पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । फुलपझोपलवनाचक्रवाकोपशोभिताः ॥ दांत्यूहशुकसंघुष्टा हंससारसनादिताः ॥ १३ ॥ तरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥ १४ ॥ तत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ शाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् ॥ १५ ॥ तत्र संघर्षजातानां वृक्षाणां पुष्पशालिनाम् || प्रस्तराः पुष्पशवला नभस्तारागणैरिव ॥ १६ ॥ नन्दनं हि यथेन्द्रस्य ब्रह्मिं चैत्ररथं यथा ॥ तथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ १७ ॥ [ नीलॅवैदूर्यवर्णाश्च पद्मिन्यो बहुविस्तराः || हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः] ॥ १८ ॥ बहासनगृहोपेतां लतागृहसमावृताम् || अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ १९ ॥ आसने च शुभाकारे पुष्पप्रकरभूषिते || कुंथास्तरणसंवीते रामः सन्निपसाद ह ॥ २० ॥ सीतामादाय हस्तेन मधु मैरेयकं शुचि ॥ पाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ २१ ॥ मांसानि च समृष्टानि फलानि विविधानि च ॥ रामस्याभ्यवहारार्थ किंकरास्तूर्णमाहरन् ॥ २२ ॥ उपानृत्यंश्च राजानं नृत्तगीतविशारदाः ॥ बालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ २३ ॥ [ अप्सरोगणसङ्घाश्च किन्नरीपरिवारिताः ॥ दक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः || उपानृत्यन्त काकुत्स्थं नृत्तगीतविशारदाः ॥ २४ ॥] मनोभिरामा रामास्ता रामो रमयतांवरः ॥ रमयामास धर्मात्मा नित्यं परमभूषितः ॥ २५ ॥ स तया सीतया सार्धमासीनो विरराज ह || अरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ २६ ॥ एवं रामो मुदा युक्तः सीतां सुरसुतोषमाम् || रमयामास वैदेहीमहन्यहनि देववत् ॥ २७ ॥ तथा तयोर्विहरतोः सीताराघवयोश्विरम् ॥ अत्यकामच्छुभ: काल : " शिशिरो भोगदः सदा ॥ २८ ॥ १३७ अन्यथा सर्वत्रान्तरे स्फटिककुट्टिमवे पद्माद्युत्पत्ति | || २० || मैरेयकं धातकीगुडमिश्रवारिभिः कृतं विरोधात् ॥ १२-१४ ॥ परमोपेतां अत्यन्तसंयुक्तां मद्यं । “ मैरेयमासवे धात्रीधातकीगुडवारिभिः” इति ॥ १५ ॥ संघर्षजातानां स्पर्धयैव जातानां । जातपु- वैजयन्ती ॥ २१–२२ ॥ उपानृत्यन्निति । उपनृ- पाणामित्यर्थः । प्रस्तरा: वृक्षमूलेषु शयनाथै त्यन्तीति वा पाठ: । राजानमिति । राजानमुप स्थापिता: ऋक्ष्णशिलाः ॥ १६ ॥ ब्राह्मं ब्रह्मनिर्मितं । राज्ञः समीपे । पानवशं पानजमदवशं ॥ २३- सन्निवेशनं समीचीनसंस्थानोपेतं ॥ १७-१८ ॥ २७ ॥ शिशिरः शुभोत्यकामदिति । पुनश्च संवत्स- बासनगृहोपेतां । अनेकावस्थानयोग्यगृहोपेता- रोतीत इत्यर्थः । वानरादिसुहृत्संल्लापादिना क्रीडाव- मित्यर्थः । लतागृहसमावृतां लतामयगृहसमा- सराभावात्तैः सह एकसंवत्सरो गतः । तद्विसर्जना- वृतां ॥ १९ ॥ कुथास्तरणसंवीते उपर्यास्तरणावृते नन्तरं क्रीडया पुनरेक: संवत्सरो गतः । तथा शि० माल्यानि मालाभ्योहितानिपुष्पाणि । सन्तीतिशेषः ॥ ११ ॥ स० शाद्वलैः करणैः परमोपेतां बहुसंपदुपेतां ॥ १५ ॥ स० ब्राह्मं चैत्ररथं तपोलब्धंकुबेरवनं । संनिवेशनं समीचीनस्थानोपेतं सतांवसिष्ठादीनांजपार्थनिवेशनोपेतंवा ॥ १७ ॥ बह्वा- सनगृहोपेतां बहुभिरासनैर्गृहैश्चोपेतां । लतासनसमावृतां तदन्तर्गतासनोपेतां ॥ १९ ॥ स० कुशास्तरणं कुशवजलवन्निर्मलं मृदुचास्तरणं उपरितनवस्त्रं । तेनसंस्तीर्णे आस्तीर्णे ॥ २० ॥ ति० दक्षिणाः कुशलाः । पानवशंगताः पानजमदवशंगताः । शि० दक्षिणा: दक्षिणदेशोद्भवाः स्त्रियः ॥ २४ ॥ शि० रमयामास परस्परंविहर्तुप्रेरयामास । स० रमयामास वसनभूषणादि- भिस्तोषयामास ॥ २५ ॥ ति० सीताराघवयोश्चिरमित्यनन्तरं 'अत्यक्रामच्छुभःकालःशैशिरोभोगदःसदा ' इत्येवश्लोकः । वानराणांगमनोत्तरंपुनश्चसंवत्सरोती त इतिकतकव्याख्यानात् ॥ २८ ॥ [ पा० ] १ क. ख. ज. नत्यूह. २ क – ट. पुष्पशबलैस्खीरजैः ३ क. ख. घ. ज. द्रुमसंयुतां. ४ च. छ. वनंचैत्ररथं. ५ अयं श्लोकः क. ग. पाठयोर्दृश्यते ६ झ. लतासनसमावृतां. ७ ग. पुष्पस्तबकभूषिते. क. ख. घ. ज. पुष्पस्तबकशोभिते. ८ ङ—ट. कुशास्तरणसंस्तीर्णे. ९ क – घ. ज. सीतांसंगृह्यबाहुभ्यां १० अयंसार्ध श्लोकः ङ. च. छ. झ. ज. ट. पाठेषुदृश्यते. ११ क – घ. ज. तथातुरममाणस्यतस्यैवंशैशिरःशुभः । अत्यकामन्नरेन्द्रस्यराघवस्य महात्मनः १२ ङ. झ ञ ट शैशिरे. वा. रा. २५८