पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! सर्गः ५३ ] श्रीमगोविन्दराजीयव्याख्यासमलंकृतम् । ततः सङ्गाङ्गता धेनुः संवत्सा स्पर्शिताऽनघ || ब्राह्मणस्याहितानेच दरिद्रस्योञ्छवर्तिनः ॥ [ नृगस्य गोसमृहेषु ददतः पूर्वमेव सा ॥ ९ ॥ ] स नष्टां गां क्षुधार्तो वै अन्विष्यंस्तत्रतत्रच || नापश्यत्सर्वराज्येषु संवत्सरगणान्वहून् ॥ १० ॥ ततः कनखलं गत्वा जीर्णवत्सां निरामयाम् || ददर्श गां स्वकां धेनुं ब्राह्मणस्य निवेशने ॥ ११ ॥ अथ तां नामधेयेन स्वकेनोवाच स द्विजः || आगच्छ शवलेत्येवं सा तु शुश्राव गौ: स्वरम् ॥ १२ ॥ तस्य तु स्वरमाज्ञाय क्षुधार्तस्य द्विजस्य वें || अन्वगात्पृष्ठतः सा गौर्गच्छन्तं पावकोपमम् ॥ १३ ॥ योपि पालयते विप्रः सोपि गामन्त्रगाद्रुतम् || गत्वा तमृपिमाचष्ट मम गौरिति सत्वरम् ॥ १४ स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह ॥ तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ॥ १५ ॥ विवदन्तौ ततोऽन्योन्यं दातारमभिजग्मतुः ॥ तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ॥ १६ ॥ अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः ॥ ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ॥ क्रुद्धौ परमसंतप्तौ वाक्यं घोराभिसंहितम् ॥ १७ ॥ आर्थिनां कार्यसिद्ध्यर्थं यस्मात्वं नैपि दर्शनम् || अदृश्यः सर्वभूतानां कुकलासो भविष्यसि ॥ १८ ॥ बहुवर्षसहस्राणि बहुवर्षशतानि च ॥ श्वश्रेऽस्मिन्कुकलासो वै दीर्घकालं वसिष्यसि ॥ १९ ॥ उत्पत्स्यते हि लोकेऽस्मिन्यदूनां कीर्तिवर्धनः ॥ वासुदेव इति ख्याँतो लोके पुरुषविग्रहः ॥ २० ॥ १९७ पात्यते नात्र संशय इति च पाठः ॥ ६-८ || खलं कनखलाख्यग्रामं ॥ ११-१४ ॥ स्पर्शिता सङ्गात् राज्ञा दत्तबहुगोसङ्गात् ॥ ९–१० ॥ कन- | दत्ता ॥ १५ - १७ ॥ कुकलासः सरठः ॥ १८- स० गता व्यूहभ्रष्टा ॥ ति० सङ्गात् राजदानार्थेनीयमानबहुगोसङ्गात् । स्पर्शिता ब्राह्मणायदत्ता | बहुदोहिनीतिपाठान्तरं । आहिताग्नेर्दरिद्रस्त्यनेनाग्निहोत्रह विरर्थमपिधेन्वन्तराभावउक्तः | उञ्छः क्षेत्रपतितान्नस्यकणशआदानं ॥ ९ ॥ ति० जीर्णवत्सां ‘संवत्सरगणान्बहून्” इत्युक्तेः ॥ ११ ॥ स० स्वकेन स्वकृतसंकेतेन । शबलेनेत्येवमुवाच । शबलेल्येवमित्यत्र दूराद्धूते चेतिष्ठतत्वे “द्रुतप्रगृह्याअचिनित्यं” इतिप्रकृतिभावेनभाव्यंयद्यपि । तथापि बहुपरिभ्रमणश्रान्त्या स्वरोनोच्चैराया तइतिध्वनयितुंडताभावः । याशबला त्वमागच्छेतिसमीपोक्ति रितिवातदप्रसक्तिः ॥ १२ ॥ स० योपि पालयते अपालयत् । सः प्रत्यावृत्तपुनर्दत्तधेनुग्राही । तमृषिं स्वखरतोगामाकार्थनयन्तं | चष्ट आचष्ट | ति० योपिनृगतोलव्धदानः । तमृषिंगवानुगम्यमानमृषिं ॥ कतकतीर्थोतु - तमृषिं यस्यगेहेस्थिता तमृषिं । त्वरन्सः कृतगवासेधोद्विजोनृगेणस्पर्शितादत्ता इत्याचष्टेत्यनुकर्ष इतिव्याचख्यतुः । ममतुभाति गवानुग- मनादन्वेष्टृब्राह्मणीयत्वंसिद्धं । नृगतोमयालव्धेतिपरेण सोभियुक्तोन्वगादित्यनकर्तुरेवगत्वेत्य त्रप्रती तेरक्षरस्वारस्यसिद्धत्वं चेति ॥ १४ ॥ स० वादोविवादः | महान् अपरिहार्यः ॥ १५ स० दातारं नृगं । नृगशासनं स्वागमनवार्ताश्रवणवताराज्ञाताव न्तःप्रवेश्यावितिराज्ञआज्ञांनप्राप्तौ ॥ १६ ॥ स० वसन्तौ उपोषणेन । 'तांनीयमानांतत्स्वामीदृष्ट्वाचममेतितम् । ममेतिप्रतिगृ ह्याहृनृगोमेदत्तवानिति । विप्रौविवदमानौमामूचतुःस्वार्थसाधकौ । भवान्दातापहर्तेतितच्छ्रुत्वाऽभवमः | अनुनीतावुभौविप्रौध- र्मकृच्छ्रंगतेनमे । गवांलक्षंप्रगृह्णीतांदास्याम्येषाप्रदीयताम् । भवन्तावनुगृहीतांकिङ्करस्याविजानतः । समुद्धरतंमांकृच्छ्रात्पतन्तंनि- रयेऽशुचौ । नान्यांप्रतीच्छेवैराजन्नित्युक्त्वाखाम्यपाक्रमत् । नान्यद्गवामप्ययुतमिच्छामीत्यपरोययौ' इतिभागवतइवात्रतयो राजदर्शनं किमिति नोक्त मितिचेत्तद्दर्शनोत्तरभाविफलस्याभावादिति केचित् । कल्पभेदेनायंकथाभेदोज्ञेयइत्यन्ये । भारतेदानधर्मेष्वे- वमेवकथा ‘नृगस्ततोऽब्रवीदि'त्यादिनोक्ताज्ञेया ॥ १७ ॥ ति० कुकलीभूतः कुकलासीभूतः । स० दर्शननैषि । ततोऽदृश्यः । शिरःकंपउभयविषयेपिकृतइतिकृकलासोभविष्यसि ॥ १८ ॥ स० वत्रे गर्तें | कृकलीभूतः कृकंशिरः लातिआधेयत्वेनेतिकृक- लं । ग्रीवाऽस्त्यस्येतिसतथा । भूतोजातस्सन् | भूतः परितोभुवा ऊतः संबद्धइतिवा ॥ १९ ॥ ति० पुरुषविग्रहः पुरुषशरीरसह- शशरीरः ॥ २० ॥ [ पा० ] १ ख. घ. सवरसाबहुदोहिनी. ग. ज. सवरसाबहुदोहना २ इदमर्धे क. घ. च. छ. पाठेषुदृश्यते. ३ क – इ. झ. न. ट. वभ्रेलंकृकलीभूतोदीर्घकालंनिवत्स्यसि ४ कट. ख्यातो विष्णुः पुरुष.