पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१ सर्ग: ५० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एता वाचो बहुविधा: श्रुत्वा लक्ष्मणभाषिताः ॥ सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ ९ ॥ न संतापस्त्वया कार्य: सौमित्र मैथिली प्रति ॥ दृष्टमेतत्पुरा विप्रै: पितुस्ते लक्ष्मणाग्रतः ॥ १० ॥ भविष्यति दृढं रामो दुःखप्रायोपि सौख्यभाक् || प्राप्स्यते च महाबाहुर्बिप्रयोगं प्रियैर्ध्रुवम् ॥ ११॥ त्वां चैव मैथिलीं चैव शत्रुघ्नभरतावुभौ ॥ संत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ १२ ॥ इदं त्वयि न वक्तव्यं सौमित्रे भरतेऽपि वा ॥ राज्ञा वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ १३ ॥ महाजनसमीपे च मम चैव नरर्षभ || ऋपिणा व्याहृतं वाक्यं वसिष्ठस्य च सन्निधौ ॥ १४ ॥ ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः ॥ सूत न कचिदेवं ते वक्तव्यं जनसन्निधौ ॥ १५ ॥ तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितम् || नैव जात्वनृतं कार्यमिति मे सौम्य दर्शनम् ॥ १६ ॥ सर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः | यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ॥ १७ ॥ यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा ॥ तथाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् ॥ १८ ॥ । संप्राप्तः । प्रत्युत साध्वीत्यागादधर्म एव स्यादिति नेति || महाजनसमीपे दशरथसमीप इत्यर्थः । मम भावः ।। ८–९ ।। दृष्टमिति । हे लक्ष्मण पुरा तव वसिष्ठस्य च सन्निधौ | ऋषिणा दुर्वाससा वाक्यं पितुरप्रतः अल्पभाग्यवात्रामः दुःखप्रायो भविष्यती- | व्याहृतं । त्रिभिरेवेदं वृत्तं ज्ञातमिति भावः ॥ १४ ॥ त्येतद्दृष्टं दृष्ट्वा मह्यमुक्तमित्यर्थ: । फलितमाह - प्राप्स्यत एवं ते त्वया श्रुतं रहस्यमित्यर्थः ॥ १५ ॥ समाहितं इति ।। १०–१२ ।। इदं रहस्यं त्वयि भरते वा न सम्यग्गुप्तं तस्य वाक्यं मया जातु अनृतं न कार्यमिति वक्तव्यं । इदंशब्दार्थमाह - राज्ञेति । राज्ञा दशरथेन । मम दर्शनं मतं । तस्मात् त्वयि भरते च न वक्तव्य- वः तदिदं त्वयि भरतेपि न वक्तव्यमित्यर्थः ॥ १३ ॥ मिति भावः ॥ १६ ॥ न वक्तव्यमिति | राजरहस्य- दुर्वाससो वचनं कथं त्वयावगतमित्यत्राह - महाज- | मिति शेषः । तवातिश्रद्धारहितस्य ॥ १७ ॥ तथाप्य - स० कोनुधमीश्रयःप्राप्तः 'धर्मेचार्येच 'इति संकल्पपूर्वकं विवाहिताऽपवाहितेतिनधर्मोरामस्येतिभावः ॥ ८ ॥ स० दृष्टं तपस्सा- मर्थ्येन । श्रावितंच ॥ १० ॥ ति० दृढं ध्रुवं | दुःखप्रायः दुःखबहुलः । अतोविसौख्यभाकू सौख्य वियोगभाक्चभविष्यतीतिदृष्टमि - त्यन्वयः । यदेवं अतः प्राप्स्यतेचेत्यादि । शि० विसौख्यभाक् विशेषसुखभोक्तापिरामः प्रियैः विप्रयोगं वियोगं प्राप्स्यते । अतएव रामोपि दुःखप्रायः दुःखिसदृशः । भविष्यति । दृढं निश्चितमेतत् ॥ ११ ॥ स० महताकालेन निर्याणसंकेतसमयेन | महानि- त्यनेन कालसंबन्धिमहत्त्वंरामायत्तमितिसूचयति । भरतशत्रुघ्नयोस्यागोवनवाससमये । त्वांमैथिलींच मैथिल्याः प्रस्तुतस्त्यागः | लक्ष्मणस्य स्वस्मात्पूर्वीदुर्वास सोतस्त्यागात्त्यागः | यत्तुना गोजिभट्टेन 'शत्रुघ्नभरतयोस्तु मधुराराज्यगन्धर्वराज्ययोःकरणायप्रतिष्ठा- पनंत्यागइत्युक्तं । परंतुतद्दुरुक्तं । दुःखकरत्यागप्रस्तावाननुगुणत्वात् ॥ १२ ॥ ति० राज्ञा दशरथेन । वोयुष्मान्प्रति व्याहृतं एषांकथमप्रेभावीत्येवं प्रश्नवाक्यंश्रुत्वा यदुर्वासाउवाच । तदिदं त्वयि त्वया सौमित्रे शत्रुघ्नेभरतेच नवाच्यं । स० एतावत्कालपर्य- तंकुतो नाविष्कृत मिद मियत आह - इदमिति । हेसौमित्रे त्वयिभरतेपिनवक्तव्यं । अस्वास्थ्यापादकत्वात् । दुर्वासायदुवाच वोयु ष्मद्विषयेयव्याहृतं राज्ञा तत्तदिदं ॥ १३ ॥ ति० दुर्वासो वाक्यंत्वयाकथमवगतंतत्राह - महाजनेति । महान्तोजना यस्यदशरथ- स्य | तस्य मम संनिधौ | स० कथंकथनंदुर्वासोदशरथयोस्त्वयाश्रुतमित्यतआह - महाजनसमीपइति । महाजनः पूजायोग्यो जनोराजा | तत्समीपे ममचैवसमीपे । एतेन पुरुकरुणा पदतया स्वस्याप्तत्वंसूचितं भवति । वसिष्टस्यचसंनिधौ । एतावत्पर्य - तंत्रयाणामेवतदवगमइतिभावः ॥ १४ ॥ ति० पुरुषर्षभोदशरथः ॥ १५ ॥ स० तस्यलोकपालस्यदशरथस्यवाक्यं नानृतं कार्य- मिति सुसमाहितः सावधान चित्तोभविष्यामीतिमे दर्शनं संकल्पः | स० अनृतीकरणंतु यत्रक्कचित्प्रकाशनेन | मेदर्शनं ज्ञानं ॥१६॥ शि० यदिश्रवणेतेश्रद्धा तदाश्रूयतां । एतेनातिश्रद्धालु संनिधौवक्तव्य मेवेति राजाज्ञासूचिता । ति० यदेवमतः सर्वथेति । तवाग्रेनवक्तव्यं । रहस्यश्रवणेऽत्युत्कटश्रद्धारहितस्येत्यर्थः । श्रद्धायांतुवक्ष्यामीत्याह - यदि तेइति । लक्ष्मणस्यपरमाप्तवाद्राज पुत्रत्वाच्च जनसंनिधावेव नरेन्द्रेणप्रतिषेधाच्चदुःखितदुःख निवारणायरहस्यप्रकटनेपिनदोष इतिसुमन्त्राशयः ॥ स० सर्वथा अनाप- द्दृशायां ॥ १७ ॥ति० यद्यपिनरेन्द्रेणरहस्यमप्रकाश्यमित्युक्तं । तथापि कथनयोग्येकालेएतस्य निकटेउदा हरिष्यामि । एवंज्ञा- [ पा० ] १ ख. श. न.ट. दुःखप्रायोविसौख्यभाकू. क. ग. दुःखप्रायोऽल्पसौख्यवान् घ. दुःखप्रायोऽल्पभाग्यवान. २ झ ठ. तत्सुसमाहितः.