पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वास्मीकिरामायणम् । [ उत्तरकाण्डम् ७ ॥ दश वर्षसहस्राणि गतानि सुमहात्मनोः ॥ प्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ २९ ॥ पूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् || शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ ३० ॥ सीताऽपि देवकार्याणि कृत्वा पौर्वाहिकानि वै ॥ श्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ ३१ ॥ अभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा || त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ ३२ ॥ दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् || प्रहर्षमतुलं लेभे साधुसाध्विति चात्रवीत् || अब्रवीच वरारोहां सीतां सुरसुतोपमाम् ॥ ३३ ॥ अपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ ३४ ॥ स्मितं कृत्वा तु वैदेही रामं वाक्यमथात्रवीत् || तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ ३५ ॥ गङ्गातीरोपविष्टानामृपीणामुग्रतेजसाम् || फलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ ३६ ॥ एष मे परमः कामो यन्मूलफलभोजिनाम् || अप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ ३७॥ तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा || विस्रब्धा भव वैदेहि श्रो गमिष्यस्यसंशयम् ॥ ३८ ॥ एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् || मध्यकक्ष्यान्तरं रामो निर्जगाम सुहृद्वृतः ॥३९॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२ ॥ चाभिषेकानन्तरं वर्षद्वयं जातं ॥ २८-२९ ॥ शेषं | प्रति नेष्यतीति शङ्कां मा कुर्वेत्यर्थः ॥ ३८-३९ ॥ दिवसभागार्ध अपराह्न इत्यर्थः ॥ ३०–३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे अपत्येति । ममायमपत्यलाभस्त्वयि समुपस्थितः । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्विचत्वारिंशः तव गर्भलक्षणं दृश्यत इत्यर्थः ॥ ३४-३७ ॥ सर्गः ॥ ४२ ॥ विस्रब्धा भव । महाराजो महिषीं मां कथमाश्रमं ति० 'दशवर्षसहस्राणिगतानिसुमहात्मनोः' इतिप्रक्षिप्तमितिगम्यते । 'मानिषादप्रतिष्ठांत्वमगमः शाश्वतीः समाः' इतिवाल्मी- किशापाच सीतात्यागोत्तरमश्वमेधप्रवृत्त्यातदन्ते 'दशवर्षसहस्त्राणिवाजिमेधानथाकरोत्' इतिवाल्मीक्युक्तेश्च ॥ यद्वा वर्षशब्दोदि- नपरः । विवाहोत्तरंतावन्तिगतानि । द्वादशादधिकमयोध्यायां । चतुर्दशवने । एकंपुनरयोध्यायामित्येवं किंचिदधिकसप्तविंशति- र्गतानीतिबोध्यं । पूर्वाह्नेद्विधाभागेनेदं । तदाह —— शेषंदिवसभागार्धमिति । अवशिष्टमर्धमित्यर्थः ॥ शिo शिशिरेआगमः अत्यन्त प्राप्तिर्यस्यसभोगःयदाऽतीतःतदा विविधान्भोगान्प्राप्तयोः सीतारामयोः दशवर्षसहस्राणि त्रिंशद्वर्षसहस्राणीत्यर्थः । गतानि । एतेन सहस्रत्रयवर्षाणियज्ञार्थमवशिष्टानीतिफलितं ॥ ' त्रयोदशाब्दसाहस्र मितिभागवतेनतुन विरोधः । तत्रत्रयोदशप- रिमितवर्षाणिअब्दसहस्रंचेत्यर्थः । न्यूनतादोषस्तु न तत्रदीक्षा ग्रहणावधिकयागसमाप्तिकालपरिमाणबोधनस्यैव विवक्षितत्वात् । अत्रतुसामग्रीसंपादनादिकाल परिमाणबोधकत्वमितिदिक् ॥ २९ ॥ स० अविशेषतइत्यनेन सीतायाअमात्सर्यद्योतयति ॥ ३१ ॥ ति० किंकामः किंविषयोमनोरथः ॥ स० हेवरारोहे किमिच्छसि । तवकिंक्रियतां | यत्रतवस्पृहातत्रैवममस्पृहाचेन्मो- घाममयाचनेत्यतः खस्थितिमाह - अकामइति । अहमकामः अविषयेच्छः ॥ ३४ ॥ ति० रिमतंकृत्वा खावतारकृत्यंपूर्णमिति ब्राह्मणशापस्य सत्यत्व करणौचित्यंचहासेनसूचितं ॥ ३५ ॥ स० फलमूलाशिनां वृक्षसंबन्धिफलमूलभोजिनां ॥३६॥ स० मूलफलभोजिनां मूलफलंमोक्षः तत्सुखभोजिनां ॥ ति० अप्येकरात्रमित्यनेनचिरकालवासमनोरथोध्वनितः ॥ ३७ ॥ इति द्विचत्वारिंशः सर्गः ॥ ४२ ॥ [ पा० ] १ ख. ग. ज. पौरकृत्यानिकृत्वा क. पौरकार्याणि २ ङ. झ ञ. त्वय्ययंसमुपस्थितः क. ग. ज. ममायं समुपस्थितः ख• मामयं समुपस्थितः घ. ममायंत्वय्युपस्थितः ३ क— घ. ज. किमिच्छसि हितब्रू हिकिंकर्तव्यं मयातव. ४ क - घ. ज. प्रहसन्तीतुवैदेहीरामं.