पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ अहं त्यक्ता त्वया वीर अयशोभीरुणा जने || यच्च ते वचनीयं स्यादपवादसमुत्थितम् ॥ मया हि परिहर्तव्यं त्वं हि मे परमा गतिः ॥ १३ ॥ वक्तव्यश्चेति नृपतिर्धर्मेण सुसमाहितः ॥ यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा ॥ १४ ॥ परमो ह्येष धर्मस्ते तस्मात्कीर्तिरनुत्तमा ॥ यत्तु पौरजनो राजन्धर्मेण समवानुयात् ॥ १५ ॥ अहं तु नानुशोचामि स्वशरीरं नरर्षभ || यथापवादं पौराणां तथैव रघुनन्दन ॥ १६ ॥ पतिर्हि देवता नार्याः पतिर्बन्धुः पतिर्गुरुः ॥ प्राणैरपि प्रियं तस्माद्भर्तुः कार्य विशेषतः ॥ १७ ॥ इति मद्रचनाद्रामो वक्तव्यो मम संग्रहः ॥ [ पुनरप्याह सौमित्रिं शोकवेगसमाप्लुता ॥ ] निरीक्ष्य माऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ॥ १८ ॥ एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः ॥ शिरसा वन्द्य धरणीं व्याहर्तुं न शशाक ह ॥ १९ ॥ प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः || ध्यात्वा मुहूर्त तामाह किं मां वक्ष्यसि शोभने ॥२०॥ दृष्टपूर्व न ते रूपं पादौ दृष्टौ तवानधे ॥ कथमत्र हि पश्यामि रामेण रहितां वने ॥ २१ ॥ इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् || आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ॥ २२ ॥ स गत्वा चोत्तरं तीरं शोकभारसमन्वितः ॥ संमूढ इव दुःखेन रथमध्यारुहद्रुतम् ॥ २३ मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् || चेष्टतीं परतीरस्थां लक्ष्मणः प्रययावथ ॥ २४ ॥ दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः ॥ निरीक्षमाणां तूद्विनां सीतां शोकः समाविशत् ॥ २५ ॥ सा दुःखभारावनता यशस्विनी यंशोधना नाथमपश्यती सती ॥ रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ शेषः ।। १०–१२ ।। अयशोभीरुणैव त्वया त्यक्ता | २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- अन्यथानेत्यर्थः । वचनीयं जुगुप्सनं । तन्मया परि- भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने हर्तव्यं । त्वदाज्ञया वनस्थल इति शेषः ॥ १३ - अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ १७ ॥ ऋतुकालातिवर्तिनीं गर्भलक्षणवतीं ॥ १८- ति० जनेअयशोभीरुणाजननिमित्तायशोभीरुणवत्वयात्यक्ता | नान्यथेतिजानामीतिशेषः । वचनीयं निन्दा । अपवादोऽभिशापः | स० अयशोभीरुणा अजने वने त्यक्ता | तेकर्म अवचनीयं अनिन्दनीयंस्यात् । ममापवादः परपुरुषनिवास वासिनीतिसमुत्थि• तइत्यहंत्यक्तानान्यथेति वक्तव्यइतिभावः ॥ १३ ॥ स० तववचनीयत्वंमयाहियतः परिहर्तव्यं सीता कृताविहितव्यापारेतिम मैवाप- यशोभवतु नभवतुमत्संगिताप्रयुक्त मपयशस्ते इतितत्परिहृतिप्रकारोबोध्यः । तत्रनिमित्तंत्वहीत्यादि ॥ १३ ॥ स० एतादृशेपिसम- ये निदेशन | देवदेवदेव्योर्विडंबन मितिज्ञायते । ति० एपधर्मः कस्तत्राह -- यत्विति । धर्मेण धर्मकृतलक्षणेनयदवाप्नुयात्पुण्यं एषएव परमोधर्मः | स० धर्मेण यत्समवाप्नुयाद्भवान्सुकृतं तेन कीर्तिरनुत्तमातेइतिसंबन्धः ॥ १५ ॥ ति० तवदुरवस्थांपश्येत्यतोनचिता कान्त ममेव्याह -- अहंखिति । नरर्षभ अविनाशिश्रेष्ठ 'नरौतावविनाशित्वात्' इतिऋग्भाष्योक्तेः । यथापौराणामपवादंपरिहत्य स्थितिर्भवति तथैवरघुनन्दनवर्तखेतिशेषः ॥ १६ ॥ ति० मम संग्रहः मयारामंप्रतिवक्तव्य संदेशस्य संग्रहइत्यर्थः । स० संग्रहः आज्ञाविज्ञापनासंक्षेप: ऋतुकालातिवर्तिनीमिति | पुराप्राप्तापवादस्त्वस्तु । पुनः पुनरयशोनसंपादनीय मितिभावः । वदसीतिवक्तव्ये वक्ष्यसीतिव्यत्यासः शोकवशादितिज्ञेयम् । यद्यपिसीता मांगुर्विणींलक्ष्मणोज्ञातवानितिज्ञातवती । 'राज्ञःशासनमादायतथैव किलदौर्हदं' इतितदुक्तेः । तथापिपुनर्व्यायतथोक्तवतीतिज्ञेयं ॥ १८ ॥ स० हेसीते तवरूपं पादोपरितनं दृष्टपूर्व पूर्वदृष्टं न । नमनसमयेपादावे- वद्दष्टौ ॥ २० ॥ ति० अनाथवत् अनाथेव | नतुवस्तुतोऽनाथा । पूर्णचिन स्वरूपत्वादितिभावः ॥ २४ ॥ स० यशोधरानाथं [ पा० ] १ च. प्रजावादेनभीरुणा. २ झ. दपवादःसमुत्थितः ३ झ. यथापवादः ४ इदमर्धे ख. पाठेदृश्यते ५ झ० ठ. यशोधरानाथं.