पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः ॥ प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ॥ ६ ॥ त्वया किलैप नृपतिर्वरं वै याचितः प्रभुः ॥ नृपेण च प्रतिज्ञातमाताश्रमं प्रति ॥ ७॥ गङ्गातीरे मया देवि ऋषीणामाश्रमाञ्भान् || शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः ॥ अरण्ये मुनिभिर्जुष्टे अवनेया भविष्यसि ॥ ८ ॥ एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना || ग्रहर्पमतुलं लेभे गमनं चाप्यरोचयत् ॥ ९ ॥ वासांसि च महार्हाणि रत्नानि विविधानि च ॥ गृहीत्वा तानि वैदेही गमनायोपचक्रमे ॥ १० ॥ इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम् || वस्त्राणि च महार्हाणि धनानि विविधानि च ॥११॥ सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् || प्रययौ शीघ्रतुरमै रामस्याज्ञामनुस्मरन् ॥ १२ ॥ अब्रवीच तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् || अशुभानि बहून्येव पश्यामि रघुनन्दन ॥ १३ ॥ नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते ॥ हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ॥ १४ ॥ औत्सुक्यं चापि अभृतिश्च परा मम || शून्यामेव च पृथिवीं पृथुलोचन ॥ १५ ॥ अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल || वश्रूणां चैव मे वीर सर्वासामविशेषतः ॥ १६ ॥ पुरे जनपदे चैव कुशलं प्राणिनामपि || इत्यञ्जलिकृता सीता देवता अभ्ययाचत ॥ १७ ॥ लक्ष्मणोर्थ तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम् || शिवमित्यत्रवीद्धृष्टो हृदयेन विशुष्यता ॥ १८ ॥ • ततो वासमुपागम्य गोमतीतीर आश्रमे || प्रभाते पुनरुत्थाय सौमित्रि: सूतमब्रवीत् ॥ १९ ॥ योजयस्व रथं शीघ्रमद्य भागीरथीजलम् || शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ॥ २० ॥ सोश्वान्रज्ज्वाऽथ चतुरो रथे युङ्क्त्वा मनोजवान् ॥ आरोहस्खेति वैदेहीं सूतः प्राञ्जलिरत्रवीत् २१ सा तु सूतस्य वचनादारुरोह रथोत्तमम् || सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ॥ २२ ॥ आससाद विशालाक्षी गङ्गां पापविनाशिनीम् || अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ॥२३॥ निरीक्ष्य लक्ष्मणो दीनः प्ररुदोद महास्वनः ॥ २४ ॥ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् || उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ॥ २५ ॥ जाह्नवीतीरमासाद्य चिराभिलषितं मम || हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ॥ २६ ॥ नित्यं त्वं रामपार्थेषु वर्तसे पुरुषर्षभ || कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ॥ २७॥ ॥ ४–१३॥ हृदयं मनः || १४ || औत्सुक्यं ॥ १८-१९ ॥ शिरसा धारयिष्यामि त्र्यम्बकः पुण्याश्रमदर्शनविषयजं । शून्यां सुखशून्यां ॥ १५ पर्वते यथेति दृष्टान्ते रुद्रोपि स्नानार्थमेव गङ्गां दधा- —१६ ॥ अञ्जलिकृता कृताञ्जलिः ॥ १७ ॥ तमर्थ- रेति गम्यते ॥ २० – २२ || जलाशयं जलप्रवाहं मिति | दुर्निमित्तरूपं वस्त्वित्यर्थः । हृष्टः हृष्ट इव | ॥ २३ – २६ ॥ पार्श्वेष्विति पूजायां बहुवचनं । स० प्रतिज्ञातं प्रेषयिष्यामीति । अहमाज्ञप्तश्च त्वामाश्रमंप्रापयितुमितिशेषः ॥ ७ ॥ स० अवनेया रथादवतार्यप्रापणीया ॥ ८ ॥ ति० तथेत्युक्त्वा यथेष्टंप्रयच्छेत्युक्ता ॥ १२ ॥ ति० नयनं दक्षिणं ॥ १४ ॥ स० अर्थ निवृत्तिप्रायफलकमपशकुनं । शिवं तत्सर्वमङ्गलं मङ्गलदेव्यास्त वेतिभावः | धृष्टः राज्ञआज्ञातोधीरः । वृष्टः सइववा ॥१८॥ स० त्रियंबकइत्यत्रयणागमः 'स्त्रिया- दिकं' इत्यादिवत् । पर्वतत्र्यंबको यथेत्यपिक्वचित्पाठः । तत्रनिदर्शनद्वयं । पर्वतोहिमवान् ॥ २० ॥ स० विचारयित्वा अपरि- मार्जनादिविचारंकृत्वा । आरोहख आरोह । शि० रथेयुक्तानश्वान्विचारयित्वा अतिचाञ्चल्यस्यकिञ्चिनिवृत्तयेइतस्ततः संचाल्य आरोहखेतिवैदेहीमब्रवीत् ॥ २१ ॥ इतिषट्चत्वारिंशः सर्गः ॥ ४६ ॥ [ पा० १ ख. ङ. च. स. न. त्रियंबकइवौजसा २ झ न. ट. सोश्वान्विचारयित्वातु.