पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तव शासनमाज्ञाय गतोसि भवनं प्रति || उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभापत ॥ ४ ॥ निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना ॥ निहत्य युधि दुर्धर्षं रावणं राक्षसेश्वरम् ॥ ५ ॥ ममापि परमा ग्रीतिर्हते तस्सिन्दुरात्मनि || रावणे सगणे चैव सपुत्रे सहबान्धवे ॥ ६ ॥ स त्वं रामेण लङ्कायां निर्जितः परमात्मना || वह सौम्य तमेव त्वमहमाज्ञापयामि ते ॥ ७ ॥ परमो ह्येष मे कामो यत्त्वं राघवनन्दनम् || वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः ॥ ८ ॥ सोहं शासनमाज्ञाय धनदस्य महात्मनः ॥ त्वत्सकाशमनुप्राप्तो निर्विशङ्कः प्रतीक्ष माम् ॥ ९ ॥ अदृश्यः सर्वभूतानां सर्वेषां धनदाज्ञया || चराम्यहं प्रभावेण तवाज्ञां परिपालयन् ॥ १० ॥ एवमुक्तस्तदा रामः पुष्पकेण महाबलः ॥ उवाच पुष्पकं दृष्ट्वा विमानं पुनरागतम् ॥ ११ ॥ यद्येवं स्वागतं तेऽस्तु विमानवर पुष्पक || आनुकूल्यानेशस्य वृत्तदोषो न नो भवेत् ॥ १२ ॥ लाजैश्चैव तथा पुष्पैर्वृपैश्चैव सुगन्धिभिः || पूजयित्वा महाबाहू राघवः पुष्पकं तदा ॥ १३ ॥ गम्यतामिति चोवाच आगच्छ त्वं स्मरे यदा || सिद्धानां च गतौ सौम्य मा विपादन योजय || प्रतिघातच ते मा भूद्यथेष्टं गच्छतो दिशः ॥ १४ ॥ एवमस्त्विति रामेण पूजयित्वा विसर्जितम् || अभिप्रेतां दिशं तस्मात्प्रायात्तत्पुष्पकं तदा ॥ १५ ॥ एवमन्तर्हिते तस्मिन्पुष्पके सुकृतात्मनि ॥ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् ॥ १६ ॥ विविधात्मनि दृश्यन्ते त्वयि वीर प्रशासति || अमानुषाणां सवानां व्याहृतानि मुहुर्मुहुः ॥१७॥ अनामयश्च सन्चानां साग्रो मासो गतो ह्ययम् || जीर्णानामपि सन्चानां मृत्युर्नायाति राघव ॥ १८॥ १३५ स्तुतामिति चपाठः ॥ २–७ || लोकस्य संयान - | नानारूपे | चित्र इत्यर्थः । अमानुषाणां सत्त्वानां मिति । लोकसंचरणमित्यर्थः ॥ ८-१३ ॥ स्मरे पुष्पकादीनामित्यर्थः ॥ १७ ॥ साम्रो मासो गत स्मरामि । सिद्धानां च गतौ आकाशमार्गे | आत्मानं इति । अभिषेकानन्तरं साम्रो मासो गतः । तावन्मा- 'विषादेन अस्मद्वियोगदुःखेन मा योजय । विमुक्त- त्रेणानामयादिगुणप्रादुर्भाव इत्याश्चर्यमित्यर्थः । अनेन गत्या गतदुःखः सुप्रतिष्ठितः सुखमास्वेत्यर्थः । सिद्धानां गतौ मा मां अविपादेन अश्रमेण योजय पुष्पकागमनं मासाभ्यन्तर एव तत्कालवृत्तान्तः आपयेति वार्थः ॥ १४-१६ ॥ विविधात्मनि | भरतेन निदर्शित इत्यवगम्यते । पुन: फाल्गुनमास- स० सचकुबेरः ॥ शि० उपस्थातुं त्वत्समीपेनिवसितुं ॥ ४ ॥ ति० निर्जितः अतस्तमेववहेतिशेषः ॥ स० निर्जितः रावणंहत्वा स्ववशीकृतः ॥ ५ ॥ स० सहबान्धवे भ्रात्रादिबान्धवसहिते । सगणे सभृत्यादौ ॥६॥ स० ममवहनादपिपरमात्मवहनात्परमात्री- तिर्ममेलाह–परमइति ॥ लोकस्यसंयानं अश्रमेणनानास्थान गमनसाधनं त्वं राघवनन्दनंव हे रितिय देष मेपर मोमहान्कामः विगत ज्वरः । मन्मनोवैपरीत्यशङ्कारहितःसन् गच्छख गच्छ | हेख भृत्य गच्छेतिवा ॥ ८ ॥ स० वृत्तदोष: सदाचारभङ्गरूपः ॥ १२ ॥ शि० गतौ स्वगमने । सिद्धानां गगनस्थसिद्धान् | विषादेनमायोजयस्व स्वगमनेनसिद्धान् नपीडयेत्यर्थः ॥ अतएव यंथेच्छंदिशोगच्छत स्तेप्रतिघातः शापेन विघातोमाभूत् ॥ १४ ॥ स० विसर्जितं आज्ञप्तं ॥ तत्पुष्पकं पुष्प मिवलघु | संज्ञायांकन् ॥ १५ ॥ स० विबुधात्मनि देवस्वरूपे | अमानुषाणिसत्वानि पुष्पकाद्यभिमानिदेवाः | अमानुषाणि व्याहृतानि अशरीरगिरः | दृश्यन्तेश्रूयन्तेच ॥ शि० भरतवचनाकारमाह - विबुधेत्यादिभिः | विदुधानांदेवानामपिआत्मनि नियन्तरित्वयिप्रशासतिसति अमानुषाण्यपिसत्त्वानि मुहुर्मुहुर्व्याहृतानि मनुष्यवदाभाषमाणानिदृश्यन्ते । एतेनरामप्रभावस्याघटितघटनापटीयस्त्वंसूचितं ॥ ति० कानिदृश्यन्तेतदाह - अमानुषाणीति | सत्वानि पुष्पकादीनि । व्याहृतानि मत्वर्थीयाजन्तं | व्याहारवन्ति । साम्रोमासइति जातावेकवचनं । मासाइत्यर्थः ॥ १७ ॥ स० वृद्धानां जीर्णानां ॥ १८ ॥ धनदंप्रति. क. धनदालयं. २ क- घ च छ. झ. अत्यद्भुता निदृश्यन्ते. ३ क – ङ. झ. ज. अमानुषाणिसवानि. ४ क झ उ मर्त्यानां ५ ठ. वृद्धानामपि [ पा० ] १ ख ग घ. च. छ. ज.