पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा || पौराणां मम सीतायां यादृशी वर्तते कथा ॥ २ ॥ पौरापवादः सुमहांस्तथा जनपदस्य च || वर्तते मयि बीभत्सा सा मे मर्माणि कृन्तति ॥ ३ ॥ अहं किल कुले जात इक्ष्वाक्रूणां महात्मनाम् || सीताऽपि सत्कुले जाता जनकानां महात्मनाम् ॥४॥ जानासि त्वं यथा सौम्य दण्डके विजने वने ॥ रावणेन हता सीता स च विध्वंसितो मया ||५|| तत्र मे बुद्धिरुत्पन्ना जनकस्य सुतां प्रति । अत्रोषितामिमां सीतामानयेयं कथं पुरीम् ॥ ६ ॥ प्रत्ययार्थी ततः सीता विवेश ज्वलनं तदा || प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः ॥ अपापां मैथिलीमाह वायुश्चाकाशगोचरः ॥ ७ ॥ चन्द्रादित्यौ च शंसेते सुराणां सन्निधौ पुरा ॥ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् ॥ ८ ॥ एवं शुद्धसमाचारा देवगन्धर्वसन्निधौ || लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता ॥ ९ ॥ अन्तरा च मे वेत्ति सीतां शुद्धां यशस्विनीम् ॥ ततो गृहीत्वा वैदेहीमयोध्यामहमागतः ॥१०॥ अयं तु मे महान्वादः शोकच हृदि वर्तते ॥ पौरापवादः सुमहांस्तथा जनपदस्य च ॥ ११ ॥ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् || पतत्येवाघमाँल्लोकान्यावच्छन्दः प्रकीर्त्यते ॥ १२ ॥ अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते || कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥ १३ ॥ अप्यहं जीवितं जहां युष्मान्वा पुरुषर्षभाः || अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् ॥ १४ ॥ तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे || न हि पश्याम्यहं भूतं किंचिद्दुः खमतोऽधिकम् ॥१५॥ श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् || आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥ १६ ॥ गङ्गायास्तु परे पारे वाल्मीकेस्तु महात्मनः ॥ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः ॥ १७ ॥ तत्रैनां विजने देशे विसृज्य रघुनन्दन || शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ॥ १८ ॥ णामित्यादि । सीतायां विषये यादृशी कथा वर्तते | तच्छ्रवणादिति शेषः | कोयं बाद इत्यत्राह - पौरे- तां कथां मत्सकाशात् शृणुतेत्यन्वयः ॥ २ ॥ का कथा त्यादि ॥ ११ ॥ भूतस्य प्राणिनः | शब्दः अकीर्ति- वर्तत इत्यत्राह - पौरापवाद इत्यादि || मयि मद्विषये बीभत्सा कुत्सा वर्तते सा मम सर्वमर्माणि कृन्तति ॥३ - १०॥ महान्वाद इति । वर्तत इति शेषः । शोकश्चेति । बोधकः ॥ १२–१४ ॥ भूतं उत्पन्नं ॥ १५ ॥ विप- | यान्ते स्वदेशाद्वहिः ॥ १६ ॥ तं विशेषयति गङ्गाया स० पौरापवादः पौरकृतदुर्यशोवादः । तथाजनपदस्य देशस्य । चचापवादपदानुकर्षकः । याबीभत्सा कुत्सापौरादिकृता । सामयिमेमर्माणि कृन्तति । हखान्तोपिकृतिधातुरस्ति । तस्येदंरूपं ॥ ३ ॥ स० त्रयाणामप्येकान्तेसत्त्वेपिप्रात्यक्षिकानुभवो लक्ष्मणस्यैवेतितमेवलक्षीकृत्याहेत्याह-जानासीति ॥ शि० शुद्धवशोत्पन्नत्वेनस्वशुद्धिमुक्त्वा कर्मणा पिस्वशुद्धिंबोधयितुमाह - जानासीति । दण्डकेवने यथासीताहृता रावणश्चमयाविध्वंसितः तथावंजानासि | धर्मपूर्वकमेव सर्वंकृतमितितात्पर्यं ॥ ५ ॥ ति० कथमानयेयं नकथमपि ॥ स० तत्र लङ्कायां । अत्र मद्देशे । तथापिपुरीं अयोध्यांकथमानयेयमितितांप्रतिबुद्धिरुत्पन्ना । परपुरुषकरस्पर्शादितिभावः ॥ ६ ॥ ति० सीतायाअपापतांप्रख्यापयतिभ्रातृभ्यः प्रत्ययार्थमिति । देवानां संनिधावितिशेषः ॥ स० प्रत्ययार्थं आत्मशुद्धौविश्वासार्थे । देवानांतवचप्रत्यक्षं । अपापां परपुरुषसंसर्गपापशून्यां ॥ ७ ॥ स० बहुसाक्षिकतयापा • तित्रत्यंनिश्चितमिति बहु कीर्तनं ॥ ८ ॥ ति० लङ्काद्वीपेमहेन्द्रेणेति । 'लङ्काद्वीपेतदाग्निना' इतिपाठान्तरं ॥ ९ ॥ स० सर्वापेक्षया ऽधिकःसाक्षीममाप्यस्तीत्याह - अन्तरात्मेति ॥ १० ॥ स० ततःबहुसंवादान्ममसाक्षिणश्च ॥ ११ ॥ स० अकीर्तिः अपयशः । कीर्तिःपूज्यते । तेनतद्वन्तोलक्ष्यन्ते । अकीर्तिरित्यत्रबहुव्रीहिर्वा ॥ १३ ॥ स० पुरुषर्षभाः अनेनकियदिदमायताक्ष्याः कुलान्त- रप्रभवायाहानमितिसूचयति । अपवादभयाद्भीतइतिपदमेकं । अपवादभयमातयन्तिते अपवादभयातः । तेभ्योभीतः । बहुल- ग्रहणात्विपू । आतयन्तीत्यांतः । अपवादभयस्यातइतिवा ॥ १४ ॥ ति० शोकसागरे अकीर्तिजे ॥ १५ ॥ ति० परेपारे गङ्गोल्लङ्घनलभ्येपारे । ति० तमसा संज्ञनदीद्वयं | अयोध्यासमीपेगङ्गार्वाक्तत्परपारेच | दिव्यसंकाशः दिव्यदेशसदृशः ॥ १७ ॥ [ पा० ] १ क-ट. सौमित्रेकुरुष्व. N है