पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७. येनेदमीदृशं प्राप्तं दुःखं शोकसमन्वितम् ॥ न त्वया भरते वाच्यं शत्रुघ्नस्यापि सन्निधौ ॥ १९ ॥ तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत् ॥ तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् ||२०|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशः सर्गः ॥ ५० ॥ एकपञ्चाशः सर्गः ॥ ५१ ॥ चातुर्मास्यनियमनिर्वर्तनायवसिष्ठाश्रमवासिनिसतिदुर्वाससि दशरथेनतंप्रति रामादिसंबन्धिभविष्यद्वृत्तान्तनिवेदनप्रार्थने तेनतंप्रति रामस्यभृगुशापेन सीता वियोगस्यावश्यंभावित्वकथन निवेदनेन सुमन्त्रेण सौमित्रिसमाश्वासनम् ॥ १ ॥ ते तथा संचोदितः सूतो लक्ष्मणेन महात्मना || तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ १ ॥ पुरा नाम्ना हि दुर्वासा अत्रे पुत्रो महामुनिः ॥ वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ २ ॥ तमाश्रमं महातेजाः पिता ते सुमहायशाः ॥ पुरोहितं महात्मानं दिक्षुरगमत्स्वयम् ॥ ३॥ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा || उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ४ ॥ तौ मुनी तापस श्रेष्ठौ विनीतो ह्यभिवादयत् || स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥ पायेन फलमूलैश्च उवास मुनिभिः सह ॥ ५ ॥ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ॥ बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि ॥ ६ ॥ ततः कथायां कस्यांचित्प्राञ्जलि: प्रग्रहो नृपः ॥ उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७ ॥ भगवन्कि प्रमाणेन मम वंशो भविष्यति ॥ किमायुश्च हि मे रामः पुत्राधान्ये किमायुषः ॥ ८ ॥ रामस्य च सुता ये स्युस्तेषामायु: कियद्भवेत् ॥ काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम ॥ ९ ॥ तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ॥ दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ १० ॥ प्रकाश्यस्यापि प्रकाशने हेतुमाह - दैवं हि दुरतिक्रम- | व्याख्याने पञ्चाशः सर्गः ॥ ५० ॥ मिति । हि यस्माद्दैवं प्राचीनं कर्म दुरतिक्रमं तस्मा- दित्यर्थः ॥ १८ ॥ दुरतिक्रमे हेतु:-येनेदमिति ॥ एवं पुरा वार्षिक्यं वर्षासु भवं चातुर्मास्यनियममुद्दि- भवदुः खातिशयदर्शनात् श्रद्धालवे तुभ्यं मया वक्त- श्योवास दुर्वासा हीति नाम्ना ॥ २५ ॥ मध्या- व्यमिति भावः॥ १९ ॥ गम्भीरार्थपदमिति | पूर्वोक्तं |दित्यगते मध्यगतादित्ययुक्त इत्यर्थ: । मध्याह्न इति भाषितं ॥ २० ॥ इति श्रीगोविन्दराजविरचिते फलितार्थः ॥ ६ ॥ प्रग्रहः सविनय इत्यर्थः ॥ ७ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- किंप्रमाणेन उत ततोष्यधिक प्रमाणेनेत्यर्थः । किमायुश्च त्वादुःखैनकार्य मित्याह —दैवंहीति । येनदैवेनेदृशंदुःखंप्राप्तंत दैबंदुरति क्रम मितिज्ञाखाशो कंत्यजेत्यर्थः । दैवंहिसुमहद्भूतं येनेदमी- दशप्राप्य मितिचपाठे राज्ञाप्रकाश्यत्वोक्तौहेतु दैवहीत्यादि । येनदैवेन प्राचीन कर्मणाशोकसममीदृशंदुःखत्खयाप्राप्यं प्रापणीयं । तदैवंहि यस्मात्सुमहद्भूतं केनापिदुश्शकज्ञानं । अतोराज्ञाप्रकाश्यमुक्तं । यदितुपूर्वभवदादीनामग्रे उक्तं स्यात्तदास्यार्थस्यावश्यभावित्वज्ञाना- तवेदृशंदुःखं नस्यादितिकत कादयः । अतोनत्वयाभरतादिसंनिधौवाच्य मितिशेषः । स० ईदं संपत्प्रदंराममपीदृशंदुःखप्राप्तं । शोक- समन्वितं शोकेन समनवो मन्त्रसहिताः तैरितं सहितं दुःखेनालोचकसहित मितियावत् ॥ १८ ॥ १९ ॥ स० गंभीरार्थपदं शोकपराणांझटित्यर्थोनभवेद्यथातथापदानांगांभीर्यज्ञेयं । तथ्यं यथाममार्थो भवेत्तथाब्रूहि ॥ २० ॥ इतिपञ्चाशः सर्गः ॥ ५० ॥ ति० वार्षिक्यं यतीनांवर्षाकाले भ्रमण निषेधाद्वार्षिक मासचतुष्टयमेकत्रैवस्थितवानित्यर्थः ॥ २ ॥ ति० महामुनिं दुर्वाससं ॥ ४ ॥ ति० प्रग्रहः ऊर्ध्वबाहुः । शि० प्रकृष्टोग्रहोज्ञानंयस्यसः ॥ ७ ॥ ति० किंप्रमाणेन मत्पुत्रपर्यन्तं ततोप्यधिकंवा ॥८॥ स० काम्यया ममेच्छया ॥ ९ ॥ [ पा० ] १ . च. छ. झ. न. र. सूतंतवाक्यमत्रवीत्.