पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । AAPASS उत्पपातासनात्तूर्ण पद्भ्यामेव ययौ बली ॥ दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ ८ ॥ शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह || एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ ९ ॥ गतो हि लक्ष्मण: पूर्व भरतश्च महायशाः ॥ श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् || शिरसा धरणीं प्राप्य प्रययौ यत्र राघवः ॥ १० ॥ द्वास्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः || निवेदयामास तदा भ्रातृन्स्वान्समुपस्थितान् ॥११॥ कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः ॥ अवाङ्मुखो दीनमना द्वास्थं वचनमब्रवीत् ||१२|| प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः ॥ एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ १३ ॥ आज्ञप्तास्तु नरेन्द्रेण कुमाराः शैऋतेजसः ॥ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ १४ ॥ • तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा ॥ सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ १५ ॥ बाष्पपूर्ण च नयने दृष्ट्वा रामस्य धीमतः ॥ हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ १६ ॥ [ किमेतदिति रामस्य चिन्ताव्याकुलचेतसः ॥ व्यथिताः शुष्कवदनाः प्रविश्य रघुनन्दूनाः ॥१७॥ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः ॥ तस्थुः समाहिताः सर्वे रामस्वश्रूण्यवर्तयत् ||१८|| तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः ॥ आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ||१९|| भवन्तो मम सर्वस्वं भवन्तो जीवितं मम ॥ भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ २० ॥ भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः ॥ संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ २१ ॥ तथा वदति काकुत्स्थे ह्यवधानपरायणाः || उद्विग्नमनसः सर्वे किंतु राजाऽभिधास्यति ॥ २२ ॥ इत्यापें श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ १४१ पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ रामेण भ्रातृपुसीताविषयक लोकापवाद निवेद ने नलक्ष्मणप्रति स्वंप्रतिसीतायाः स्वस्यमुन्याश्रमनयनप्रार्थना निवेदन पूर्व कं परेधुः प्रभाते गङ्गातीरस्थवाल्मीक्याश्रमसमीपे सीता विसर्जनचोदना ॥ १ ॥ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम् || उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता ॥ १ ॥ शेषः ।। ६–७ ।। उत्पपात उत्थाय जगाम ॥ ८- | राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने १० ॥ शिरसा धरणीं प्राप्य रामाय वन्दित्वेत्यर्थः उत्तरकाण्डव्याख्याने चतुञ्चत्वारिंशः सर्गः ॥ ४४ ॥ ॥ ११-१२ ॥ मह्यं ममेत्यर्थः ॥ १३-१४॥ सहं सोपरागं ॥ १५-२० ॥ कृतशास्त्रार्था: मा कुरुध्वं मनोन्यथा । सदभिप्रायाननुकूलं मा अनुष्ठितशास्त्रार्थाः ॥ २१ – २२ ॥ इति श्रीगोविन्द कुरुध्वमित्यर्थः । तमेवाभिप्रायमाविष्करोति-पौरा- स० पद्भ्यां यानागमनविलंबभिया ॥ ८ ॥ स० एह्यागच्छेति उभौ भ्रातरौगतौ नत्वयाविलंबोऽवलंबनीय इतिसूचयति शि० राजावांद्रष्टुमिच्छति इत्येहि जानीहि । अतआगच्छ । गत्यर्थानां ज्ञानार्थत्वंप्रसिद्धमेव ॥ ९ ॥ ति० मह्यं मम । जीवितमेतेषु स्थितमितिशेषः ॥ स० प्राणायथातथाप्रियाः ॥ १३ ॥ स० हृतशोभं नीहारादिना ॥ १६ ॥ ति० भवद्भिः कृतंसंपादितं ॥ २० ॥ स० कृतशास्त्रार्थाः शिक्षितशास्त्रार्थाः । अन्वेष्टव्यः विचारणीयः ॥ ति० अन्वेष्टव्यः अनुसरणीयः ॥ २१ ॥ स० राजाकिंन्वभिधास्यतीत्युद्विममनसः ॥ २२ ॥ इतिचतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ स० सर्वेषां त्रयाणां ॥ १ ॥ [ पा० ] १ क-~~-ट. वन्द्यधरणीं. २ क-ट. शुक्लवाससः ३ अयंश्लोकः ग. पाठेदृश्यते.