पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J i ? सर्गः ४८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४७ अष्टचत्वारिंशः सर्गः ॥ ४८ ॥ लक्ष्मणमुखाद्रामनियोगश्रवणमात्रेणपतितमूर्च्छितयासीतया क्रमेणसंज्ञाधिगमेन लक्ष्मणप्रति रामायसप्रणामं स्वसंदेशनि- वेदनचोदना ॥ १ ॥ लक्ष्मणे सप्रणामसान्त्वनं सीतात्यागपूर्वकंनौकारोहणेन गङ्गोत्तरतीरमेत्य रथारोहणेनदृष्टिपथमतिक्रान्ते सीतयाशोकादुच्चैरोदनम् ॥ २ ॥ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा ॥ परं विषादमागम्य वैदेही निपपात ह ॥ १ ॥ सा मुहूर्तमिवासंज्ञा वाष्पपर्याकुलेक्षणा || लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ॥ २ ॥ मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण || धात्रा यस्यास्तथा मेऽद्य दुःखमूर्ति: प्रदृश्यते ॥ ३ ॥ किंनु पापं कृतं पूर्व को वा दारैर्वियोजितः ॥ याऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ॥ ४ ॥ पुराऽहमाश्रमे वास रामपादानुवर्तिनी ॥ अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ॥ ५ ॥ सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता || आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ॥६॥ किंतु वक्ष्यामि मुनिषु कर्म वा सत्कृतं चे किम् ॥ कश्चित्कारणे त्यक्ता राघवेण महात्मना ॥७॥ न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले ॥ त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते ॥ ८ ॥ यथाज्ञं कुरु सौमित्रे त्यज मां दुःखभागिनीम् ॥ निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम ॥ ९ ॥ श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च || शिरसावन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् ॥ १० ॥ शिरसाऽभिनतो ब्रूयाः सर्वासामेव लक्ष्मण ॥ वक्तव्यचापि नृपतिर्धर्मेषु सुसमाहितः ॥ ११ ॥ जानासि च यथा शुद्धा सीता तत्त्वेन राघव || भक्त्या च परया युक्ता हिता च तव नित्यशः ॥ १२ ॥ बाष्पव्याकुलक्षणेत्य पुनः संज्ञाप्राप्तिः | भावः । यद्वा । त्यजेयं राघवं वंशे भर्तुर्मा परिहास्य- सुचिता ॥ २ ॥ मामिकेयं तनुः धात्रा दुःखायैव तीति पाठः । रामकृतक्रौर्यादद्यैव जाह्नवीजले जीव- सृष्टा । यस्मात्कारणात् यस्या मे दुःखमूर्तिः प्रदृश्यते स्त्यक्तव्यः । तथापि तं न त्यजेयं । कुतो भर्तुर्वेशे ॥ ३–४ ॥ अनुरुध्यापि सोद्दापि ॥ ५ ॥ निष्कलङ्के राघवमेकं मा परिहास्यति मा परिहसतु । विजनीकृता इष्टजनविरहिता कृता ॥ ६-७ ॥ न खल्विति । त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते व्यत्ययस्त्वार्षः । जीवितत्यागे स्त्रीहत्यामूलोपवादः इत्युत्तरार्धपाठः । अत्यागकारणमुच्यते । राजवंशः रामस्य स्यादिति भावः । अद्यैवेत्यनेन प्रसवानन्तरंतु राजसन्तानः । परिहास्यते विच्छिद्यते । मयि गर्भस्य | त्याज्यमेवेत्यर्थः ॥ ८ ॥ त्वंतु राजशासनं कुर्वित्याह- विद्यमानत्वादिति शेषः । मया देहो धर्तव्य इति यथाज्ञमिति ॥ ९ ॥ चरणौ आवन्द्येति | मदर्थमिति ति० दुःखमूर्तिः सकलदुःखसमूहः ॥ ३ ॥ ति० हेसौमित्रे पुरा पूर्वकाले रामपादानुवर्तिनीभूत्वा दुःखे वनवासदु:खे परिवर्तिनी परिवर्तमानापि अनुरुध्य तत्सोवा आश्रमेवासमरोचयमितिशेषः ॥ ५ ॥ स० विजनीकृता त्रायकनायका दिहीनाकृता ॥ ६ ॥ स० कस्मिन्कारणेत्याग हेतौसति राघवेणत्यक्तेतिमुनिभिः पृष्टा तेषु कृतं अनुष्ठितं असत् पापकर्म किंनुवक्ष्यामि | अकरणस्यसाक्षिसिद्धत्वादितिभावः | अविज्ञत्वात्त्वत्यागः किं नेत्याह- महात्मनेति । प्रभोइतिखेदेन लक्ष्मणस्यवा | स्वामिन्नाम सुज्ञशिरोमणे प्रभो इति रामस्यवासंबोधनं ॥ ७ ॥ स० राज्ञआज्ञांकुरु | निदेशे नितरांस्वकावासप्रदेशे अयोध्यायामितियावत् । स्थीयतां यथापत्युस्तथा मम निदेशे पिकिञ्चित्स्थीयतां । तमेव निदेशव्यनक्ति - शृण्वित्यादिना ||९|| अञ्जलिप्रग्रहेण अञ्जलिसमा - सज्जनेन सहितेनशिरसा । श्वश्रूणां तिसृणां । पार्थिव रामंप्रतिचरणावावन्यकुशलंपृष्टवतीतिब्रूहि ॥ १० ॥ स० धर्मेषुसुसमाहि- तोनृपतिः वक्तव्यः एवंसीताकुशलमप्राक्षीदिति ॥ ११ ॥ [ पा० ] १ च वत्स्यामिमुनिभिः सह २ झ ञ ट प्रभो.