पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ४९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एकोनपञ्चाशः सर्गः ॥ ४९ ॥ मुनिकुमारकैः सीतारोदनादिकंनिवेदितेनवाल्मीकिना सत्वरंसीतासमीपमेत्य ससान्त्वनमर्थ्यादिनासंपूजनपूर्वकं तस्याः स्वाश्रमप्रापणेन तापसी:प्रति तत्परिरक्षणचोदना ॥ १ ॥ १४९ सीतां रुदन्तीं दृष्ट्वा तां तत्र वै मुनिदारकाः ॥ प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ॥ १ ॥ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये ॥ सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् ॥ २ ॥ अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः ॥ पत्नी श्रीरिव संमोहाद्विरौति विकृतानना ॥ ३ ॥ भगवन्साधु पश्यँ त्वं देवतामिव खाच्युताम् || नद्यास्तु तीरे भगवन्वरस्त्री काऽपि दुःखिता ॥४॥ दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा || अनर्हा दुःखशोकाभ्यामेका दीना ह्यनाथवत् ॥ ५ ॥ नै ह्येनां मानुषीं विद्मः सत्क्रियाऽस्याः प्रयुज्यताम् || आश्रमस्याविदूरे च त्वामियं शरणं गता || त्रातारमिच्छते साध्वी भगवंत्रातुमर्हसि ॥ ६ ॥ तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् ॥ तैपसा लब्धचक्षुष्मान्प्राद्रवद्यत्र मैथिली ॥ ७ ॥ तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् ॥ तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामतिः ॥ ८ ॥ अर्ध्यमादाय रुचिरं जाह्नवीतीरमागमत् ॥ ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ॥ ९ ॥ ती सीतां शोकभारात वाल्मीकिर्मुनिपुङ्गवः ॥ उवाच मधुरां वाणीं ह्रादयन्निव तेजसा ॥ १० ॥ स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया ॥ जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ॥ ११ ॥ आयान्ती चासि विज्ञाता मया धर्मसमाधिना ॥ कारणं चैव सर्व मे हृदयेनोपलक्षितम् ॥ १२ ॥ तव चैव महाभागे विदितं मम तत्त्वतः ॥ सर्वे च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ॥ १३ ॥ अपापां वेझि सीते॰ त्वां तपोलब्धेन चक्षुषा | विस्रब्धा भव वैदेहि सांप्रतं मयि वर्तसे ॥ १४ ॥ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः ॥ तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ॥ १५॥ इदमध्ये प्रतीच्छ त्वं विस्रब्धा विगतज्वरा ॥ यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ॥ १६ ॥ सबै निवेदयामासुरित्येतद्विवृणोति - अष्टेत्यादि | तव चैवेति । शुद्धभावत्वमिति शेषः । मम मया | ॥ ३ - ४ ॥ अनर्हेति । दुःखस्येति शेषः ॥ ५ - मह्यं मम ॥ १३ ॥ मयि वर्तस इति । मत्समीपे ११ ॥ कारणमिति । आगमनकारणमित्यर्थः ||१२|| | निवसिष्यसीत्यर्थः ॥ १४–१५ ॥ यथा स्वगृहम- पदमेकं | यशश्चधराच तयोःखामी तं | यशखिनीयशोधरा यशखिनीपुयशोधरेतिवा | पातिव्रत्ययशोवतीतिनागोजिभट्टोव्या- चख्यौ सप्रमादीतिवा लेखकहस्तदोषोवेतिबोध्यं । प्राग्यशोधरा इदानीमयशस्विनीतिवा। साबर्हिणनादितेवने आबर्हिणनादितेन सहितंसाबर्हिण नादितं । तस्मिन्वने ॥ २६ ॥ इत्यष्टचत्वारिंशः सर्गः ॥ ४८ ॥ ति० मुनिदारकाः मुनिपुत्राः | उग्रधीः उम्रतपोविषयबुद्धिः ॥ १ ॥ स० सर्वे अनृतत्वभ्रमभ्रंशार्थ ॥ २ ॥ ति० दुःखशो- काभ्यां दीनाअनाथवद्वर्तते । तामिमांसाधुपश्ये: | दृष्ट्वाऽनुगृहाणच ॥ ५ ॥ ति० एतदुत्तरं तां 'तांसीतां' इतिश्लोकः । मध्ये 'नह्येनांमानुषींविद्मः' इत्यादि श्लोकचतुष्टयमर्धाधिकंप्रक्षिप्तमितिकतकः । तांसीतां मुनिपुत्रैर्दृष्ट्वाऽनुग्राह्यत्वेनोक्तांशोकप्रस्तां । तांसीतांतत्समीपेगत्वादृष्ट्वा वाल्मीकिरुवा चेतिसोपस्कारःसंबन्धः ॥ १० ॥ ति०धर्मसमाधिना योगजधर्म लब्धध्यानपरिपाकेन । कारणच आगमनकारणं | हृदयेनोपलक्षितं । ध्यानेनेतिभावः ॥ १२ ॥ शि० ते त्वां | अपापां अवलोकनमात्रेणपापनिवर्तिकां । वेद्मि | मयि मत्समीपे । यतस्त्वंवर्त से अतः विस्रधा रामप्रीति विषय क विश्वासयुक्ताभव ॥ १४ ॥ स० तापस्यः तपसिस्थितायोषितः । अनेनपुरुषस्यतवसमीपोपगतेः पुनरपिपूर्वतएवान्तायाः कागतिरितिशङ्कानिराकृता ॥ १५ ॥ स० वगृहं विदेहगेहं ॥ १६ ॥ इत्येकोनपश्चाशः सर्गः ॥ ४९ ॥ पा० ] १ क. ख. ग. डट. सीतांतुरुदतवतेतत्र. २ झ ठ. सर्वे. ३ ङ च छ. झ ञ पश्येस्त्वं ४ नोनामि- त्यादिश्लोकचतुष्टयं झ. पाठेनदृश्यते . ५ ग. मनसावीक्ष्यचक्षुष्मान् ६ घ. विलपन्तींसुशोकार्ता ७ झ ञ ट सीतेते.