पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयःसमम् ॥ ३३ ॥ ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ॥ चचार सवेत्र महान्महामतिः खगं पुरं प्राप्य पुरंदरो यथा ।। ३४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ॥ ५ ॥ सुकेशान्माल्यवान्सुमालीमालीचेति त्रयाणांरक्षसामुत्पत्तिः ॥ १ ॥ स्वतपस्तुष्टपरमेष्ठिवरदृौसैस्तैः सुरासुरादिप्रबोधनपूर्वकं लङ्कायांविश्वकर्मवचनान्निवासः ॥ २ ॥ तैर्निजकलत्रेषु बहुरूक्षरक्षोपत्यसमुत्पादनम् ॥ ३ ॥ सुकेशं धार्मिकं दृष्टा वरलब्धं च राक्षसम् ॥ ग्रामणीनम गन्धर्वो विश्वावसुसमप्रभः ।। १ ।। तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।। तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा ॥ २ ॥ वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् ॥ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः ॥ ३ ॥ स तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः ॥ ४ ॥ देववत्यां सुकेशस्तु जनयामास राघव ॥ ५ ॥ त्रीन्पुत्राञ्जनयामास त्रेतान्निसमविग्रहान् ॥ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम् ॥ त्रींत्रिनेत्रसमान्पुत्रात्राक्षसान्राक्षसाधिपः ।। ६ ।। त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्रयः ॥ त्रयो मत्रा इवात्युग्रास्त्रयो घोरा इवामयाः ॥ ७ ॥ त्रयः सुकेशस्य सुताखेताग्रेिसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव ।। ८ ।। वरप्राप्ति पितुस्ते तु ज्ञात्वेश्वरतपोबलात् ॥ तपस्तपुं गता मेरुं भ्रातरः कृतनिश्चयाः ॥ ९ ॥ माणप्रियकाम्ययेति ।। ३१-३२ । सद्योपलब्धिरिः | गन्धर्व आसीत् स तं सुकेशं दृष्टा तस्मै सुकेशाय त्यार्षः संधिः । मातुरेव वयःसमं वयःप्राप्तिरिति | ददावित्यन्वयः । रक्ष:श्रियं राक्षसश्रियं ॥ १-३ ।। योजना ।। ३३ । सुकेश इत्यनुवादादेव तन्नामकरणं | अञ्जनाद्ञ्जनाख्यगजात् अभिनिष्क्रान्त: उत्पन्न सिद्धं । खगं आकाशगं ॥ ३४ ॥ इति श्रीगोविन्द- | महागजः करेण्वेव रराज ॥ ४-६ ॥ त्रयो लोका राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने इत्यादिश्लोकद्वयं। त्रयो मन्नाः उत्साहप्रभुमन्नशक्तयः। उत्तरकाण्डव्याख्याने चतुर्थः सगे ।। ४ ।। त्रयो वेदा वा । त्रय आमयाः वातपित्तश्लेष्मरूपाः । त्रेतान्निसमवर्चस इति तेजोतिशय उक्तः । पूर्वसाहत्य सुकेशमित्यादि सार्धद्वयं । वरलब्धं लब्धवरं । ! प्रधानात् (१)। व्याधयोपेक्षिता इति संधिरार्षः ॥७- स० सद्योपलब्धिरिति । अत्रसंधिरार्षः । अथवा 'एधोदकमुपस्कुरुते ' इत्यत्रैधश्शब्दसमानार्थकैधशब्दोप्यस्तीतिसमा धिवदत्रापिसद्यशब्दसमानार्थकःसद्यश्शब्दोप्यस्ति । तेनसन्ध्युपपत्तिः । अनेनरत्यर्थराक्षसीभिर्गर्भस्त्यज्यते । तस्यचनपो षण तासांसद्यएवगर्भप्राप्तिःप्रसवश्वसद्यएव तस्यचविशिष्टयौवनमित्येवंदययादेव्यावरादत्ताइत्युक्तंभवति । मातुर्वयस समंयद्वयःतत्प्रातितुल्यरूपप्राप्तिप्रतिवरोदत्तइत्यन्वयः ॥ ३३ ॥ इतिचतुर्थःसर्गः ॥ ४ ॥ शि० ग्रामणीनमगन्धर्वः प्रससादेतिशेषः ॥ १ ॥ शि० प्रसादफलमाह--तस्येति । तस्य प्रामण्यः । देववतीनामया आत्मजा तांसुकेशायददौ ॥२॥ स० वरदानकृतैश्वर्यं वरदानरूपंकृतं कर्म । तेनैश्वर्ययस्यसतथातं ॥ ३ ॥ ति० अत्रोपमाव तुष्टयेस्थिरखतेजखिलखापरिमितसामथ्यैहिंसकखानिसाधारणधर्माः ॥ ७ ॥ स० व्याधयोपेक्षिताइत्यत्रगुणआर्षः । व्याधयः अपे क्षिताइतिवाछेदः । तत्रेक्षितमितिभावेक्तः । अपगतमीक्षितमीक्षणं । तत्परिहारप्रयन्नइतियावत् । येभ्यस्तेऽपेक्षिताः । उपेक्षिताइ [पा० ] १ घ. दुर्गतः. २ घ. मालिंचैवबलान्वितं. ३ क. ध. समर्वचसः. ४ क. ध.-झ. झालैश्वर्यंतपोबलातू.