पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः ॥ जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः ॥ १५ ॥ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ ॥ मधुकैटभसंकाशौ बभूवतुररिन्दमौ ।। १६ ।। प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा ॥ हेतिदौरक्रियार्थे तु परं यलमथाकरोत् ॥ १७ ॥ स कालभगिनीं कन्यां भयां नाम भयावहाम् ॥ उदावहदमेयात्मा खयमेव महामतिः ॥ १८ ॥ स तस्यां जनयामास हेती राक्षसपुङ्गवः ॥ पुत्रं पूत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् ॥ १९ ॥ विद्युत्केशो हेतिपुत्रः स दीप्तार्कसमप्रभः ॥ व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः ॥ २० ।। स यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तु व्यवसितः पिता ।॥ २१ ॥ सैन्ध्यायास्तनयां सोथ सन्ध्यातुल्यां प्रभावतः ॥ वरयामास पुत्रार्थ हेती राक्षसपुङ्गवः ॥ २२ ॥ अवश्यमेव दातव्या परमै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २३॥ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।। रमते स्म तया सार्ध पौलोम्या मघवानिव॥२४ ॥ केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्भर्भमाप घनराजिरिवार्णवात् ॥ २५ ॥ ततः सा राक्षसी गर्भ घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्जिम् ॥ २६ ॥ तमुत्सृज्य तु सा गर्भ विद्युत्केशरतार्थिनी ।। रेमे तु सार्ध पतिना विस्मृत्य सुतमात्मजम् ॥ २७॥ उत्सृष्टस्तु तदा गर्भ घनशब्दसमस्खनः ॥ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः । । निधायास्ये खयं मुष्टि रुरोद शनकैस्तदा ॥ २८ ॥ ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितखनम् ॥ २९ ॥ अपश्यदुमया सार्ध रुदन्तं राक्षसात्मजम् ॥ कारुण्यभावात्पार्वत्या भवत्रिपुरसूदनः ॥ ३० ॥ तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवोक्षरोव्ययः ॥ ३१ ॥ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया। उमयाऽपि वरो दत्तो राक्षसानां नृपात्मज ।। ३२ ॥ क्रमः ॥१४॥ वः युष्माकं मध्ये । यैः रक्षामेत्युक्तं ते | मध्यः ॥२०॥ पिता हेतिः ॥२१-२५॥ प्रसूता प्रसू राक्षसा भवन्तु । यैर्जक्षामेत्युक्तंते यक्षा भवन्तु । वर्ण-|तवती । अन्निजं गर्भमिति । अग्निा विस्मृष्टं माहेश्वरं व्यत्यय आर्षः॥१५-१६॥ तत्र राक्षसेषु। तपोवनगत |गर्भमित्यर्थ । घनगभेऽशनिः ॥ २६-२९ ॥ इति । विरक्तो भूत्वेति शेषः ।॥१७॥ कालो यमः । स्वय- | कारुण्येन सहितः भावश्चित्तं कारुण्यभावः । तस्मात् मेवेति । प्रार्थनां गत्वत्यर्थः । अस्यैव विवरणं दारक्रि|॥ ३० ॥ अक्षरोव्यय इति षड्भावराहित्योपलक्षणं । यार्थ इत्यादि ॥१८-१९॥ तोयं मध्ये यस्य स तोय- | पार्वत्या प्रेरित इति शेषः । इदमेव दर्शयति-वक्ष्य जक्षणंवैवक्षिकंपूजनादिरूपंकुर्मइत्युत्तरितवन्तइतिभावः । अनुप्रासेनरक्षामोयक्षामइतिद्वयेऽवदन्नितिध्वनिः । ति० तत्रतेषुभग वन्नियुक्तभूतेषुमध्येभगवत्प्रयुक्तरक्षध्वमितिपदस्याविनाशेनावस्थापनमर्थइतिकेचनप्रपन्ना । उत्तरोत्तराभिवर्धनरूपपूजनमर्थइति परेप्रपन्नाः । तत्राद्यारक्षामेतिप्रतिवचनंदत्तवन्तः । परेयक्षामेति । ‘यक्ष पूजायां' । उभयमपिलोडुत्तमबहुवचनं । बुभुक्षितावु भुक्षितैरित्यस्यस्थानेभुतिाभुहितैरित्यार्ष । अबुभुक्षिताः पिपासिताः ॥ १४ ॥ ति० प्रभावतःसन्ध्यातुल्यामितिसंबन्धः । सन्ध्यादुहिता सालकटंकटाख्या ॥ २२ ॥ स० राक्षसी । यद्यपिसन्ध्यायादेवताखं । तथापिरक्षणप्राधान्येनब्रह्मसूसृष्टत्वेन क्षसीखात्तत्पुत्र्याअपिराक्षसीलंबोध्यं । अमिजं अन्निविसृष्टषण्मुखरूपंगर्भगङ्गेवप्रसूता। प्रकृष्टसूतंसवनंयस्या:सा । प्रसूतवतीत्यर्थः ति० घनगर्भसमप्रभं जलगर्भमेघसमकान्ति ॥ २६ ॥ ति० विद्युत्केशरतार्थिनी विद्युत्केशेनसहरतंक्रीडामर्थयतितादृशी । बभूवेतिशेषः ॥ २७ ॥ स० मातुर्वयसासमं । माताप्रसवकालेकियद्वर्षोंपेता कीदृशाकारवतीतादृशाकारकमित्यर्थः ॥ ३१ ॥ स० बालेषु तत्रापिरक्षकरहितेषुप्रायेणस्त्रीणामनुक्रोशात्पार्वत्याःप्रियकाम्ययेत्युक्तं ॥ ३२ ॥ [पा०]१ झ. . ट. इवांबुजं. २ ड, च. छ. झ. . ट