पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् || शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः ॥ १७ ॥ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात् ॥ १८ ॥ तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः ॥ उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ॥ १९ ॥ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते || अभिवादयामस्त्वां सर्वा उच्यतां किं च कुर्महे ||२०|| तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमत्रवीत् || सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः ॥ २१ ॥ स्नुषा दशरथस्यैषा जनकस्य सुता सती ॥ अपापा पतिना त्यक्ता परिपाल्या मया सदा ॥ २२ ॥ इमां भवन्त्यः पश्यन्तु स्नेहेन परमेण हि ॥ गौरवान्मम वाक्याच पूज्या वोस्तु विशेषतः ॥ २३ ॥ मुहुर्मुहुश्च वैदेहीं प्रणिधाय महायशाः ॥ स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः ॥ २४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥ पञ्चाशः सर्गः ॥ ५० ॥ सीताविसर्जनविषादेनरामंप्रतिशोचन्तंसौमित्रिप्रति सुमन्त्रेण रामस्य सीतायाभ्रातृणांचविप्रयोगस्यावश्यंभावित्वस्य दशरथंप्रतिदुर्वाससा पूर्वमेवोक्तत्वनिवेदनेन परिसांत्वने लक्ष्मणेनतंप्रति विस्तरेणदुर्वासोवचनानुवदनचोदना ॥ १ ॥ दृष्ट्वा तु मैथिलीं सीतामाश्रमे संप्रवेशिताम् || संतापमगमोरं लक्ष्मणो दीनचेतनः ॥ १ ॥ अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम् || सीतासंतापजं दुःखं पश्य रामस्य सारथे ॥ २ ॥ ततो दुःखतरं किंनु राघवस्य भविष्यति ॥ पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् ॥ ३॥ व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम् || वैदेह्या सारथे नित्यं दैवं हि दुरतिक्रमम् ॥ ४ ॥ यो हि देवान्त्सगन्धर्वानसुरान्सह राक्षसैः ॥ निहन्याद्राघवः क्रुद्धः स दैवैमनुवर्तते ॥ ५ ॥ पुरा रामः पितुर्वाक्याद्दण्डके विजने वने || उपित्वा नव वर्षाणि पञ्च चैव महावने ॥ ६ ॥ ततो दुःखतरं भूयः सीताया विप्रवासनम् || पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ ७ ॥ को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे || मैथिलीं प्रति संप्राप्तः पौरैनार्थवादिभिः ॥ ८॥ भ्येत्येति । तथैवावतिष्ठखेति शेषः ॥ १६-१८ ॥ मुदा युक्ता इति । मुनिपत्नयः तापस्य: | अब्रुवन्निति | वाल्मीकिमिति शेषः ॥ १९ ॥ चिरस्यागमन मिति । प्रतीक्ष्य स्थिता वयं अभिवादयामहे । एतेन सीतायाः समाश्वासादिना बिलम्बो जात इत्यवगम्यते ॥ २० - २३ ॥ प्रणिधाय तापसीनां हस्ते दत्वा ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते मत्रसहायभूतः सारथिर्मन्त्रसारथिः । सीतासं- तापजं सीताविरहसंतापजमित्यर्थः ॥ २-३ ॥ विनाभवं सीतावियोगेनावस्थानं वैदेद्या सार्धं विना- भवमित्यर्थः । दैवात् प्राग्भवाद्दष्टादित्यर्थः ॥ ४ ॥ दैवमनुवर्तते नतु तन्निरसितुं शक्नोतीत्यर्थः ॥ ५- ६ ॥ ततः सीतायाः विप्रवासनं नृशंसं क्रूरकृत्यमिति श्रीमद्रामायणभूषणे प्रतिभाति ॥ ७ ॥ हीनार्थवादिभिः पौरैर्हेतुभिः । मैथिलीं प्रति यशोहरे साध्वीं बने विसृष्टवानिति | अपयशस्करेस्मिन् कर्मणि सीतापरित्यागरूपकर्मण्य अनुष्ठिते सति कोनु धर्माश्रयः धर्मपरिग्रहः रामेण मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनप- श्वाशः सर्गः ॥ ४९ ॥ ति० पत्नीविसृज्ययत्स्थितः । ततोविसृज्यस्थितेः ॥ ३ ॥ ति० यत्पुरादण्डकेउषित्वादुःखमन्वभूत् तत्पितृवाक्यगौरवादुचि- समितिशेषः ॥ ६ ॥ ति० इदंत्वपरिपाल्यवचसांपौराणांवचनं श्रुत्वाऽपरिमितकालत्वा दुःखतरंसीता विप्रवासनंयत्कृतवांस्तन्नृशंसं क्रूरकल्पमितिभाति ॥ ७ ॥ ति० कोनुधर्माश्रयः संप्राप्तोरामेण | धर्माणांसत्त्रीमूलत्वात्तत्त्यागे सर्वोपिधर्मोनाशित एवेत्यर्थः । [ पा० ] १ ग. च-ठ. परिदाय. घ. परिदायमहातपाः २ क- घ. झ-ठ. दैवंपर्युपासते.