पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कीदृशं हृदये तस्य सीतासंभोगजं सुखम् || अङ्कमारोप्य तु पुरा रावणेन बलाद्धृताम् ॥ १७॥ लङ्कामपि पुरा नीतामशोकवनिकां गताम् || रक्षसां वशमापन्नां कथं रामो न कुत्सते ॥ १८ ॥ अस्माकमपि दारेषु सहनीयं भविष्यति ॥ यथा हि कुरुते राजा प्रजा तमनुवर्तते ॥ १९ ॥ एवं बहुविधा वाचो वदन्ति पुरवासिनः ॥ नगरेषु च सर्वेषु राजञ्जनपदेषु च ॥ २० ॥ तस्यैवं भाषितं श्रुत्वा राघवः परमार्तवत् || उवाच सुहृदः सर्वान्कैथमेतद्रवीथ माम् ॥ २१ ॥ सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च || प्रत्यूचू राघवं दीनमेवमेतन्न संशयः ॥ २२ ॥ श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम् || विसर्जयामास तदा वयस्याञ्छत्रुसूदनः ॥ २३ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ तु चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥ रामेण सभायां सर्वजनविसर्जनपूर्वकं आतृपुपौरापवाद निवेदनेच्छया दूतंप्रति तदानयनचोदना ॥ १ ॥ दूताहूतैर्ल- क्ष्मणादिभिः सत्वरंरामसमीपमेत्य तन्मुखवैवर्ण्य निर्वर्णनेन विषण्णतया सप्रणाममुपवेशनम् ॥ २ ॥ विसृज्य तु सुहृद्वर्ग बुद्धया निश्चित्य राघवः ॥ समीपे द्वास्थमासीनमिदं वचनमब्रवीत् ॥ १ ॥ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम् || भरतं च महाभागं शत्रुमपराजितम् ॥ २ ॥ रामस्य वचनं श्रुत्वा द्वास्थो मूर्ध्नि कृताञ्जलिः ॥ लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ ३ ॥ उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः ॥ द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ ४ ॥ वाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम् || [ उत्पपातासनात्तूर्ण महाबाहुररिंदमः ॥ ] प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ ५ ॥ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वास्थो भरतमन्तिकात् ॥ उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ ६ ॥ विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति ॥ भरतस्तु वचः श्रुत्वा द्वास्थाद्रामसमीरितम् ॥ ७ ॥ जातममर्षं रावणस्पर्शजं पृष्ठतः कृत्वा विसृज्येत्यर्थः | | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ १६ ॥ कीदृशं कुत्सितमेवेत्यर्थः । तत्र हेतुः अङ्क- मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने त्रिचत्वारिंशः मित्यादि । १७-१८ ॥ सहनीयमिति । एवं कश्म- सर्गः ॥ ४३ ॥ लमित्यर्थः ॥ १९–२० ॥ परमार्तवत् परमदुःखी भूत्वा । सर्वान् सुहृद् इति । भद्रव्यतिरिक्तानित्यर्थः । निश्चियेति । कर्तव्यमिति शेषः ॥ १-३ ॥ कथमेतदिति । भद्रोक्तमेतत् अपयशोवचनं कथं वर्धयित्वेति । जयाशिषेति शेषः । मा चिरं विलम्बो तत्त्वमतत्त्वंवेति भवद्भिश्च निवेद्यतामित्यर्थः ॥ २१ ॥ मा भूत् ॥ ४५ ॥ भरतमन्तिकात् भरतस्यान्ति- एवमेतत् यथा भद्रेणोक्तं एतत्तत्त्वमेव || २२ - २३|| | कमित्यर्थः । गत्वेति शेषः | कृताञ्जलिः । भरतायेति स० पुनर्विवाहान्तरकरणाश तनिर्धनमान ववत्सीतासंभोगजं सुखं कीदृर्शनकुत्सति नजुगुप्सते ॥ १८ ॥ स० एतदेवमितिदेवं प्रत्यूचुस्तद्धृदयज्ञाः सुहृदइतिभावः ॥ २२ ॥ स० वयस्यविसर्जनमाप्तैः सहसंमन्त्रणायेतिज्ञेयं ॥ २३ ॥ इतित्रिचत्वारिंशः सर्गः ॥ ४३ ॥ स० अनिवारितः भूपसमीपादागमनात् ॥ ३ ॥ [ पा० ] १ झ -- ठ. कुत्सति २ ङ. झ ञ कथमेतद्वदन्तुर्मा. क-घ. ज. कथमेतन्निवेद्यतां. पाठेश्यते. ३ इदम क.