पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् | १५३ शृणु राजन्पुरावृत्तं तदा दैवासुरे युधि || दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ११ ॥ तया दत्ताभयास्तत्र व्यवसन्नभयास्तदा ॥ १२ ॥ तया परिगृहीतांस्तादृष्ट्वा क्रुद्धः सुरेश्वरः ॥ चक्रेण शितधारेण भृगुपत्या: शिरोऽहरत् ॥ १३ ॥ ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः || शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ १४ ॥ यस्मादवध्यां मे पत्नीमवधीः क्रोधमूच्छितः || तसात्वं मानुषे लोके जनिष्यसि जनार्दन || तत्र पत्नीवियोगं त्वं प्राप्स्यते बहुवार्षिकम् ॥ १५ ॥ [एवं शापं भृगुर्दत्वा विष्णोः स्मृत्वा च वैभवम् ]॥ शापासिंहतचेताः स खात्मना भावितोऽभवत् ॥ १६॥ [ पुनरेव ययौ तापमृपिर्दुर्मददुर्मदः ॥ विष्णुशक्तिमविद्वान्स प्रपेदे शापमूढताम् ॥ १७ ॥ चिरकालमसंज्ञोऽभ्रूच्छापान्धतमसा वृतः ॥ दृष्ट्वा सप्तर्षयश्चैवं कृपां चक्रुथ भक्तितः ॥ १८ ॥ व्यक्तशापः पुरस्तस्थौ मन्दं भृगुरथाब्रवीत् ॥ रक्षध्वं मां मुनिश्रेष्ठाः शापान्मत्पुरतः स्थिताः ॥१९॥ श्रुत्वा तु भृगुवाक्यं तमाहुश्च परमर्पयः || स्तुत्यैर्ब्रह्मेशशक्राद्यैः स्तूयमानमहर्निशम् || नारायणं प्रपद्यस्व स्तोत्रैरेव च सुव्रत || २० |॥ भृगुणाऽऽराधितो विष्णुरागतः प्राह तं भृगुम् || माभैभृगोऽनृतं वाक्यं न भविष्यति ते द्विज || संमोचयसि पापान्मामहमेनं गृहीतवान् ॥ २१ ॥ ] अर्चयामास तं देवं भृगुः शापेन पीडितः ॥ २२ ॥ तपसाराssधितो देवो ह्यब्रवीद्भक्तवत्सलः ॥ लोकानां संहितार्थं तु तं शापं ग्रह्यमुक्तवान् || २३ || इति शप्तो महातेजा भृगुणा पूर्वजन्मनि ॥ इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ २४ ॥ मे राम इति ॥८-१०॥ एवं पृष्टश्चिरायुष्वं दुःखोपेतं | त्यर्थः ॥ १६ – २१ ॥ पुनः शापेन शापमोघभयेन शापवशादिति वक्तुं पीठिकामाह - शृणु राजन्नित्यादि पीडितः सन् भृगुस्तं देवमर्चयामास ॥ २२ ॥ तं शापं ॥ ११-१४ ॥ अवध्यां स्त्रीत्वादृषिपत्नीत्वाञ्चेति भावः । बहुवार्षिकं कालमित्यर्थः ॥ १५ ॥ शापाभि- मनुष्यजन्मादिप्रापकं लोकानां संहितार्थं सम्यग्रावण- हतचेता: पञ्चात्तापपरीतचित्त इत्यर्थः । स्वासना बधरूपहितसंपादनार्थे । ग्राह्यं परिग्राह्यमेवेत्युक्तवान् भावितो भगवच्छापनिवृत्त्यर्थं स्वस्वरूपमचिन्तयदि - ॥ २३ ॥ पूर्वजन्मनि काश्यपात् विष्णुसंज्ञकोपेन्द्रा- ति० पुरा पूर्वस्मिन्काले | भृगुपत्नीं स्वपुरोहितमातरं ॥ ११ ॥ शि० जननेदोषमाह -तत्रेति । पत्नी पत्नीमान् । पत्नीसहित इत्यर्थः । त्वंबहुवार्पिकं वियोगं प्रियवियुक्ति | भवान्प्राप्स्यते । पत्नीत्यत्रत्रीह्यादित्वादिनिः । किंचग्रहणरूपधात्वर्थ विहितणि प्रकृति- कघमन्त प्रकृति कतद्धितान्तप्रकृतिकप्रथमान्तःपत्नीति । अतएव प्रियैर्द्रुतमिति पूर्वेणनविरोधः ॥ १५ ॥ शि० तु अनन्तरं शापेन शापदान हेतुकतपश्रुत्या अभिहतंचेतोयस्यसमुनिः स्वात्मना स्वमनसा | भावितः चिन्तान्वितः | अभवत् ॥ ति० शापाभि- हतचेताः धर्मपक्षाश्रयदेवानुग्रहायप्रवृत्तईश्वरःखोपास्यः मयाख्यभिमानेनशप्तः । ईश्वरत्वाद्यदितंनिरस्येत्तदा मिथ्यावचनत्वेन नरकप्राप्तिः स्यादितिपश्चात्तापपरीतचित्तः । स्वात्मना अन्तर्यामिणाभावितः स्वशापस्वीकारार्थमीश्वरंप्रतितपश्चरणार्थे प्रेरितइत्यर्थः ॥ १६ ॥ ति० शापेन शापस्यमोघत्वभयेनपीडितोभृगुस्तंदेवमर्चयामास ॥ २२ ॥ स० लोकानां जनानां । संप्रियार्थ रावणादिमारणेनसुखार्थ । तंशापं गृह्यं ग्राह्यं । अभीष्टसाधनत्वादब्रवीत् । उक्तवान् उक्तं उक्तिः सूक्तिमान् । अब्रवीत् ओमितिशापंगृह्य स्वीकृत्य | मुक्तवान् | तंभृगुंतत्याजेतिवा | ति० किमब्रवीत्तदाह — लोकानामिति । लोकानां भूरादीनां | संप्रियार्थ सम्यग्रावणवधादिरूपप्रियसंपादनार्थं । तंशापं मनुष्यत्वादिप्रापकं गृह्यं अङ्गीकार्यमेवस्वस्योक्तवान् || २३ || ति० इतिशप्तः उक्तप्रकारेणशप्तः | पूर्वजन्मनि कश्यपपुत्ररूपोपेन्द्रावतारे | अत्रपूर्वजन्मनिभृगुणाशप्तइत्युक्त्या तद्वंश्यर्षिशापोभावी [ पा० ] १ इदमधे क. पाठेदृश्यते . २ . ठ. हतचेतास्तु ३ पुनरेवययावियादयः गृहीतवानित्यन्ताः श्लोकाः क. च. ज. पाठेघुदृश्यन्ते. ४ ज. ततोऽब्रवीद्देवदेवः प्रीतिमान्भक्त ५ झठ संप्रियार्थ. ६ झ ञ ट . गृह्य. वा. रा. ९६०