमित्यर्थः ॥ ७॥ श्वभ्रं गर्तः ॥ ८ – | लभते दुःखानि च सुखानि च ॥ १६–१८ ॥ इति ९ ॥ गुल्मिनः कक्षवृक्षाः ॥ १० - ११ ॥ पुष्पाणि | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु यथा अध्यर्धे योजनं परिवार्य स्युः तथा क्रियन्तामि- कुटाख्याने उत्तरकाण्डव्याख्याने चतुष्पश्चाशः त्यर्थः ।। १२ - १३ | तादृशे अल्पेपीत्यर्थः ॥ १४॥ सर्गः ॥ ५४ ॥ कृतान्तः ईश्वरः ॥ १५ ॥ पूर्वे जात्यन्तरे | प्राप्तव्या- न्येव प्राप्नोति गन्तव्यान्येव गच्छति | लव्धव्यान्येव | स० संक्षयिष्यामि संक्षपयिष्यामि | शि० योऽयंवसुर्नामममकुमारःसोद्याभिषिच्यतां । यत्राहंब्राह्मणनिस्सृतंशापंसंक्षयिष्यामि तत्रयत्सुखस्पर्शश्वभ्रंगर्तेतच्छिल्पिभिः क्रियतांकार्यतां । सार्ध श्लोक एकान्वयी ॥ ८ ॥ स० वसुं स्वापत्यं । संनिवेश्य राज्ये ॥ १३ ॥ ति० हेपुत्र धर्मनिलोभूखा प्रजाः क्षत्रधर्मेणपालयेयादेरेवमुक्त्वेत्यनेनाष्टादशश्लोकस्थप्रथमपादेनसंबन्धः । स० मंहन्माकुरुब्राह्मणादिविषयइत्याह - प्रत्यक्षमिति ॥ १४ ॥ स० व्यसनीकृतइतिपदद्वयं | व्यसनवान्कृतः ॥ १५ ॥ एवप्राप्नोती- त्यत्रप्रह्वेत्याद्युक्तेर्लघुःप्रःपठनीयः । ति० प्राप्तव्यानिप्राप्नोत्येवेत्यपियोजना | प्राप्तव्यानि एकत्रस्थल एवतिष्ठतोयत्नंविनाप्राप्याणि | गन्तव्यानि स्वयमन्यत्रगत्वाप्राप्याणि | लब्धव्यानि स्थल एवतिष्ठतोयत्नलभ्यानि | पूर्वेजात्यन्तरे संपादितकारणानीतिशेषः । सुखानिदुःखानि प्राप्तव्यादीनिप्राप्नोतीत्यर्थः । अनेनदुःखाद्यनुभवे नान्योमूलंकिंतुस्वकृतकवेत्युक्तं ॥ १६ ॥ ति० सुकृतं सुष्टुकृतं | शिo सुकृतं अतिप्रयत्नेननिर्मितं ॥ १८ ॥ शिo संपादयामास शापःप्राप्नोत्लितिप्रार्थयामासेत्यर्थः । ति० संपादया - मास अनुभवतिस्मेत्यर्थः ॥ १९ ॥ इतिचतुष्पञ्चाशः सर्गः ॥ ५४ ॥ [ पा० ] १ ग. पूर्वजन्मान्तरेवत्स २ क - ङ. ज. एवं प्रविश्यसनृगःश्वभ्रमन्तर्विभूषितम् । द्विजाज्ञांधारयामासबहुवर्ष गणायुतम् ।