पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद || तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥ २५ ॥ अयोध्यायाः पती रामो दीर्घकालं भविष्यति ॥ [ तंत्र पत्नीवियोगं च दीर्घकालं गमिष्यति ॥ ] सुखिनश्च समृद्धाश्र भविष्यन्त्यस्य येऽनुगाः ॥ २६ ॥ दश वर्षसहस्राणि दश वर्षशतानि च ॥ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ २७॥ समृद्धैश्वाश्वमेधैश्च इष्ट्वा परमदुर्जयः ॥ राजवंशांच बहुशो बहून्संस्थापयिष्यति ॥ २८ ॥ द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु || अन्यत्र न त्वयोध्यायां सत्यमेतन्न संशयः ॥ २९ ॥ सीतायाश्च ततः पुत्रावभिपेक्ष्यति राघवः ॥ ३० ॥ स सर्वमखिलं राज्ञो वंशसाह गतागतम् || आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ३१ ॥ तूष्णीं भूते तदा तस्मिन्राजा दशरथो मुनौ || अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ३२ ॥ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा || श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ३३ ॥ एवंगते न संतापं कर्तुमर्हसि राघव || सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ३४ ॥ श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् || महर्पमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ३५ ॥ ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ॥ अस्तमर्के गते वासं केशिन्यां तावथोपतुः || ३६ || इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥ वतारे ॥ २४ ॥ तत्फलं पत्नीवियोगेनचिरकालवा- सरूपं ||२५-३० ॥ सः दुर्वासा इत्यर्थः ॥ ३१ - ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एक पञ्चाशः सर्गः ॥ ५१ ॥ अत्रापिशरीरेभगवतः सूचितः । सपाद्मेदर्शितः | 'आयलक्ष्मणंत्राहरामोराजीवलोचनः । शृणुमेवचनं गुह्यं सीतासंत्यागकारणम् । वाल्मीकिनाथभृगुणाशप्तोस्मिकिललक्ष्मण | तस्मादेनांत्यजाम्ययजनोनैवात्रकारणम् ।' इति । वाल्मीकेरपिप्राचेतसत्वाद्भृगुवं इयत्वेनभृगुत्वमस्तीतिवदन्ति । एतच्चनिरूपितंबालकाण्डे विस्तरेणास्माभिर्ग्रन्थोपक्रमेमानिषादेति लोके ॥ २४ ॥ शि० शापे नतद्दानेन पीडितोभृगुः देवं विष्णुं अर्चयामास | देवस्त्वब्रवीत् । तद्वचनाकारमाह -- लोकानामिति । लोकानां रावणादिभ्योभी- तानां । संप्रियार्थतंभवदुक्तशापं गृह्यं मयाग्राह्यमेवावेहीतिशेषः । इति वचनंपूर्वजन्मनि जन्मनःपूर्वसमयेभृगुण ( शप्तो विष्णु- रुक्तवान् । इतिहेतोः त्रिपुलोकेषुअभिविख्यातोविष्णुः भरतइत्यर्थः । रामे रामजन्मसंनिधौतव पुत्रत्वंइहायोध्यायांगतः । तत्र प्रमाणं 'वैकुण्ठेशस्तुभरतः क्षीराधीशस्तुलक्ष्मणः । शत्रुस्तुस्वयंभूमाराम सेवार्थमागताः' इत्यादि । अतएवमृशापकृतं महत्फलं प्राप्स्यते । रामस्तुदीर्घकालं बहुकालपर्यन्तं अयोध्याधिपतिः प्रकटायोध्यापालकोभविष्यति । एतेन भरतोद्देश्यकभृगुशापहेतु- कभरतदुःखभोगार्थमपिरामस्यदण्डकारण्य विवासनं सीतात्यागश्चेतिसूचितं । श्लोकत्रयमेकान्वयि ॥ २३-२५ ॥ ति० ब्रह्मलोकं हिरण्यगर्भस्यलोकंवैकुण्ठं | तस्यापिहिरण्यगर्भलो कैकदेशत्वमितिभावः । स० ब्रह्म लोकमितिपदद्वयं ब्रह्म तदभि- नोरामः । लोकं स्वलोकंवैकुण्ठं | ब्रह्मणश्चतुर्मुखस्यलोक मितिवा। 'द्वितीययाब्रह्मसदस्यधीश्वरस्तेनार्चितः' इत्याचार्योक्तेः । ब्रह्मणः स्वस्यलोकमितिवा । 'अथापरयानिजालये । तृतीयरूपेण निजंपदंप्रभुंत्रजन्तं' इत्यादितदुत्तरतदुक्तेः ॥ २७ ॥ ति० बहूत्राजवं- शान् लक्ष्मणादिपुत्रद्वारेतिभावः । एतेन रामपुत्राणाम पिचिरजीवित्वमुक्तप्रायमेव । स० राजवंशान् इतरराजवंशान् बहून्संस्थापयिष्यति स्वस्वराज्ये | अथवा पारोक्ष्येणनिर्देशोऽयं । राज्ञस्तववंशान् भरतादिसुतद्वारा । बहुशः पूर्णसुख ॥ २८ ॥ स० श्रुतं नबहिः प्रकाशितं । नापिविस्मृत मिल्लाह – हृदीति ॥ ३३ ॥ इत्येकपञ्चाशः सर्गः ॥ ५१ ॥ [ पा० ] १ इदमर्ध च. ज. पाठयोदृश्यते . २ क – घ. ज. काकुत्स्थोबहून्. ३ क ख. ग. ज. गोमल्यां. 1