पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः ॥ त्यजैनां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह ॥ १६ ॥ एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना || उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलः ॥१७॥ एवमेतन्नर श्रेष्ठ यथा वदसि लक्ष्मण || परितोपच मे वीर मम कार्यानुशासने ॥ १८ ॥ निर्वृतियागता सौम्य संतापश्च निराकृतः ॥ भवद्वाक्यैः सुरुचिरैरनुनीतोसि लक्ष्मण ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ सीताशोकेन दिनचतुष्टयं राज्यकार्याकरण न दूयतारामेण लक्ष्मणप्रति राज्यकार्याविमर्शनस्यानर्थं हेतुत्वेदृष्टान्ततया नृगोपा ख्यान निवेदन पूर्वक कार्यार्थिनांप्रतीक्षणचोदना ॥ १ ॥ लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् || सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाचह ॥ १ ॥ दुर्लभस्त्वीदृशो बन्धुरसिन्काले विशेषतः || योदृशस्त्वं महाबुद्धे मम सौम्य मनोनुगः ॥ २ ॥ यच्च मे हृदयं किंचिद्वर्तते शुभलक्षण || तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ ३ ॥ चत्वारो दिवसाः सौम्य कार्य पौरजनस्य वै ॥ अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ४ ॥ आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥ कार्यार्थिनच पुरुषाः स्त्रियच पुरुषर्षभ |॥ ५ ॥ पौरकार्याणि यो राजा न करोति दिनेदिने || संवृते नरके घोरे पतितो नात्र संशयः ॥ ६ ॥ श्रूयते हि पुरा राजा नृगो नाम महायशाः ॥ बभूव पृथिवीपालो ब्रह्मण्यः सत्यवाक्छुचिः ॥ ७॥ स कदाचिद्रवां कोटी: सवत्सा : स्वर्णभूषिताः ॥ नृदेवो भूमिदेवेभ्यः पुष्करेषु ददौ नृपः ॥ ८ ॥ भविष्यतीत्यर्थः ॥ १५ - १७ ॥ | व्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ कार्यानुशासने गङ्गातीरत्यागरूपे त्वत्कृते ॥ १८ ॥ निर्वृतिः सुखं ॥ १९ ॥ इति श्रीगोविन्दराज विरचिते स्त्रियश्चेति । कार्यार्थिन्य इत्यनुषज्यते ॥ ५ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड पतितः स्वकर्मणेति शेषः । स मृतो नरके घोरे तंतत्तुशोक त्यागानुपपादकतयोपेक्षितम् ॥ १५ ॥ ति० प्रजापालनायमामेवंबोधयतीतिलक्ष्मणाशयंज्ञात्वातदङ्गीकृत्योत्तरमाह -- एवमेतदित्यादिश्लोकद्वयेन । हेलक्ष्मण वीरसौम्यलक्ष्मणेत्याद रेणबहुशःसंबोधनं । राज्यपरिपालनंत्यक्त्वैवंशोकेऽपवादइत्युतंत्वया । एतदेवमेव सत्यमेव । अतस्त्वद्वाक्यैरनुनीतोस्मि । अतोममदुःख निवृत्तिरागताजाता सन्तापश्चमयानिराकृतः । अतएवममकार्या- नुशासनेप्रजारक्षण कार्यस्यानुष्ठानेमे मयापरितोषःप्राप्तइतिशेषः । स० नरश्रेष्ठेत्यनेन लोकदृष्ट्या स्वबुद्धिप्रत्यावर्तनगौरवसूचयति । लक्ष्मणेतिभ्रातृत्वेनस्व सौमुख्यकरणानुबन्धःसूच्यते । वीरेत्यनेन खेनस हेन्द्र जिदादिवधकरणप्रदर्शित वीर्यदाक्षिण्यमुक्तानुष्ठानहेतुत- यासूचितं । अतःसार्थकं संबोधनत्रयं | निवृत्तिः सीताविरहः । अगता मांनप्राप्ता | सासमीपवर्ततएव । अतःसंतापश्चनिराकृतः ॥ १८ ॥ १९ ॥ इतिद्विपञ्चाशः सर्गः ॥ ५२ ॥ ति० परमाद्भुतं सर्वेक्षयान्ता इत्यादिवाक्यं ॥ १ ॥ स० विशेषतः गरुडशेषौविनादुर्लभइतिचा | समत्वाद्विपरिग्रहः । शेष- त्वाल्लक्ष्मणस्यैवमुक्तिर्वा ॥ २ ॥ स० दिवसाः गताइतिशेषः । पौरजनस्यकार्य तत्सुखदुःखविचारणरूपं । अकुर्वतः । तच्चतुर्दि- नीगमनं । मर्माणिकृन्तति । गतं ॥ ४ ॥ ति० संवृते वायुस्पर्शहीने | पतितः भवेदितिशेषः । स० संवृते अनुत्थाने ॥ ६ ॥ स० इतिहासमुखेनाप्येतत्कार्यकरणमावश्यकमित्याह – श्रूयतेहीति | ब्राह्मणपूजः ॥ ७ ॥ पुष्करेषु तदादितीर्थक्षेत्रेषु ॥ ८ ॥ [ पा० ] १ क-घ. जेमां. २ क ख सदृशस्त्वंमहाबुद्धेलक्ष्मणायतलोचन. ३ क. ख. हृदयंसौम्यवर्तते.