पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४३ नं चास्मिन्प्रतिवक्तव्यः सीतां प्रति कथंचन ॥ तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ॥१९॥ अप्रीतिर्हि परा मह्यं त्वयैतत्प्रतिवारिते ॥ शापिता हि मया यूयं भुजाभ्यां जीवितेन च ॥ २० ॥ ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन | अहिता नाम ते नित्यं मदभीष्टविघातनात् ॥ २१ ॥ मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः ॥ इतोद्य नीयतां सीता कुरुष्व वचनं मम ॥ २२ ॥ पूर्वमुक्तोऽहमनया गङ्गातीरेऽहमाश्रमान् || पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ॥ २३ ॥ एवमुक्त्वा तु काकुत्स्थो वाष्पेण पिहिताननः ॥ ग्रॅविवेश स धर्मात्मा भ्रातृभिः परिवारितः ||२४|| शोकसंलग्रहृदयो निशश्वास यथा द्विपः ॥ २५ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ षट्चत्वारिंशः सर्गः ॥ ४६ ॥ लक्ष्मणेन सीतांप्रति वननयनायरामे तत्प्रार्थनास्मारणेन वनगमनायसजीभवनचोदना ॥ १ ॥ सीतया हर्षान्मुनिपत्नी- भ्योदित्सया नानावसनाभरणाद्यादाने नसुमन्त्रानीतरथारोहणम् ॥ २ ॥ लक्ष्मणेन सीतासुमन्त्राभ्यांसहगङ्गातीरमेत्य नाविकान्प्रतिनौकानयनचोदना ॥ ३ ॥ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः ॥ सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ॥ १ ॥ सारथे तुरगाशीघ्रं योजयस्त्र रथोत्तमे || स्वास्तीर्ण राजभवनात्सीतायाश्चासनं कुरु ॥ २ ॥ सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् || मया नेया महर्षीणां शीघ्रमानीयतां रथः ॥ ३ ॥ सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः ॥ रथं सुरुचिरप्रख्यं स्वास्तीर्ण सुखशय्यया ॥ ४ ॥ आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् || रथोऽयं समनुप्राप्तो यत्कार्य क्रियतां प्रभो ॥ ५ ॥ इत्यादि ।। १७–१९ ।। मह्यं मम | भुजाभ्यामिति | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वीरवचनं ॥ २० ॥ वाक्यान्तरे अस्मद्वाक्यमध्ये | मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चचत्वा- अनुनेतुं ये ब्रूयुस्ते शापिता इति पूर्वेणान्वयः ||२१|| रिंशः सर्गः ॥ ४५ ॥ फलितमाह - मानयन्त्विति ||२२|| कथमिदं नृशंसत्वं सोढुं शक्यमित्यत्राह - पूर्वमित्यादि || संवर्यतां अनु- स्वास्तीर्णमिति । सीतायाश्च शुभमासनं राजभव ष्ठीयतां ॥ २३ ॥ भ्रातृभिः परिवारितः प्रविवेशेति । नादानीय स्वास्तीर्ण रथं कुरु ॥ २ ॥ कुत इत्यत्राह- भ्रातॄन् विसृज्य स्ववेश्म प्रविवेशेत्यर्थः ॥ २४ – २५|| सीता हीत्यादि ॥ ३ ॥ सुरुचिरप्रख्यं सुन्दरशोभं ति० सीतांप्रति सीतापरित्यागमुद्दिश्य ॥ १९ ॥ ति० मह्यं मम । एतत्प्रतिवारिते एतस्यप्रतिवारणेइत्यर्थः । स० यूयंमया पादाभ्यांजीवितेनचशापिताः पादौसाक्षिणौ प्राणाः साक्षिणइतिस्थापितशपथाः । भुजाभ्यामितिक्वचित्पाठः । तत्रक्षत्रियाणां शपथविषये आयुधोपालंभनादेर्विधानाद्रामस्यधनुर्बाणप्रेमोपेतत्वात्तद्धारणस्यशयद्वयसाध्यत्वाद्भुजाभ्यामित्युक्तिर्युक्ततिमन्तव्यं । ‘भुजःपाणौचबाहौच’ इतिविश्वः । 'भुजाभ्यामितिपाठेपि पादाभ्यामित्येवार्थः' इतिवदन्नागोजिभट्टः 'यदिहिप्रत्ययमनुत्पाद्यएको ऽयंभूमध्यप्रदेशइतिब्रूयात्तदापरोपि किनब्रूयात् परस्ताद्वितस्तेरिति' इत्यादिधाटीमाटीकतेतिज्ञेयं ॥ २० ॥ ति० ये वाक्यान्तरे अस्मद्वाक्यमध्ये मामनुनेतुंब्रूयुः ते मदभीष्टविघातनान्नित्यं ममाहितानाम अहिताइतिप्रसिद्धं ॥ २१ ॥ स० प्रतिकूलालापाकरणे सुमुखीकर्ते भवन्तोमांमानयन्त्विति बहुवचनेन त्रिकपुरस्कृतिः । एकस्यलक्ष्मणस्यैव सहसीतयागमनानुशासनात्कुरुष्ववचन मित्येक- वचनंचयुज्यते ॥ २२ ॥ ति० भ्रातृभिः परिवारितः प्रविवेश तान्विसृज्यस्व वेश्मेतिशेषः ॥ २४ ॥ स० निशश्वास लोकदृष्ट्या ॥ २५ ॥ इतिपञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ २ ङ. झ. ज. ट. संविवेश. क. ख. सभांविवेशधर्मात्मा. ३ क. ग. घ. ङ. [ पा० ] १ क-ट. नचास्मिप्रति • ज-ट. राजवचनात्सीतायाश्चासनंशुभं.