पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यति ॥ कृता च तेन कालेन निष्कृतिस्ते भविष्यति ॥ २१॥ भारावतरणार्थी हि नरनारायणावुभौ || उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ॥ २२ ॥ एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ ॥ तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ॥ २३ ॥ एवं स राजा तं शापमुपभुङ्गे सुदारुणम् ॥ २४ ॥ कार्यार्थिनां विमर्दो हि राज्ञां दोपाय कल्पते ॥ तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ॥ २५ ॥ सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः ॥ तस्माद्भच्छ प्रतीक्षख सौमित्रे कार्यवाञ्जनः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥ चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ नृगेणराज्ञा स्वस्यककला सत्व प्रापकचाह्मणशापप्रायनन्तरं स्वपुत्रस्थराज्येऽभिषेचनपूर्वकं शिल्पिभिर्हिमवर्षात पनिवार कगर्तत्रयनिर्मापणेन तत्रप्रवेशनम् ॥ १ ॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् || उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १॥ अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः ॥ महानगस्य राजर्षेर्यमदण्ड इवापरः ॥ २ ॥ श्रुत्वा तु पापसंयुक्तमात्मानं पुरुषर्षभ || किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ॥ ३ ॥ लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् || शृणु सौम्य यथापूर्व स राजा शापविक्षतः ॥ ४ ॥ अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा || आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ॥ ५ ॥ तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा ॥ दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ॥ ६ ॥ नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् || गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ॥ ७ ॥ २० ॥ निष्कृतिः शापमोक्षः ॥ २१-२२ ॥ ब्राह्म- णाय कस्मैचित् अन्यस्मा इत्यर्थः ॥ २३ – २४ ॥ विमर्दः कलहः । अभिवर्तन्तु आगच्छन्तु । कार्यिण : कार्यार्थिनः | अभिवर्तन्तु काङ्क्षिण इति पाठः || २५ —२६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रामस्येत्यादि ॥ १ ॥ अल्पेति ॥ अल्पेप्यपराधे परीक्षार्थमागतत्वात् गोदानद्वारा द्विजाभ्यां नारदप र्वताभ्यां यमदण्ड इव महान् शापो दत्तः ॥ २ - ३॥ लक्ष्मणेनेति ॥ हे सौम्य, शापविक्षतः सन् स राजा यथा पूर्वमुवाच तच्छृण्विति योजना ॥ ४ ॥ अथेति॥ अध्वनि व्योमाध्वनि गतौ ध्यानेन अमुकाविति विज्ञायेत्यर्थ: । नैगमान् पौरान् ॥ ५ ॥ तानिति ॥ श्रूयतामिति । वचनमिति शेषः ॥ ६ ॥ नारद इति ॥ स० तस्मात् मच्छापात् । भविष्यसि तावत्पर्यन्तंकृकलासः ॥ तेन कृष्णेन ॥ २१ ॥ ति० कलौयत्किञ्चिञ्चतुर्युगीस्थेकला. वित्यर्थः । स० कलौयुगे । उपस्थिते संनिहिते ॥ २२ ॥ ति० अभिवर्तन्तु अभिवर्तयन्तु | मह्यं मम | कार्यिणः प्रजाअ- धिकारिणच ॥ २५ ॥ ति० ननुनृगस्याप्येवमवस्थाचेदलंसुकृत कर्मणेतिशङ्कावन्तंलक्ष्मणंलक्षयित्वाह – सुकृतस्येति । कार्यस्य कर्तव्यस्य | सुकृतस्य प्रजापालनधर्मस्य । फलंपार्थिवोनापैति । काकुः । प्राप्नोत्येवेत्यर्थः । कार्यवान् जनः कआयाति तत्प्र तीक्षस्व । द्वारिस्थित्वेतिशेषः ॥ २६ ॥ इतित्रिपञ्चाशः सर्गः ॥ ५३ ॥ स० दीप्ततेजसं अनेनसीतावीतता चिन्तातान्तिनैतिसूच्यते ॥ १ ॥ स० ईदृशोमहान् भगवदितराशक्यपरिहारत्वेन । शापोदत्तइतिशेषः ॥ २ ॥ ति० पापसंयुक्तं शापरूपपापसंयुक्तं ॥ ३ ॥ ति० द्विजौप्रति किमुवाचेतिशङ्कायांतयोरदर्शनमेवाभू- दिल्याइ - अथेति ॥ ५ ॥ स० वायुभूतौ असङ्गौ । शि० नारदः पर्वतश्चऋषी मम मह्यं । महद्भयं ब्राह्मणाभ्यांदत्तंशापमि त्यर्थः । दला श्रावयित्वा । त्रिभुवनं त्रयाणां ब्रह्मादीनांभुवनंलोकंगतौ ॥ ७ ॥