पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४५ ममापि दयितो रामो जीवितादपि लक्ष्मण || न चाहमेवं शोचामि मैवं त्वं बालिशो भव ॥ २८ ॥ तारयस्व च मां गङ्गां दर्शयत्र च तापसान् ॥ ततो मुनिभ्यो दास्यामि वासांस्याभरणानि च ॥ २९॥ ततः कृत्वा महर्षीणां यथावदभिवादनम् ॥ तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ॥ ३० ॥ ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् || त्वरते हि मनो द्रष्टुं रामं रमयतांवरम् ॥ ३१ ॥ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे ॥ नाविकानाडयामास लक्ष्मणः परवीरहा ॥ ३२ ॥ इयं च सज्जा नौवेति दाशा: प्राञ्जलयोऽब्रुवन् || ३३ ॥ तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् ॥ गङ्गां संतारयामास लक्ष्मणस्तां समाहितः ॥ ३४ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पट्चत्वारिंशः सर्गः ॥ ४६ ॥ सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ लक्ष्मणेन सीतायानौकारोपणेन गङ्गोत्तरतीरस्थवाल्मी क्याश्रमसमीपप्रापणेन तस्यांसशोकंरामनियोगनिवेदनम् ॥ १ ॥ अथ नावं सुविस्तीर्णी नैपादीं राघवानुजः || आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ॥ १ ॥ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः ॥ उवाच शोकसंतप्तः प्रयाहीति च नाविकम् ॥ २ ॥ ततस्तीरमुपागम्य भागीरथ्या: स लक्ष्मणः उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसंप्लुतः ॥ ३ ॥ हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता || अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ॥ ४ ॥ श्रेयो हि मरणं मेऽद्य मृत्युर्वा यत्परं भवेत् ॥ न चास्सिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ॥५॥ प्रसीद च न मे पापं कर्तुमर्हसि शोभने || इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ॥ ६ ॥ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः ॥ मैथिली भृशसंविया लक्ष्मणं वाक्यमब्रवीत् ॥ ७ ॥ किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण || पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ॥ ८ ॥ शोकमागतः कञ्चिदित्यन्वयः ॥ २७-३४ ॥ इति संपादितो भवेयं । अस्मिन्निमित्त धीमता सर्वज्ञेन श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूपणे मणिमु- | आर्येण यद्यस्मादहं नियुक्त : तेन हेतुना मे महच्छत्यं कुटख्याने उत्तरकाण्डव्याख्याने षट्चत्वारिंशः हृद्भुतं || ४ || एवं हृच्छयं प्राप्तवतो मे मृत्युः मरणं सर्गः ॥ ४६ ॥ हि वा यत् यदि स्यात् । अद्य तदेव मे परं श्रेयो भवेत् । न चेत्यादि । ईदृशे लक्ष्मणो निर्घृण इति निषादस्य गुहस्येयं नैषादी तां । समायुक्तां सज्जी- लोकनिन्द्ये अस्मिन् वक्ष्यमाणरूपे कार्ये न चाहं कृतां ॥ १ ॥ स्थीयतामिति । गङ्गातीर एवेति शेष: नियोज्योस्मि नियोक्तुमर्होस्मि । तथा विनियुक्तस्य ॥ २ ॥ तीरं दक्षिणतीरमित्यर्थः ॥ ३ ॥ हे वैदेहि कार्यस्य सर्वथैव कर्तव्यत्वादिति शेषः। अतः प्रसी- यस्मिन्निमित्ते यत्कृत्यानुष्ठानतः अहं लोकस्य वचनी- देत्यादि योज्यं ॥ ५–६ ॥ मृत्युं काङ्क्षन्तं | परमहृ- कृतः वचनीयः कृतः । यलोप आर्ष: । निन्द्यः |च्छल्यवशादिति शेषः ॥ ७ ॥ नावगच्छामि एवं स० महच्छत्यं तद्वत् । नकेवलमेतावत् किंतु लोकस्यजमस्य वचनी वचनमस्यास्तीतिवचनी । मतुबर्थोनिन्दा । 'भूम निन्दा- प्रशंसासु' इत्यादेः । वचनवान्कृतः वाच्यः कृतइतियावत् । लोकस्येतिशैषिकीवा कृद्योगलक्षणावाषष्ठी । यत्तुनागोजिभट्टेन वचनीकृतः यलोपआर्षः । वचनीयःकृतः निन्यःकृत इत्युक्तं । तत्र छान्दसत्वमिव 'गर्ह्याधीनौचवक्तव्यौ' 'वक्तव्यंकुत्सि तेही नेवचनार्हेपिवा• च्यवत्’ इत्यमरायुक्तेर्वचनीय शब्दस्यवक्तव्यपदलक्षणाद्वारा निन्द्यार्थोपस्थापकत्वंचकल्पनीय मित्यनृजुत्वादुपेक्ष्यं ॥ ४ ॥ शि०मेम• रणंश्रेयः । यन्मृत्युः तस्मादपिपरंयद्भवेत्तच्छ्रेयोवा | ति० एवंमहच्छत्यंप्राप्तवतोमेयन्मरणं तत्त्रागवस्थामूर्च्छा | मृत्युर्मुख्यंमर पणवायद्भवेत् तत्परंश्रेयोभवेत् । नच नतु ईदृशे लोकनिन्थे अस्मिन्वक्ष्यमाणेकार्ये अहंनियोज्यः नियोक्तुमर्हः भवामि । अथापि राज- बा. रा. २५९