पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ९६ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । अजानतः शयानस्य क्रोधेन कलुषीकृतः ॥ मुक्तवान्मयि शापानिं यमदण्डमिवापरम् ।। १९ ।। तस्मात्तवापि ब्रह्मर्पे चेतनेन विना कृतः || देहं : सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥ इति रोपवशादुओं तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ॥ सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ पपञ्चाशः सर्गः ॥ ५६ ॥ लक्ष्मणेनरामंप्रति विदेहयोर्निमिवसिष्ठयोः पुनर्देहयोगप्रकारप्रश्नः ॥ १ ॥ रामेणतत्कथनारंभः ॥ २ ॥ वसिष्ठेननर्देह- योगाय ब्रह्माणप्रतिप्रार्थने तेनतंप्रति मित्रावरुणरेतःप्रवेशचोदना ॥ ३ ॥ वसिष्टेन ब्रह्मवचनेनवरुणालयगमनम् ॥ ४ ॥ अत्रान्तरे मित्रप्रतिगच्छन्त्याउर्वश्या स्वभोगाभिलापिणंवरुणप्रति स्वस्थतस्मिन्भावनिवेदनेन देहस्यमैत्रीयत्वोक्तौ वरुणेनत- दवलोकनेनस्कन्नस्य स्वतेजसः कुंभेस्थापनम् ॥ ५ ॥ अनन्तरंमित्रेण स्वसमीप मागतामुर्वशींप्रति वरुणाभिलाप दोषाविष्कर- णेन मानुपस्यपुरूरवसोभायभवनशापदानम् ॥ ६॥ रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा || उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ॥ १ ॥ 'निक्षिप्तदेहौ काकुत्स्थ कथं तो द्विजपार्थिवौ || पुनर्देहेन संयोगं जग्मतुर्देवसंमतौ ॥ २ ॥ लक्ष्मणेनैवमुक्तस्तु रामश्रेक्ष्वाकुनन्दनः || प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ॥ ३ ॥ तौ परस्परशापेन देहानुत्सृज्य धार्मिकौ ॥ अभूतां नृपविप्रर्थी वायुभूतौ तपोधनौ ॥ ४ ॥ अशरीरः शरीरस्य कृतेऽन्यस्य महामुनिः || वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ॥ ५ ॥ सोभिवाद्य ततः पादौ देवदेवस्य धर्मवित् || पितामहमथोवाच वायुभूत इदं वचः ॥ ६ ॥ भगवन्निमिशापेन विदेहँत्वमुपागमम् || लोकनाथ महादेव अण्डजोपि त्वमब्जजः ॥ ७ ॥ १९ ॥ चेतनेन विना कृत इति । मृत इत्यर्थ: । मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सुरुचिरप्रख्यः सुरुचिरकान्तिः ॥ २०-२१ ॥ सर्गः ॥ ५५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे देवसंमतौ देवतुल्यौ || २-४ ॥ अन्यस्य शरी- 1 । स० सुचिरप्रख्यः प्राक्सुचिरंप्रख्याशोभायस्यसः ॥ २० ॥ स० शापितौ शप्तौ । नृपद्विजेन्द्र निमिवसिष्ठौ । तत्तुल्याधिगत- प्रभाववन्तौ गतश्चासौंप्रभावश्च सोस्तिययोस्तौ | सः लोकविदितः तुल्यः परस्परं । आधिर्मनोव्यथाययोस्तौ । तौ च तौतौ च । नागोजिभस्तु 'तदिति ब्रह्मनाम | ब्रह्मणस्तुल्यतयाअधिगतःप्राप्तः यःप्रभावस्तद्वन्तौ । ब्रह्मप्रभावावितियावत्' इतिव्याकुर्वन्शापतः परस्परंविदेहताप्राप्तेःशोकमूलतया प्रकरणानौचित्यंसंपादितवानितिमन्तव्यम् । तत्तुल्याधिगतप्रभाववन्तौ तल्लोकप्रसिद्धं तुल्याधि- गतं अधिगतिः उभयोः परस्परं विदेहताप्राप्तिः तत्कारकोयःप्रभावः अन्योन्यशापप्रदानसामर्थ्य तद्वन्तावितिवा | पक्षद्वयेपिन कर्मधारया दित्यस्यैकदेशिने ति निर्देशोऽनित्यत्वंज्ञापयतीतिमत्वर्थीयोपपत्तिर्वोध्या ॥ २१ ॥ इतिपञ्चपञ्चाशः सर्गः ॥ ५५ ॥ ति० देवसंमतौ देवपूजितौ । स० निक्षिप्य त्यक्त्वा । देवसंमतौ हरिसंमतौ । भगवदिच्छयैवंजातौ । हेदेव संमतौ सुश- रीरत्वेनसंप्रतिपन्नावितिवा ॥ २ ॥ स० नृपविप्रर्षी विप्रश्वासावृषिश्च । नृपश्चसचतौ । वायुभूतौ पिशाचादिवद्वातभूतौ । एवमवस्थानेकारणमाह - तपोधनाविति ॥ ४ ॥ स० अन्यस्य सर्वदृश्यस्य ॥ ५ ॥ ति० अभिवाद्याभिवादनादिअशरीरस्या- पितपःप्रभावाल्लिङ्गदेहेनोपपनं ॥ ६ ॥ स० अण्डजः ब्रह्माण्डविग्रहः ॥ ७ ॥ [ पा० ] १ झ ठ. देहस्ससुचिरप्रख्यो २ झ ठ. निक्षिप्यदेहौ. ३ क. ख. ग. ज. विदेहोस्मिकृतःप्रभो ४ च. छ. झ ञ देवदेवमहादेववायुभूतोहमण्डज. वा. रा. २६१