पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ कदाचनरामेण सभायां कथाप्रसङ्गेनचारंप्रति पौरपुस्त्रविषयकशुभाशुभवार्ता निवेदन चोदने भीतभीतेनतेन रावणापहृत- सीतापुनरानयनप्रकारकपौरजनकुत्सन निवेदनम् ॥ १ ॥ सर्गः ४३ ] १३९ तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः ॥ कथानां बहुरूपाणां हास्यकाराः समन्ततः ॥ १ ॥ विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुटः ॥ सुराजः कालियो भद्रो दन्तवः सुमागधः || २ || एते कथा बहुविधाः परिहाससमन्विताः ॥ कथयन्ति स संहृष्टा राघवस्य महात्मनः ॥ ३ ॥ ततः कथायां कस्यांचिद्राघवः समभाषत || काः कथा नगरे भद्र वर्तन्ते विषयेषु च ॥ ४ ॥ मामाश्रितानि कान्याहुः पौरजानपदा जनाः ॥ किंच सीतां समाश्रित्य भरतं किंच लक्ष्मणम् ॥५॥ किंतु शत्रुतमुद्दिश्य कैकेयीं किंनु मातरम् ॥ वक्तव्यतां च राजानो वरे राज्ये व्रजन्ति च ॥ ६ ॥ एवमुक्ते तु रामेण भद्रः प्राञ्जलिरत्रवीत् || स्थिताः कथा: शुभा राजन्वर्तन्ते पुरवासिनाम् ॥ ७ ॥ अमुं तु विजयं सौम्य दशग्रीववधार्जितम् ॥ भूयिष्ठं स्खपुरे पौरैः कथ्यन्ते पुरुषर्षभ ॥ ८ ॥ एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ॥ कथयस्व यथातत्वं सर्व निरवशेषतः ॥ ९ ॥ शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः ॥ श्रुत्वेदानीं शुभं कुर्या न कुर्यामशुभानि च ॥१०॥ कथयस्व च विस्रब्धो निर्भयं विगतज्वरः || कथयन्ति यथा पौराः पापा जनपदेषु च ॥ ११ ॥ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः ॥ प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः ॥ १२ ॥ शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम् || चत्वरापणरथ्यासु वनेषूपवनेषु च ॥ १३ ॥ दुष्करं कृतवान्राम: समुद्रे सेतुबन्धनम् || अश्रुतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥ १४ ॥ रावणश्च दुराधर्षो हतः सबलवाहनः || वानराच वशं नीता ऋक्षाथ सह राक्षसैः ॥ १५ ॥ हत्वा च रावणं सङ्ख्ये सीतामाहत्य राघवः ॥ अमर्ष पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् ॥ १६ ॥ विषयेषु देशेषु ।। ४—५ ।। वक्तव्यतां च राजानो | राजानो वक्तव्यतां सम्यगसम्यग्वा कीर्तनीयतां नवे राज्ये व्रजन्ति हीति च पाठः । नवे राज्ये सति | व्रजन्ति हि ॥ ६-१५ ।। सीतामाहृत्य तदनन्तर- स० उपासन्ते उपासते | धावन्तरस्येदंरूपंवा ॥ १ ॥ स० कथाः अतीतवार्ताः ॥ ३ ॥ ति० विषयेषुदेशेष्वितिसामा- न्यतःप्रश्नः ॥ स० भद्रेत्येक मप्रथमंप्रत्युक्तिर्वार्तावित्तयेतस्यैवप्रस्थापनात् ॥ ४ ॥ ति० विशिष्यपृच्छति | मामाश्रितानिकान वाक्यान्याहुः ॥ ५ ॥ ति० दूतमुखेन स्वदेशवृत्तान्ताज्ञानेराजानः सर्वजननिन्दाद्वारानरकं प्राप्नुवन्तीत्याशयेनाह - वक्तव्यतांचेति । वने तापसाश्रमे । राज्येच धर्मादिविचारहीनाराजानोवक्तव्यतां सर्वजनकृतदुर्भाषणविषयतां । व्रजन्ति ॥ स० सवैज्ञोप्यज्ञव- द्भृगुमुखतापसशापंतद्दययायथार्थंचिकीर्षुःसीता वियोगंलोकरीत्येच्छन्नेवजनपदजनपुरजन वृत्तान्तं पृच्छतिराम इतिभावः ॥ ति० गृहीतमनुष्यरूपतयाव्यवहारानुसारेणलोकनिन्धंसदपिकर्मत्याज्य मितिबोधनायपृच्छतीतिबोध्यं ॥ ६ ॥ ति० विजयमिति । उद्दि- श्येतिशेषः । कथ्यन्ते वार्ता इतिशेषः ॥ ८ ॥ स० निरवशेषतः दाक्षिण्यत्यागेनेतिभावः ॥ ९ ॥ स० शुभं पराविरोधि । अशुभानि पराहितानि ॥ शि० श्रुत्वा शुभं तत्संमतकार्यमित्यर्थः ॥ ति० नन्वशुभश्रवणे किं प्रयोजनंतत्राह - शुभेत्यादि ॥१०॥ ति० ननुराजसमक्षमशुभवाक्यकथनमशक्यमित्यतआह — कथयस्वेति । निर्भयं विस्रब्धः ममकिंरामोवदिष्यतीतिभयशून्यं वि- श्वस्तः । विगतज्वरःएवमशुभंकथंवाच्यमितिमनस्संतापशून्यः | पापाः पापानि ॥ ११ ॥ स० शुभाशुभं 'सर्वोद्वन्द्वः -' इत्ये- कवद्भावउत्तरपदलोपीवासमासः ॥ १३॥ स० दुष्करं इतरासाध्यं ॥ ति० पूर्वकैः राजभिर्देवैरपिकृतमित्यश्रुतं अश्रुपूर्व ॥१४॥ ति० पृष्ठतः कृत्वा विस्मृत्येत्यर्थः ॥ स० अमर्षे परपुरुषसंस्पर्शजं पृष्ठतः कृत्वा अलक्षीकृत्य | ललनालौलुप्यादितिभावः ॥ १६ ॥ [ पा० ] १ झ वने. २ ङ. झ. कान्याहुः