पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । द्विपञ्चाशः सर्गः ॥ ५२ ॥ सुमन्त्रेण सहकेशिन्यांरात्रियापनेन प्रभातेअयोध्यामागतेनलक्ष्मणेन श्रीरामे समणामंवाल्मीक्याश्रमेसीता विसर्जन निये- दनपूर्वकं रामसमाश्वासनम् ॥ १ ॥ १५५ तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः || प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ॥ १ ॥ ततो दिवसे प्राप्ते प्रविवेश महारथः ॥ अयोध्यां रत्तसंपूर्ण हृष्टपुष्टजनावृताम् ॥ २ ॥ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः ॥ रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ ॥ तस्यैवं चिन्तयानस भवनं शशिसन्निभम् || रामस्य परमोदारं पुरस्तात्समदृश्यत ॥ ४ ॥ राज्ञस्तु भवनद्वारि सोवतीर्य रथोत्तमात् || अवाखो दीनमनाः प्रविवेशानिवारितः ॥ ५ ॥ स दृष्ट्वा राघवं दीनमासीनं परमासने || नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ॥ ६ ॥ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः ॥ उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः ॥ ७ ॥ आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम् || गङ्गातीरे यथोदिष्टे वाल्मीकेराश्रमे शुचौ ॥ ८ ॥ तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् || पुनरप्यागतो वीर पादमूलमुपासितुम् ॥ ९ ॥ मा शुच: पुरुषव्याघ्र कालस्य गतिरीदृशी ॥ त्वद्विधा न हिशोचन्ति बुद्धिमन्तो मनस्विनः ॥१०॥ सर्वे क्षयान्ता निचयाः पतनान्ता: समुच्छ्रयाः ॥ संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ११ तस्मात्पुत्रेषु दारेषु मित्रेषु च धनेषु च ॥ नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥ १२ ॥ शक्तस्त्वमात्मनाऽऽत्मानं विनेतुं मनसैव हि ॥ लोकान्त्सर्वांच काकुत्स्थ किं पुनः शोकमात्मनः १३ नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः || अपवादः स किल ते पुनरेष्यति राघव ॥ १४ ॥ यदर्थ मैथिली त्यक्ता अपवादभयान्नृप || सोपवादः पुरे राजन्भविष्यति न संशयः ॥ १५ ॥ तत्र पथीत्यर्थः ॥ १–५ || नेत्राभ्यामश्रुपूर्णा- यर्थः ॥ १३ ॥ अपवादः पुनरेष्यति प्रकारान्तरेणेति भ्यामुपलक्षितमजं || ६-८ ॥ पादमूलं तवेति शेषः ॥ १४ ॥ तदेवोपपादयति - यदर्थमिति ॥ हे शेपः ।। ९–११ ।। अतिप्रसङ्गः अत्यासक्तिः ॥ १२॥ नृप परीवादभयागीतेन त्वया यदर्थं यदपवाद परि शक्तस्त्वमात्मनात्मानं विनेतुं मनसैव हीति || आत्मना हारार्थ मैथिली त्यक्ता सोपवादः पुनः प्रकारान्तरेण स्वयमेव मनसैव करणेनात्मानं स्वात्मानं लोकांश्च | भविष्यति । सीतामपवादात्त्यक्त्वा पुनः शोचति । विनेतुं शिक्षितुं शक्तः । सांसारिकदुःखाद्वारयितुमि तस्मात्तस्यामतिमात्रोयं कामुकस्य रामस्यानुराग स० केशिनीतिकेचननदींकेचनग्रामंचप्रचक्षते ॥ १ ॥ ति० दिवसस्यार्धमर्धदिवसं ॥ २ ॥ ति० माशुच: सीतावियोगे- नेतिशेपः ॥ १० ॥ ति० ययावुद्ध्यामन खिनोनशोचन्तितांबुद्धिमाह - सर्वइति । निचयाः रावणादेरिवमहत्तरैश्वर्याणि । अवश्यं क्षयान्तान्येव नाशान्तान्येव | समुच्छ्रया: इन्द्रजिदादेरिव शौर्यवीर्यादिजनितौन्नत्यानि | पतनान्तान्येव । संयोगाः युवयोरिव विप्रयोगान्ताः । सर्वस्यजनिमतोजीवितंमरणान्तमेव ॥ ११ ॥ ति० निजस्वरूप पर्यालोचनयापिशोकोन कार्य इत्याह – शक्तइति । विनेतुं शिक्षितुं । निग्रहीतुं सांसारिकदुःखाद्वारयितुमित्यर्थः । आत्मनेत्यत्रान्तःकरणोपाधिर्जीवोभोक्तात्मा । आत्मानमन्तःकरणं । मनसा अन्तःकरणेन । मनः तद्वृत्तिविशेषरूपं । अत्रमनश्शब्दोभोगोपकारणेन्द्रियोपलक्षणं | हेकाकुत्स्थ सर्वलोकांश्चविनेतुं अन्तर्यामिरूपेणशिक्षितुं समर्थस्त्वमात्मनः शोकं निवारयितुं समर्थ इति किंवक्तव्य मित्यर्थः ॥ १३ ॥ ति० तदेवाह - - नेहशेष्विति । किंचैवंशोकेक्रियमाणेऽज्ञप्रजानिबन्धनोऽनर्थउभयतः पाशरज्जु रिवदुर्मोचइत्याह - अपवादइति । स० अपवाद: प्राचीनतइतरः प्रियांप्रेषयित्वारोदितीत्यपवादएष्यति । ततः काकुत्स्थ स्थगनमेव मेरोचतइतिभावः ॥ १४ ॥ ति० हेनृप अपवादभयागीतेनत्वया यदर्थेयदपवादनिवृत्तयेसीतात्यक्ता सोपवादः हेराजन् परगृहोषितांस्त्रियंत्यक्त्वासर्वदाता मेवानुशोचती तिप्रकारान्त रेणभविष्यति । यत्तुकतकेनअभ्यादिनाशुद्धत्वेनोक्तांखयंदृष्टशुद्धिंगर्भिणी म पिरामःप्राकृतवद्विसृष्टवानितिपुरे देवादिपुरेऽपवादोभविष्यतीति व्याख्या- 1