पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ शापितोसि नरेन्द्रेण यत्त्वं संतापमागतः || तहूयाः सन्निधौ महामहमाज्ञापयामि ते ॥ ९ ॥ वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः ॥ अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ॥ १० ॥ श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् || पुरे जनपदे चैव त्वत्कृते जनकात्मजे ॥ रामः संतप्तहृदयो मां निवेद्य गृहं गतः ॥ ११ ॥ न तानि वचनीयानि मया देवि तवाग्रतः || यानि राज्ञा हृदि न्यस्तान्यमर्पात्पृष्ठतः कृतः ॥ १२॥ सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ ॥ पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा ||१३|| आश्रमान्तेषु च मया व्यक्तव्या त्वं भविष्यसि || राज्ञः शासनमाज्ञाय तवेदं किल दौर्हदम् ॥१४॥ तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् ॥ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ॥ १५ ॥ राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः ॥ सखा परमको विप्रो वाल्मीकिः सुमहायशाः ॥ १६ ॥ पादच्छायामुपागम्य सुखमस्य महात्मनः ॥ उपवासपरैकाग्रा वस त्वं जनकात्मजे ॥ १७ ॥ पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि || श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ रोदनादेर्हेतुमिति शेषः । महीपतेः रामस्य | क्षेममपि | विषये । पौरापवादभीतेन राज्ञा यदादिष्टं तन्मया सुखमपि । न पश्यामि ॥ ८ ॥ यस्मात्त्वमेवं संताप मागतः तस्मात्त्वं नरेन्द्रेणैव शापितोसि । मह्यं मम । आज्ञापयामि । त इति । त्वामित्यर्थः ॥ ९-१० ॥ लोकद्वयमेकान्वयं ॥ त्वत्कृते अपवादं श्रुत्वा स त्वं त्यक्तेत्यन्वयः ॥ ११ ॥ कोयमपवाद इत्यत्राह-न तानीति ॥ यानि वचनानि राज्ञा अम- पत् हृदि न्यस्तानि तानि तवाग्रतो मया न वचनी- यानि वक्कुमशक्यानि । अतएवामर्ष : मया पृष्ठतः कृतः । नोपन्यस्त इत्यर्थः ॥ १२ ॥ तथापि ते तव च ग्राह्यं । नान्यथा नतु त्वयि दोषबुद्ध्येत्यर्थः ||१३|| ततः किमित्यत्राह - आश्रमान्तेष्विति || तदेवं किल दौर्हदं गर्भः | गर्भिण्या अभिलषितमवश्यं कार्य । तस्मादण्याश्रमान्तेषु व्यक्तव्येत्यर्थः ॥ १४-१५ ॥ परमकः परमानुकम्पावान् ॥ १६-१८ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु कुटाख्याने उत्तरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ नियोगस्य सर्वथा कर्तव्यत्वान्नियोगंकरोमीतिशेषः ॥ ५ ॥ स० योराजा अमर्षांपृष्ठतः कोपपराधीनः कृतः । तेनराज्ञायानिवचनानि प्रोफ़ानि तानितवाग्रतः अवचनीयानि अव्यवहार्याणि । इति मयाहृदिन्यस्तानि स्थापितानि | नागोजिभस्तुराज्ञाऽमर्षाद्धृ दिन्यस्तानि तानिहेदेवि तवाग्रतोनवचनीयानि नवकुंशक्यानि | अतएव तेषांवादोमयापृष्ठतः कृतइतिव्याचख्यौ | अस्मत्त व्याख्यानयोर्मध्ये संल मालमत्वे विदां कुर्वन्तु विद्वांसः ॥ १२ ॥ ति० ननुमदीय निर्दोषत्वंराजावंचनजानीथः किंतत्राह — निर्दोषेति । यद्यपित्वंमम संनिघावम्यादिभिर्निर्दोषाख्यापिता । तथापिपौरापवादभीतेनसानिर्दोषापित्वंत्यक्ता । अन्यथा वास्तवदोषबुद्ध्येतितेत्वयानग्राह्यं । यदेवमतः आश्रमान्तेषु आश्रमसमीपेषु । स० आश्रमान्तेषु अनेन तत्रापिनैकपोषकतातस्यसंमतेतिध्वनयति । दौर्हदं गर्भलक्षणं ॥ १४ ॥ सं० परमकः दशरथानुकंपापात्रं । कन्नयमनुकंपायां । दशरथस्यराजत्वा दुपपन्नमिदंमन्तव्यं ॥ १६ ॥ इतिसप्तचत्वारिंशः सर्गः ॥ ४७ ॥